________________
४३८
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
1
संग्रहकारोऽपि -- खल्वाटकश्च दुर्वालः कपिलश्धंड एव चेति । विविध ओष्ठाभ्यामनावृतदन्तः । विप्रजननश्छिन्नलिंगचर्मा दाक्षिण्यात्यप्रसिद्धः । तथा च कल्पलतायां --- विद्वप्रजननश्चैव कृतशिश्नविकार - वान् । ते हि कामोपभोगार्थं दाक्षिणात्याः प्रकुर्वते । वंध्यावीजो वा । मृतापत्य इत्यन्ये । व्याधितो रोगी । महारोगोपसृष्ट इति कश्चित् । व्यंगो - विगतं विविधं वांगमस्त्यस्येति सः । हीनाङ्गो - sधिकाङ्क्ष हीनातिरिक्ताङ्ग इति स्मृतेः । श्वित्री श्वेतकुष्ठी । कुष्ठी कुत्सितगलिताङ्गः । व्याधितग्रहणादेव तन्निषेधे सिद्धे तद्ग्रहणं दोषाधिक्यद्योतनार्थम् । अजीर्णाद्यल्परोगिदोषाल्पत्वज्ञापनार्थे वा । स्वभावात्कुत्सितनखः कुनखी । एतान् वर्जयित्वा निमन्त्रयेदित्यर्थः । अत्र स्नातका दिविहितग्रहणादेवेतरनिषेधे सिद्धे द्विर्ननादिनिषेधो मुन्यन्तरोक्तान्तरालिकद्विजोपवेशनार्थः ते च ग्रन्थगौरवभयान्नेह लिखिता: । अन्यथा द्विर्ननादिवर्जनमनर्थकं स्यात् । 'अनिन्द्येनामन्त्रितो नापक्रामेत् । अनिन्द्यो निर्दोषस्तेनामन्त्रितो न व्यतिक्रमेत् । तथा च श्रुतिः - स होवाचानिन्द्या वै मा वृषत सोऽनिन्द्यैर्वृतो नाशकमतिक्रमितुमिति तस्मादुहानिन्द्यस्य वृतो नापक्रामेदिति । अग्निवैश्योऽपि । नैकदाऽपि परान्नं यो भुङ्क्ते मूढमतिर्द्विजः । संवत्सराभ्यंतरे स न पूज्यो वत्सरं भवेदिति, निर्दोषस्येति शेषः । 'आमन्त्रितो वाऽन्यदन्नं न प्रतिगृह्णीयात् निमंत्रितो विप्रोऽन्यदन्नं सिद्धमामं वा परस्य न गृह्णीयादित्यर्थः । अथवाऽन्यस्यान्नमन्यदन्नम् । अन्यस्य दुगागमश्छान्दसः । वाशब्दो निमन्त्रिते दातृभोक्त्रोः परस्परत्यागनिषेधं द्योतयति । तथा च यमः -- आमन्त्रितश्च यो विप्रो भोक्तुमन्यत्र गच्छति । नरकाणां शतं गत्वा चाण्डालेनभिजायते । केतनं कारयित्वा तु निवारयति दुर्मतिः । ब्रह्महत्यामवाप्नोति शूद्रयोनौ च जायते । स्यादित्यपुराणे — आमन्त्रितश्चिरं नैव कुर्याद्विप्रः कदाचन । देवतानां पितॄणां च दातुरन्यस्य चैव हि । चिरकारी भवेद्रोही पच्यते नरकाग्निनेति । 'स्नाताच्छुचीनाचांतान ' ईदृशानुपवेश्य श्राद्धं कुर्वीतेति वक्ष्यमाणेन संबन्धः । स्नानशौचाचमनानि स्मृतिप्राप्तान्येवात्र सार्थकत्वेनानुवदति । तेन स्नानशौचाचमनेष्वत्र विशिष्टविधिरित्यर्थः । तथा च देवलः -- ततो निवृत्ते मध्याह्ने कृत्तलोमनखान् द्विजान् । अभिगम्य यथापूर्वं प्रयच्छेद्दन्तधावनम् । तैलमुद्वर्तनं स्नानं स्नानीयं च पृथग्विधम् । पात्रैरौदुम्बरैर्दद्याद्वैश्वदेवस्यपूर्वकम् । ततः स्नात्वा निवृत्तेभ्यः प्रत्युत्थाय कृताञ्जलिः । पाद्यमाचमनीयं च संप्रयच्छेद्यथाक्रममिति । अत्रामन्त्रितानां स्निग्धस्नानदंतधावनविधाने कर्तुस्तत्प्रतिषेधाद्विशेषः । तथा च—— दन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् । रत्यौपधपरान्नानि श्राद्धकृत्सप्त वर्जयेत् ' इति । अक आहुरनिषिद्धतिथिविषयं तैलादिप्रेषणमिति । तदभद्रम् । श्राद्धीयेऽहनि विशिष्टविधित्वात् । तथा च कात्यायन:- - तैलमुद्वर्तनं देयं ब्राह्मणेभ्यः प्रयत्नतः । तैरभ्यङ्गः प्रकर्तव्यो वर्ण्यकालान चिन्तयेत् । अभ्यङ्कप्रकरणे सुरेश्वरोऽपि - पुत्रजन्मनि सङ्क्रान्तौ श्राद्धे जन्मदिने तथा । नित्यस्त्राने च कर्तव्ये तिथिदोषो न विद्यते । इति । निषेधस्य मलापकर्षविपयत्वाच्च । एवं व्रणादिव्याधिसंभवे रक्तस्रावादौ च कृते अशुद्धत्वाच्छुचीनिति विशेषः । तथा च पुराणसमुच्चये - कृत्वा तु रुधिरखानं न विद्वांच्छ्राद्धमाचरेत् । एकं द्वे त्रीणि वा विद्वान् दिनानि परिवर्जयेत् । वमने वातिरेके वा तद्दिनं परिवर्जयेत् । यथा रजस्वला नारी ह्यशुचिस्त्रिदिनं भवेत् । रक्तस्रावे तथा नृणामशुचित्वं प्रजायते इति । एवमाचमनेऽपि विशेषः । तथा च विष्णुपुराणे - उपस्पर्शस्तु कर्तव्यो मण्डलस्योत्तरे दिशि । कर्त्राय वा द्विजैर्वापि विधिवद्वाग्यतैः सदा । मण्डलस्योत्तरे भागे कुर्यादाचमनं द्विज: । सोमपानफलं प्राहुर्गर्गकाश्यपगौत्तमाः । आपस्तंवोऽपि -- कुर्युराचमनं विप्रा उदीच्यां मण्डलाद्बहिः । अन्यदिक्षु यथा कुर्यान्निराशाः पितरो गताः इति । तथा — विप्रपादोदकस्थाने कुर्यादाचमनं द्विजः । रुधिरं तद्भवेत्तोयं निराशाः पितरो गताः । इति । पादोदकोच्छिष्टवारियोश्चेत्संगतिर्भवेत् । उच्छिष्टाः
1
1
1