________________
afuser १ ]
परिशिष्टम् ।
४३७
भवेद्ब्रह्मघातकः । इति उक्तमिति सूक्तम् । अथवा एकग्रहणं व्यवस्थितविकल्पार्थम् । दैवश्राद्धे यतयः
$
गृहस्थाः इति । तथा च वृद्धवसिष्ठः चत्वार आश्रमाः पूज्या दैवश्राद्धेन सर्वदा । चतुराश्रमबाह्येभ्यः श्राद्धे नैव प्रदापयेत् । मार्कण्डेयोऽपि ब्राह्मणानां सहस्रेभ्यो योगी त्वप्राशने यदि । यजमानं च भोक्तुंश्च नौरिवांभसि तारयेत् । यमोऽपि ---न ब्राह्मणं परीक्षेत दैवे कर्मणि सर्वदा । पित्र्ये कर्मणि संप्राप्ते परीक्षेत प्रयत्नतः । वैश्वदेवे नियुञ्जीतेति वाराहपुराणवचनाच्चेत्यलमतिप्रपंचेन । गृहस्थान् साधून्वा ' वाशब्दः पाक्षिकयतिनिमंत्रणनिषेधार्थः । तथा च जावाल:- अनंति ये न मांसानि भार्याहीनाश्च ये द्विजाः । ये च मातुलसंबंधा न तान् श्राद्धे निवेशयेत् । ऋष्यशृंगोऽपि - नाश्नाति यो द्विजो मांसं यस्य नो दारसङ्ग्रहः । तावेतौ मुनिभिः प्रोक्तावनहौ मखदूषकाविति । ननु चासाधुगृहस्थ निषेधार्थः कथं न स्यात् ? उच्यते - साधुशब्देनैव तन्निषेधसिद्धेः । न चात्र वाशब्दाभावः शंकनीयः । शाखान्तरे दृश्यमानत्वात् । तथा च गोभिल: -- गृहस्थान्साधून्वेति । वसिष्ठोऽपि यतीन् गृहस्थान् साधून्वेति । अतश्च गृहाः पत्नी तत्सहिताः गृहस्थास्तान्निमंत्रयेदित्यर्थः । न चैवं विभार्यनिमन्त्रणमभ्यनुज्ञातम् । विभार्यौ वृषलीपतिरित्यत्रिणा प्रतिषिद्धत्वात् । साधूनाहादित्यपुराणे - साधून्वक्ष्यामि सांप्रतमित्युपक्रम्य गङ्गायमुनयोर्मध्ये मध्यदेशः प्रकीर्तितः । तत्रोत्पन्ना द्विजा ये वै साघवस्ते प्रकीर्तिताः । इति । अथवा म्लेच्छदेशव्यतिरिक्तदेशस्थाः सद्वृत्ताः, म्लेच्छदे - शनिवासिनो वर्जयेदिति मत्स्यवचनात् । ' श्रोत्रियान् निमंत्रयेदिति । श्रोत्रियमाह देवल:---- एकशाखां सकल्पां च षड्भिरङ्गैरधीत्य च । षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् । जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते । इति वा । 'वृद्धाननवद्यान् ' विकलेन्द्रियदुराचारादिदोषराहित्यमनवद्यशब्देनोच्यते । ततञ्चाग्र्याः सर्वेषु श्रोत्रियो ब्रह्मविद्युवेति युवत्वेन वृद्धनिषेधे वृद्धानिति प्रतिप्रसवः । अथवा युववृद्धविधिभ्यां तद्व्यतिरिक्तस्याल्पवयस्कस्य भोक्तृनियमाक्षमस्य प्रतिषेधः । अनवद्यपदमुत्तरत्रानुषज्य स्वकर्मस्थद्विजविशेषणं कृत्वा केवलवृद्धशब्देन ज्ञानवयस्तपोवृद्धांस्त्रिविधानिति हलायुधः । 'स्वकर्मस्थान् ' स्वजात्युक्तकर्मानुष्ठातृन्वि - प्रानित्यर्थः । अतश्च श्रोत्रियादिवैलक्षण्यमनेनोक्तमित्यपुनरुक्तिः । तथा च पुराणसमुच्चये -गृहस्था: कुलसंपन्नाः प्रख्याताः कुलगोत्रतः । स्वदारनिरता: शांता विज्ञेयाः पङ्क्तिपावनाः । इति । एवं मुख्यकल्पं प्रदर्श्यानुकल्पं दर्शयति । 'अभावेऽपि शिष्यान्सदाचारान्' । अपिशब्दः स्मृत्यंतरोक्तानुकल्पसमुच्चये । ततश्च पूर्वोक्तमुख्यकल्पाभावे सदूवृत्तशिष्यादीनपि निमन्त्रयेदित्यर्थः । तथा च याज्ञवल्क्यः स्वस्त्रीयऋविग्जामातृयाज्यश्वशुर मातुलाः । त्रिणाचिकेतदौहित्र शिष्यसंवंधिबान्धवाः । इति । अनुकल्पःस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः । मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् । दौहित्रं विपतिं बंधुं ऋत्विग्याच्या च भोजयेदिति मनुः । आपस्तंचोऽपि गुणवदलाभे सोदयोंऽप्येतेनान्तेवासिनो व्याख्याता इति । अयं चानुकल्पो दैवश्राद्ध एव न पित्र्ये । तथा चात्रि: ---पिता पितामहो भ्राता शिष्यो वाऽप्यसपिण्डकः । न परस्परमर्ष्याः स्युर्न श्राद्धे ऋत्विजस्तथा । ऋत्विक्पुत्रादयो ह्येते सकुल्या ब्राह्मणा द्विजाः । वैश्वदेवे नियोक्तव्या यद्येते गुणवत्तराः । इति । अपिरत्र भिन्नक्रम इति हलायुधः । स्वाचारानित्यनेनाचार्यधनहारित्वाभाव उक्तः । ते हि कदाचिद्धनहारिणो विहिताः दद्यात्पिण्डं हरेद्धनमित्यादिना । अतस्तथात्वे शिष्यादयो न निमन्त्रणीयाः । पिण्डदोंशहर इति पिंडदातृत्वसंभवात् । वर्ज्यानाह - 'द्वि
शुकृविविधश्यावदंत विद्धप्रजननव्याधितव्यंगिग्वित्रिकुष्ठिकुन खिवर्ज ' द्विरिति पित्रोर्वशे त्रिपुरुपं वेदाग्न्योर्विच्छेदान्नग्नः शून्यो द्विर्ननः । तथा च सुमन्तुः --यस्य त्रिपुरुषादासीदुभयोगत्रयोरपि । वेदस्याग्नेश्च विच्छेदो द्विर्ननः परिकीर्त्तितः । दुयर्माधिकशुकोतिकपिलांगकेशः । तथा च कात्याय- द्विर्ननः किल दुबर्मा शुक्लोऽतिकपिलः स्मृतः । विचर्चिकादित्वग्दोपी विधिः परिकीर्तितः ।
नः---