________________
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
I
1
जयाजयेद्यस्तु योगिनः । विप्रच्छ्राद्धे प्रयत्नेन तेन तृप्यामहे वयमिति । इतरे कात्यायनादयो नेत्याहुः । तथा च गृह्यसंग्रह - आचार्यानुमतं वाक्यमेकीयं गृह्यते कचित् । शेषाण्येकीयवाक्यानि आचार्यों न प्रशंसति । अपि च वसिष्ठः - श्रुतिस्मृती अतिक्रम्य मांसमश्नाति मूढधीः । न तं दुर्ब्राह्मणं प्राज्ञ: श्राद्धार्थमुपवेशयेत् । यो दद्यादन्नमस्माकं तत्सर्वे मधुना सह । आपवेण समायुक्तं शस्तानां मृगपक्षिणाम् । जातूकर्ण्यः-दारवान्यो द्विजः श्राद्धे दद्यान्नो मांसमध्वरे । स दुरात्मा दुराचारो वेदमार्गस्य दूपकः । तर्पणं तिलहीनं यच्छ्राद्धं यच्च निरामिपम् । विना दर्भैश्च या संध्या त्रयं गशविपाणवत् । यत्र मातुलजो - द्वाही यत्र वा वृपलीपतिः । श्राद्धं धिनोति नह्येतान् कृतं यच्च निरामिपम् । विश्वामित्रः -- निमंत्रितस्तु यः श्राद्धे यज्ञे वाऽपि द्विजाधमः । मांसं नाश्नाति निरयं याति वै पशुतां नरः । इत्याद्यंगवाधभयाद्यतिपक्षः कात्यायनेन व्युदस्त इत्येक इत्युक्तम् । त्रिदंडिनामेव विहितत्वात् । तथा च वायुपुराणम् --- संति वेदविरोधेन केचिद्विज्ञानमानिनः । मयज्ञयतयोनाम ते ध्वंसंति यथा रजः । मुण्डा जटिलकाष्ठायां (?) श्राद्धे यत्नेन वर्जयेत् । ब्रह्मांडेऽपि - एभिर्निर्धूतदृष्टुं च श्राद्धं गच्छति दानवान् । शिखिभ्यो धातुरक्तेभ्यस्त्रिदंडिभ्यः प्रदापयेदिति । मुंडो विशिखः । जटिलो भस्माङ्गः । श्रुतिरपि -- अशुचिर्वा एप यन्मुंडस्तस्मै तदपि धनं यच्छिपेति (?) । अन्ये त्वाहुः --- उभावप्यज्ञातकुलशीलत्वान्न निमंत्रयेदिति । तथा च कात्यायनः --- यस्य शीलं न जानीते स्थानं त्रिपुरुषं कुलम् | कन्यादाने तथा श्राद्धे न वृणीयात्कदाचन । मनुः न स्वगोत्रे हविर्दद्यात्समानप्रवरे तथा । नाविज्ञातकुले चैव यथा कन्या तथा हविः । पुराणसमुच्चयेऽपि येषां न ज्ञायते स्थानं नष्टस्थानाच ये द्विजाः । न ज्ञातिर्ज्ञायते येषां न संबंधी न बांधवः । कुधर्माचरणा ये तु न तान् श्राद्धे निवेशयेदिति । एतदप्यहृद्यम् । विज्ञातकुलशीलादीनां विधानोपपत्तेर्मासमधुदक्षिणादाने पंक्तिभेदादिदोपापत्तेः । तस्मादुभयोरप्यातिथ्यरूपेण भोज्यत्वं न पंक्तौ निवेश इति युक्तम् । तथा च वाराहपुराणे-वैश्वदेवे नियुंजीत ब्रह्मचारिं शुचिं सदा । भिक्षुकान् देवतीर्थेषु पूजयेदतिथिं यदा । आतिथ्यानुवृत्तौ छागलेयोऽपि —--गंधमाल्यफलैश्चैव भोजनैः क्षीरसंस्कृतैः । संपूजयेद्यतिं श्राद्धे पितॄणां तुष्टिकारकम् । ब्रह्मचारी यतिश्चैव पूजनीयो हि नित्यशः । तत्कृतं सुकृतं यत्स्यात्तस्य पड्भागमाप्नुयात् । मार्कण्डेयोऽपि -- भिक्षार्थमागतान्वाऽपि काले संयमिनो यतीन् । भोजयेत्प्रणिपाताद्यैः सद्यः संयतमा - नसः । कल्पतरावपि — पूजयेच्छ्राद्धकालेऽपि यतिं सब्रह्मचारिणम् । विप्रानुद्धरते पापात्पितृमातृगणानपि । भुंजते यत्र कुत्रापि यतयो ब्रह्मचारिणः । गृह्णन्ति पितरो देवाः स च याति परां गतिम् । तारयन्ति च दातारं पुत्रान्दारान्पितस्तथा । तस्मात्सर्वप्रयत्नेन पूजयेदाश्रमागतम् । अलाभेन हि भिक्षूणां पूजयेद्ब्रह्मचारिणम् । तदलाभेऽप्युदासीनं गृहस्थमपि भोजयेत् । विश्वामित्रोऽपि यती वा ब्रह्मचारी वा भुञ्जानानां द्विजन्मनाम् । श्राद्धे यत्र भवेत्साक्षी महालयसमं हि तत् । महालयो गया । यतिधर्मेध्वत्रि: ---पित्रर्थकल्पितं पूर्वमन्नं देवादिकारणात् । वर्जयेत्तादृशीं भिक्षां परचाधाकरीं तथा । यमोऽपि - भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः । उपविष्टेषु तु प्राप्तः कामं तमपि भोजयेदित्येवमादिवचनपर्यालोचनया यतीनां साक्षित्वभोज्यत्वयोरेव प्राप्तिर्न पंक्तौ निवेश इति । तथा च स्मृतिः - मुक्तशेषं न भुञ्जीत पीतशेषं न संपिवेत् । न चैवोपविशेत्पंक्तौ यतेर्वा तापसस्य प्च । इति । यतिस्तु सर्वविप्राणां सर्वेषामप्रभुग्भवेदिति वायुपुराणोक्तेः । किंच -- यदि पंक्त्युपवेशः स्यात्तदा द्विजेभ्यो मांसादिदानेन तेपां तदभावेन पंक्तिवैषम्यं भवतीति नैतद्युक्तम् । न पङ्कौ विपमं दद्यादिति वचनात् । वृद्धहारीतोऽपि - पतिभेदी वृथापाकी नरकं प्रतिपद्यते । कामाल्लो भागयाद्वापि यः पङ्क्तिं दूषयेद्विजः । नरकादवतीर्णस्तु जायते ग्रामसूकरः । इति । अपि च दक्षिणायामपि वैषम्यम् । तथा विश्वामित्रः - हेम वा रजतं वाऽपि यतये ब्रह्मचारिणे । यो ददाति ऋते वस्त्रं स
!
४३६