________________
कण्डिका १]
परिशिष्टम् । पार्वणनिषेधस्य त्रिभागादिपक्षेष्वेव पर्यवसानमित्युक्तम् । तिथिविषयपक्षांतरमाह-'यदहः संपद्येत तदहब्राह्मणानामंत्र्य पूर्वेधुर्वा' यदहरिति विभक्त्यर्थाव्ययीभावे नपुंसकादन्यतरस्यामिति टजभावः । क्षत्रियादिप्रतिषेधार्थ ब्राह्मणानित्युक्तम् । पूर्वेद्युरिति निपातः । ततश्च यद्दिने मृताहसंज्ञकतिथिरपरपक्षे स्यात्तदहे पूर्वाहे ब्राह्मणानामन्य श्राद्धं कुर्यादिति शेपः । पूर्वेारसंभवे तदहनिमन्त्रयेदिति वाशब्दार्थः । तथा च कूर्मः-श्वो भविष्यति मे श्राद्धं पूर्वेारभिपूजयेत् । असंभवे परेशुर्वा यथोक्तैर्लक्षणैर्युतान् । देवलोऽपि-श्वः कर्तास्मीति निश्चित्य दाता विप्रानिमन्त्रयेत् । असंभवे परेधुर्वा ब्राह्मणांस्तान्निमन्त्रयेत् । इति । अथवा वाशब्दो व्यवस्थायां, योषित्प्रसंगिनः पूर्वेधुरितरांस्तदह इत्यर्थः । तथा च मार्कण्डेय:-निमन्त्रयेत पूर्वेयुः पूर्वोक्तांस्तु द्विजोत्तमान । अप्राप्तौ तद्दिने वाऽपि हित्वा योपित्प्रसंगिनम् । कात्यायनोऽपि-न विना ब्रह्मचर्येण ब्राह्मणः श्राद्धमर्हति । ब्रह्मचारियतींश्चैव तहिने वै निमन्त्रये(दि)ति । दिनद्वये निमन्त्रयेदिति समुच्चयार्थों वा । तथा च वृद्धयाज्ञवल्क्य:चरणक्षालनादूर्वं पुनर्विनिमन्त्रणम् । आसनार्चनसंयुक्तमधैं चप्रतिपाद्यते । इति । अत्रैक आहुर्यदहः संपद्यतेति संपत्त्यर्थवाचकत्वाद्यदहरेव यथोक्तद्विजद्रव्यादिलाभस्तदहरेव श्राद्धं न तु मृततिघाविति । तद्युक्तम्-तस्य लब्धेन नित्यत्वात् (१) मृततिथेचकत्वात्सदाचरितत्वाच । न च संपत्तिः पुरुष प्रयत्नसाध्यत्वादन्यतन्त्रा । तस्मान्मृततिथावेव सर्व संपाद्य श्राद्धं कर्तव्यमिति युक्तम् । अत एव गोमिलसूत्रे यदह उपपद्यते इत्युपपन्नार्थमुक्तम्(?) । तथा च पुराणसमुच्चये-या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते । सा तिथिः प्रेतपक्षस्य पूजनीया प्रयत्नतः । इति । तिथिच्छेदो न कर्तव्यो विनाशौचं यदृच्छया । पिण्डश्राद्धं च दातव्यं विच्छित्तिनैव कारयेत् । इति । मृताहविषयस्य ऋष्यशृद्धवचनस्यात्रापि सदाचारेण संगतत्वात्तिथिविषयत्वमप्यविरुद्धम् । एतच्चापुत्रभातृपत्न्यादिव्यतिरिक्तविपयम् । तेपामेकादशीद्वादश्योः श्राद्धवचनात् । तथा च वायुपुराणम्-संन्यासिनोऽप्यान्दिकादि पुनः कुर्याद्ययातिथि । महालये तु यच्छ्राद्धं द्वादश्यां पार्वणेन तु । इति पिण्डश्राद्धं च दातव्यमिति । निपिद्धदिनेऽपीत्यर्थः । तथा च कात्यायन:-अशक्तः पक्षमध्ये तु करोत्येकदिने यदि । निषिद्धेऽपि दिने कुर्यापिण्डदानं यथाविधीति । एवं तर्हि-पौर्णमास्यां मृतस्य कुत्र तिथाविति । तत्रामावास्यायामित्येके । तन्न, तिथ्याश्रयाभावात् दर्शमृतस्यैव तत्रोचितत्वाच । अतो भाद्रपद्यामेव युक्तम् । तथा च वृद्धयाज्ञवल्क्यः-पूर्णिमायाममायां वा सदा कन्यां गते रवौ । पूर्णिमादर्शयोः क्षयाहसंज्ञकत्वात्प्रौष्ठपद्यामपरपक्षदर्श च पार्वणं कर्तव्यमित्यर्थः। तथा च-प्रौष्ठपद्याममायां च कन्यां प्राप्ते रवौ सदा । सर्वस्वेनापि कर्तव्यं श्राद्धं वा इंदुलोचने ' इति । एकोद्दिष्टं तु मातुः स्यादित्यस्य विपयमुपरिष्टादक्ष्यामः [इत्युक्तम् ] । अत्रैके भणन्ति–दैवपूर्व निमन्त्रयेदिति । तद्युक्तम् । पितृपूर्वस्य विहितत्वात् । तथा च देवल:-श्वः कर्तास्मीति निश्चित्य दाता विप्रान्निमन्त्रयेत् । कृतापसव्यः पूर्वेयुः पितृपूर्व निमन्त्रयेत् । प्रचेता अपि-कृतापसव्यः पूर्वेयुः पितृ(तृन्पू)पूर्व निमन्त्रयेत् । इति । स्मृत्यन्तरेऽपिप्रार्थयीत प्रदोपांते प्रभुक्तानशयितान्द्विजान् । आयुष्मानपसव्येन पितृन्पूर्व निमन्त्रयेत् । इति । यत्तु वृहस्पतिवचनम् --उपवीती ततो भूत्वा देवतार्थान्द्विजोत्तमान् । अपसव्येन पित्र्ये च स्वयं शिष्योऽथ वा सुतः । इति । तत्पूर्वपश्चाद्भावयोरश्रवणादस्मिन्नेव क्रमे योज्यमित्यविरोधः । एतञ्च पूर्वेानिमन्त्रणं गृहलेपाङपलक्षणम् । तथा च वाराहपुराणे-वस्त्रशौचादि कर्तव्यं श्वः कर्तास्मीति जानता। स्थानोपलेपने भूमेः कृत्वा विप्रान्निमन्त्रयेदिति शेषः । तथा च यमः-विद्यातपोभयनाता ब्राह्मणाः पङ्गिपावनाः । इति अयं चापत्नीकनिमन्त्रणप्रतिषेधे प्रसवः । विभार्यों वृपलीपतिरित्यत्रिणा निषिद्धत्वात् । एके यतीनिमन्त्रयेयुर्न कात्यायनादय इति विकल्पः । तथा च वायवीये-गृहस्थानां सहस्रेण वानप्रस्थशतेन च । ब्रह्मचारिसहस्रेण एको योगी विशिष्यते । विष्णुरपि-अपि नः स कुले