________________
४३४
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
युगादौ ब्राह्मणभोजनमेव श्राद्धम् । दर्शादौ तूभयसमुच्चयः श्राद्धमिति । तदपरे न क्षमन्ते । अव्यात्यतिव्याध्यादिलक्षणदोषैः पराहतत्वाच्छ्रद्धया दीयत इत्यादावव्यापकत्वाश्च । तथा चोक्तम् —— पुराणं मानवो धर्मः सांगो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हंतव्यानि हेतुभिरिति । तस्मात्सर्वत्र कर्मत्वाविशेपादाम्नायभेदेन कर्मव्यवस्थापनं युक्तम् । तथा च धर्मप्रदीपे - यजुषां पिंडदानं तु वहृचां द्विजतर्पणम् । श्राद्धशब्दाभिधेयं स्यादुभयं सामवेदिनामिति । आपस्तंवोऽपि श्राद्धशब्द कर्म प्रोवाच, पितरो देवता त्राह्मणस्त्वाहवनीयार्थ इति । देवतोद्देशेन यथाहवनीये होमस्तया पित्रुदेशेन ब्राह्मणे दत्तं श्राद्धमित्यर्थः । ततश्च कर्मैवोपपन्नमिति सिद्धम् । तथा च ब्रह्मांडे-देशे काले च पात्रे च श्रद्धया विधिना च यत् । पितृनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदाहृतम् । इति । मरीचिरपि - प्रेतपि - तॄंश्च निर्दिश्य भोज्यं यत्प्रियमात्मनः । श्रद्धया दीयते यच तच्छ्राद्धं परिकीर्तितम् इति । वृद्धयाज्ञवल्क्योऽपि - ' पात्रं पत्नी विधिः श्रद्धा देशकालक्षमादयः । एतदेवोच्यते श्राद्धं हविः कर्तृसमन्वितम् ' इति । अथवा एकत्र पारिभाषिकमितरत्रौपचारिकं श्राद्धम् । तथा च श्रीधरपद्धती - होमश्च पिंड - दानं च तथा ब्राह्मणभोजनम् । श्राद्धशब्दाभिधानं स्यादेकस्मिन्नौपचारिकः । प्रयोगो दृश्यते लोके नियमस्तनये सतीति । प्रधानं प्रयोगे यदकरणेभ्यावृत्तिः । प्रधानस्याक्रिया यत्र सांगं तत्क्रियत पुन, रिति वचनात् । यदुक्तं प्रतिपदो दौहित्रकर्तृकश्राद्धविपयत्वमिति तत्र किं जीवत्पितृको दौहित्र आहोस्विन्मृतपितृक इति । उभयविधोऽपीति ब्रूमः । तथा च -- जातमात्रस्तु दौहित्रो विद्यमानेऽपि मातुले | कुर्यान्मातामहश्राद्धं प्रतिपद्याश्विने सिते । नन्वेवं तर्हि त्रिपिंडं पट्टिण्डं वेति । उच्यते । पित्रादित्रिके जीवति त्रिपिंडं मृते पपिंड मिति । तथा च कात्यायनः --- मातामहानां दातव्यं प्रतिपद्येव मुख्यकम् | त्रीणि हित्वा ( ? ) प्रयत्नेन श्राद्धं कुर्यात्सपिंडकम् । गौतमोऽपि मातृपक्षे मृतानां च देयं भतया तु मुख्यकम् । सर्वेषां पार्वणं कुर्याद्यथाशक्त्यानुपिंडद (१) । जातमात्रस्तु दौहित्रो विद्यमानेषु पार्वणम् । कुर्यान्मातामह श्राद्धं प्रतिपद्येव सर्वदेति । मृतपित्रादित्रिके तु गोभिलः - मातामहानां प्रतिपद्दौहित्रः स्वयमाचरेत् । तत्र पित्रे स्वयं देयं विशेपात्प्रीतिरिष्यते । प्रतिपत् प्रतिपच्छ्राद्धं पित्र इति मातामहाद्युपलक्षणम् । प्रत्यक्षं पितरं त्यक्त्वा ह्यन्यथा तु ददाति यः । स याति नरकं घोरं यापडूः सागरा नगा इति । मृते पित्रादिके पितृपंक्तिपरित्यागो न । प्रत्यवायजनकत्वात् । पंचमीपर्यतं श्राद्धकालत्वाच्च । तथा च यमः -- हंसे वर्षासु कन्यास्थे शाकेनापि गृहे वसन् । पंचम्योरंतरे दद्यादुभयोरपि पक्षयोः । एकादशी चतुर्दश्यादितिथिश्राद्धानि ( १ )क्षयाह श्राद्धानि तूत्तरत्र प्रपंचयिष्यते । इह त्वपरपक्षाधिकप्रपंचेनालम् । एवं पक्षश्राद्धमुक्त्वा पक्षांतरमाह - 'ऊ वा चतुर्थ्या: ' वाशब्द उत्तरोत्तरप्राशस्त्यं सूचयन्स्मृत्यंतरोक्तपक्षान् द्योतयति । ततश्च शक्ततमेन शक्ततरेण शक्तेन पूर्णिमां पंचमी - मष्टमीमारभ्य शेपदिनेषु यथाक्रमं शक्त्या श्राद्धं कर्तव्यमित्यर्थः । तथा च ब्रह्मपुराणे- अश्वयुकृष्णपक्षे तु श्राद्धं कार्य दिने दिने । त्रिभागहीनं पक्षं वा त्रिभागं त्वर्धमेव वा । विष्णुधर्मोत्तरेऽपि - उत्तरे त्वयाने श्राद्धे श्रेष्ठं स्याद्दक्षिणायनम् । चातुर्मास्यं च तत्रापि प्रसुप्ते केशवेऽधिकम् । प्रोष्ठपद्याः परः पक्षस्तत्रापि च विशेषतः । पंचम्यूर्ध्व ततश्चापि दशम्यूर्ध्वं ततोऽप्यतीति । ननु चोर्ध्वं वा चतुर्थ्यां इति पंचमी सूत्रोक्ता, पंचम्यूर्ध्वमिति च पष्ठी स्मृत्यंतरेणेति विरोध. । उच्यते । पंचमीप्रभृति श्राद्धं सूत्रयता मुनिना पूर्णिमामारभ्य त्रिभागहीनत्वं पक्षस्यांगीकृतम् । पष्ठीप्रभृति विदधता स्मृत्यंतरेण प्रतिपदमारभ्येत्यविरोधः । अत एव पूर्णिमामारभ्य श्राद्धमित्युक्तम् । एवं तर्हि त्रिभागपक्षे दशम्यूर्ध्वं ततोऽप्यतीत्येकादशीमारभ्य श्राद्धं विदधता वाक्येन ' कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ' इति दशमीप्रभृति श्राद्धविधायकं मनुवचनं विरुध्येत । मैवम् । पितुः शस्त्रहतत्वे दशमीप्रभृति त्रिभागत्वं पक्षस्येतरस्यैकाद्शीप्रभृतीत्यविरोधोपपत्तेः । अत एव ' प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम्' इति चतुर्दश्या
I
1
""