________________
कण्डका १ ]
परिशिष्टम् ।
४३३
1
नवानां नवकं वृद्धौ तथैवान्त्रष्टके विदुः । कुर्याद्वादशदैवत्यं प्रेततीर्थे गयासु च । तथा - उपलवे चन्द्रमसो रवेश्च वृद्धौ गयायां गमनागमेपु । अन्वष्टकायां च महोत्सवेषु श्राद्धक्रिया द्वादशदैवता स्यात् । वृद्धयाज्ञवल्क्योऽपि-गयायां च कुरुक्षेत्रे राहुग्रस्ते दिवाकरे । कुर्याद्वादशदैवत्यं पार्वणानां चतुष्टयमिति । ननु च दिनानि दशपञ्च चेत्यत्र तिथिपोडशकं प्रति विरोधः । तथा च शाट्यायनिः - नभस्यस्या परे पक्षे तिथिषोडशकं तु यत् । कन्यागतान्वितं चेत् स्यात्स कालः पितृकर्मसु । ब्रह्माण्डेऽपि - कन्यां गते सवितरि यान्यहानि तु षोडश । क्रतुभिस्तानि तुल्यानि तेषु दत्तमयाक्षयम् । कन्यां गत एकदेशेऽपि । तथा चकार्ष्णाजिनि:- आदौ मध्येऽवसाने वा यत्र कन्यां व्रजेद्रविः । स पक्षः सकलः पूज्यः श्राद्धोडशकं प्रतीति । उच्यते - द्वादशकपालेष्वष्टकपालवत् षोडशदिनेषु पञ्चदशदिनानुवाद इत्यविरोधः । श्राद्धषोडशके तु संदेहः । तत्रैके शुक्लप्रतिपदा सह तिथिपोडशकमाहुः । तथा च देवल:अहः पोडशकं यत्तु शुक्लप्रतिपदा सह । चन्द्रक्षयाविशेषेण साऽपि दर्शात्मिका स्मृता । इति । तदयुक्तं - शुक्लप्रतिपदो दौहित्र कर्तृकमातामह श्राद्धविषयत्वात् । तथा च - मातॄणां नवमी यद्वद्धतानां च चतुर्दशी । तद्वन्मातामहानां च शुक्लेऽथ प्रतिपन्मतेति । अन्ये त्वाहु:--- तिथिवृद्धिविपथं श्राद्धपोडशकमिति । तदपि न । तथा सति त्रुटिवृद्धयोः पञ्चदशसप्तदशश्राद्धसंभवात् पोड - शकविधिवाधापत्तेः । तथा च पठन्ति — तिथयः पञ्चदश स्युः प्रेतपक्षे तु पोडश । अनुमत्यादिकं कुर्यात्पितॄणां दत्तमक्षयम् । नातः पञ्चदशे कुर्यान्नातः सप्तदशे तथा । ऊने तु नरके यान्ति हाधिके स्वाद्धनक्षयः । इति । तस्मात्रुटिवृद्धथोरभावे षोडशश्राद्धविधिरिति चेत् । एतदपि नोपपद्यते । तथा सति श्राद्धपोडशकस्य कादाचित्कत्वेन नित्यत्वानुपपत्तेः । अतः प्रौष्ठपदीमारभ्य त्रुटौ प्रतिपदमभिव्याप्य, वृद्धौ वहिःकृत्य श्राद्धषोडशकं कर्तव्यमिति व्यवस्थापनं युक्तम् । एवं तर्हि प्रतिपदो दौहित्रविषयत्वमित्युक्तिर्विरुध्येत । मैवम् | त्रुटिविपयत्वात्तया पोडशपूरणोपपत्तेः । अथवा — एका तिथि - द्वयसंभवे श्राद्धद्वयकरणात्षोडशपूरणम् । ततश्च उभयथाऽपि प्रौष्ठपद्यामारम्भ इति सिद्धम् । तथा च सूतः - पूर्णिमाप्रभृति श्राद्धं तस्मात्कुर्याद्विचक्षणः । दिने दिने यज्ञफलं लभते श्राद्धतो नरः । ब्रह्माण्डपुराणेऽपि श्राद्धं च पूर्णिमायां च कृत्वा पूर्णफलं लभेत् । प्रतिपद्यर्थलाभाय द्वितीयार्थाय चापरे । पुराणसमुच्चयेऽपि । प्रशस्ताः पूर्णिमामुख्यास्तिथयः षोडशैव ताः । यथा तिलानां तैलं च तुल्यं वै श्वेत्तकृष्णयोः । पूर्णमास्याममायां च समं पुण्यफलं द्वयोः । पूर्णपक्षे नभस्यैव पूर्णिमैषा पितृप्रिया ॥ अस्यां दन्तं पितॄणां वै तृप्तिः सांवत्सरी भवेत् । सर्वान्कामानवाप्नोति अमायां च यथा यथा । पौर्णमास्यां तथा कुर्वन् श्राद्धं पितृपरायणः । पूर्वापरायोरन्ते यः श्राद्धं कुरुते नरः । नभस्यस्य द्विजश्रेष्ठाः पितरस्तेन पुत्रिणः । पौर्वाहिकी पौर्णमासी हामा चैवापराद्दिकीति । वृद्धयाज्ञवल्क्योऽपि — काम्यकं तिथिकर्तव्यं श्राद्धकर्म द्विजातिभिः । पूर्णिमाश्राद्धदानेन संपूर्ण फलमश्नुते कुर्वन्वै प्रतिपच्छ्राद्धं धनमानन्त्यमश्नुते । इत्यादिषोडशकम् । वायुपुराणेऽपि - पुष्टिं प्रजां स्मृति मेधामित्याद्युपक्रम्य पौर्णमास्याद्यमावास्यान्ततिथिपोडशकमुक्तमित्यलम् । ननु च - श्राद्धं पिण्डप्रदानं कर्मेति कथमुक्तम् - स्मृतिष्यनेकधा श्राद्धशब्दप्रयोगात् । तथा हि-श्राद्धभुगष्ट वर्जयेत्, श्राद्धभुक् प्रातरुत्थाय, अपि स्यात्स कुले जन्तुर्भोजयेद्यस्तु योगिन इत्यादिना भोजने । श्रद्धा अस्ति यत्र तच्छ्राद्धं प्रज्ञाश्रद्धाचभ्यो णः श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते, इति, पाणिनियमादिवचनाच्छ्रद्वायोगे । श्रीस्त्रीन्पिण्डानवनेज्य दद्यात् नंदायां भार्गवदिने त्रयोदश्यां त्रिजन्मनि । तेषु श्रद्धं न कुरुतेत्यादिवचनात्पिंडदाने । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोत्राचेत्यादिना कर्मणि । एवं विप्रतिपत्तौ ह्येक आहु:-- पिंडदानस्य प्राधान्यात्तद्दाने शंतनोर्हस्तोत्थानाच गयादौ पिंडदान श्राद्धम् । ब्राह्मणपरीक्षाप्रयत्नाद पांक्तेयभोजने दोपश्रवणापिंडराहित्येऽपि श्राद्धसंभवाच
६५