________________
४३२ पारस्करगृह्यसूत्रम्।
[श्राद्धसूत्रनिर्वापवर्जितम् । मघायुगादौ भरण्यां संक्रान्तौ रविवासरे। पिण्डदानं न कुर्वीत यदीच्छेज्जीवितान् सुतान् । मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति । कनीयांस्तु त्रयोदश्यां क्षयादभ्युदयादृते । मघायुगादौ भरण्यां श्राद्धं कुर्यादतन्द्रितः । पिण्डदानं न कुर्वीत तच्च स्यात्क्षयवासरे । वैशाखस्य तृतीयायां नवभ्यां कार्तिकस्य च । श्राद्धं संक्रान्तिवत्कुर्यात् पिण्डनिर्वपणं विना । युगादौ पितृनक्षत्रे तथा मन्वन्तरादिषु । अर्धपिण्डं न कुर्वीत वैष्णवं श्राद्वमाचरेदित्यादीनि । सत्यम् । एतानि वचनानि तिथिवारनक्षत्रसंक्रान्तियुगादिनिमित्तक्रियमाणेषु काम्यश्राद्धेषु पिण्डदानं निषेधन्ति न पुनः पक्षश्राद्धतिथ्याश्रयादिनिमित्तश्राद्धेष्वित्यविरोधः । अन्यथा वारे पाते च संक्रान्तावित्यादिभिर्विरोधात् । अथ पार्वणेनैव विधिनेत्युक्तं तत्रैकपार्वणं वा किं वा द्विपार्वणमुत चतुःपार्वणं वेति । [पक्षश्राद्धे तु पार्वणैकोद्दिष्टयोरप्राप्तत्वात् । सर्वत्रापि पार्वणधर्मत्वास्त्रयाणां विहितत्वाचेति ।?] तथा टेकपार्वणे मत्स्यपुराणम्-ततः प्रभृति संक्रान्तावुपरागादिकर्मसु । त्रिपिण्डमाचरेच्छ्राद्धमेकोद्दिष्टं मृतेऽहनि । प्रजापतिरपि-संक्रान्तायुपरागे च वर्षोंत्सवमहालये । निर्वपेदिति पिण्डांस्त्रीनिति प्राह प्रजापतिरिति । द्विपार्वणे तु कात्यायनः-कसमन्वितं मुक्त्वा तथाचं श्राद्धषोडशम् । प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडिति स्थितिः । इति । चतुःपार्वणे तु कात्यायन:-कुर्याद्वादशदैवत्यं प्रेतपक्षे तु सर्वदा । तथा तीर्थे गयायां च एष धर्मः सनातनः । आदौ पिता ततो माता ततो मातामहस्तथा । मातामधस्ततो दद्यात्प्रेतपक्षे तु सर्वदा । सुमन्तुः-पितृभ्यः प्रथमं दद्यान्मातृभ्यस्तदनन्तरम् । ततो मातामहेभ्यश्च तत्पत्नीभ्यस्तथैव च। गयायां च तथा तीयें प्रेतपक्षे विशेषतः । कुर्याद्वादशदेवत्यमेकोद्दिष्टमतः परम् । एवं वचनविप्रतिपत्ती व्यवस्थोच्यते । तत्रैकपार्वणचतुःपार्वणयोर्यथाक्रम क्षयाहनवमीविषयत्वेन पारिशेष्याद्विपार्वणमेव पक्षश्राद्धेष्ववतिष्ठते । तथा च वृद्धयाज्ञवल्क्यः-पिता पितामहश्चैव तथैव प्रतितामहः । समीहन्ते सुताः सर्वे मातृपक्षे विशेषतः । भुञ्जन्ति विप्रकायेषु पितरोऽन्तहिताः सदा । तस्माद्विप्रान् पितॄन् विद्यापितृवत्तान् प्रपूजयेत् । द्विपार्वणं प्रकर्तव्यं विना श्राद्धं क्षयाहनि। पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् । अविशेषेण कर्तव्यं विशेषान्नरकं ब्रजेदिति ऋष्यशङ्गवचनाच । व्यासोऽपि-पितृन्मातामहांश्चैव द्विजः श्राद्धेन तर्पयेदिति। पुलस्त्यः-मातु:पितरमारभ्य त्रयो मातामहाः स्मृताः । तेषां तु पितृवच्छ्राद्धं कुर्युर्दुहितृसूनवः। इति स्कन्दपुराणे-पार्वणं कुरुते यस्तु केवलं पितृहेतुतः।मातामह्यं न कुरुते पितृहा सोऽपजायते । इति सूत्रकारोऽपि । त्रीस्त्रीपिण्डानिति । एकचतुःपार्वणे तु क्षयाहनवमीविपये । तथा च पाराशरःपितुर्गतस्य देवत्वमौरसस्य त्रिपौरुषम् । सर्वत्रानेकगोत्राणामेकस्य च मृतेऽहनि । नवम्यां तु वृद्धयाज्ञ. वल्क्यःयायां पुष्करे चैव तथैवान्वष्टकासु च । पितृमुख्येन कर्तव्यं पार्वणानां चतुष्टयमिति । एवं वहि-अन्वष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतम् । पित्रादि मातृमध्यं तु ततो मातामहान्तिकम् । इत्यादिवचनविहितं नवदैवत्यं विरुध्येत । मैवम्-अन्वष्टकास्विति वहुत्वयुक्तस्य त्रित्वे पर्यवसितत्वात्साग्निकर्तृकं नवदैवत्यमन्वष्टकात्रयविषयं भवितुमर्हति नापरपक्षनवमीविषयम् । अतो द्वादशदेवत्यमपरपक्षनवमीविषयमिति सिद्धम् । अन्यथा नवदैवत्यै मा णां पृथक्त्वेन मातामह्यादीनामपृथक्त्वेनार्धजरतीयापत्तेः । तथा च पुराणसमुच्चये-सर्वासामेवमातृणां श्राद्धं कन्यागते रवौ । नवम्यां च प्रदातव्यं ब्रह्मलब्धवरा यतः । पितृमातृकुले नार्यो याः काश्चित्प्रमृता स्त्रियः । श्राद्धार्हा मातरो ज्ञेयास्तासां श्राद्धं प्रदापयेत् । वृद्धौ तु मातृपूर्व वै श्राद्धं कुर्वीत बुद्धिमान् । अन्वष्टकासु सर्वासु पितृपूर्व समाचरेत् । तमिस्रपक्षे नवमी या पुण्या तु नभस्यके । चत्वारः पार्वणाः कार्याः पितृपूर्वा मनीपिभिः । पितॄणां तु त्रयः पिंडा मातृपूर्वास्तथा त्रयः । मातामहानामप्येवं त्रयो मातामहीषु च । एवं कुर्वन् ततः श्राद्धं मातृणां च न दोपभाक् । भवत्येव नरो विप्रा इति ब्रह्मानुशासनमिति । कात्यायनोऽपि