________________
कण्डिका १] परिशिष्टम् ।
४३१ क्तम् । तथा चोक्तं-कन्यां गते सवितरि दिनानि दश पञ्च च । पावणेनैव विधिना तत्र श्राद्धं विधीयते । इति । एवं तर्हि पार्वणत्वे चतुर्दश्यादौ पार्वणादिनिपेधस्य कथं गतिरिति चेन् मैवं भापिष्ठाः । तस्य पक्षश्राद्धव्यतिरिक्तश्राद्धेपु त्रिभागादिपक्षविभागेषु चतुर्दश्यां पार्वणादिनिषेधस्य पर्यवसितत्वात् । तथा च मनु:-कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतराः । पक्षश्राद्धे तु कृष्णाजिनिः । नभस्यापरपक्षे च श्राद्धं कार्य दिने दिने । नैव नन्दादि वज्यै स्यान्नैव वा चतुर्दशी इति । यच्चातर्कि चातुर्वर्ण्यापेक्षया कुरिन्नित्युचितमिति । तदप्यसुन्दरम् । तथा सत्यधिकृतानधिकृतानामधिकारः प्राप्नुयात्तन्माभूदिति कुर्वीतेत्यधिकारिविशेषणेनैकत्वमुक्तम् । ततश्च सर्वापरपक्षेषु हेमन्तग्रीष्मवर्षापरपक्षास्तेपु कन्याकुम्भवृषस्थेऽके त्रयस्तत्रापि भाद्रपदापरपक्षः पुण्यतमः कालस्तत्र पार्वणं श्राद्धमधिकारी कुर्यादिति सिद्धम् । एवं च सति कालान्तरानुपदेशादमावस्यादीनां श्राद्धकालवं नाभिमतमिति चेत् मैवम् । अपरपक्षशब्दस्योपलक्षणार्थत्वेन तत्संग्रहोपपत्तेः । नन्वेवमपि कृष्णपक्ष इति वाच्ये परपक्ष इति गौरवं किमर्थमिति । आह-पित्र्यकर्मणि प्रतिज्ञादौ चान्द्रमासोचारणज्ञापनार्थमित्यदोषः । तथा चोक्तम्-आन्दिके पितृकृत्ये च मासश्चान्द्रः प्रशस्यते । तथा-सौरमासो विवाहादौ यज्ञादौ सावनः स्मृतः । पार्वणे चाष्टकाश्राद्धे चान्द्रो मासो महालये । इति । बृहस्पतिरपि-वेरभ्युदये मानं चन्द्रस्य पितृकर्मणि । तथासदैव पितृकृत्यादौ मासश्चान्द्रमसः स्मृतः । अपि च-विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः । शेषकर्मसु चान्द्रः स्यादेष मासविधिः स्मृतः इति । अत्रैतञ्चिन्त्यते-किं पक्षश्राद्धं नित्यं काम्यं वेति । तत्रैक आहुः काम्यमिति । तन्न । नानन्ति पितरश्चेति कृत्वा मनसि यो नरः । पक्षश्राद्धं न कुरुते तस्य रक्तं पिबन्ति ते । इत्यकरणे प्रत्यवायजनकत्वश्रवणात् । नित्यमित्यन्ये शाकेनापि नापरपक्षमतिकामेदिति सूत्रितत्वात् । तदपि न । पितृगाथाः सदैवात्र गीयन्ते ब्रह्मवादिभिः । कदा नः संततावश्यः स कश्चिनविता सुतः । पितृपक्षे सदा श्राद्धं पूर्णपक्षे प्रदास्यति । तं प्रतीक्षामहे सर्वे सुवृष्टिमिव कर्षकाः । काम्यदायी भवेत्कश्चित्कुलेऽस्मच्छ्राद्धदो नरः । इत्यादिवचनैः काम्यत्वस्य प्रतीयमानत्वात् । तस्मादुभयरूपमिति युक्तम् । तत्र नित्यकाम्ययोः संकरे काम्यस्य वलत्रत्त्वान्नित्यं प्रसङ्गासिद्धयतीति न्यायाच काम्यानुष्ठानेनैव नित्यस्यापि सिद्धिः । तथा च संग्रहकारःकाम्यतन्त्रेण नित्यस्य तन्त्रं श्राद्धस्य सिद्ध्यतीति । एवं च सति काम्ये सर्वाङ्गोपसंहारनियमादरणीमघायुगादिरविवारादिनिषिद्धकालेऽपि पिण्डदानं महालये भवतीति । तथा च पद्मपुराणम्वारे पाते च संक्रान्तौ युगादौ च महालये । तर्पणे पिण्डदाने च, तीर्थे दोषो न विद्यते । तर्पणे तिलानाम् । ब्रह्माण्डेऽपि-अक्षयोगादिविद्वेऽपि तदिने पिण्डपातनम् । प्रचेता अपि-आभ्युदयिके संप्राप्ते मघा वापि त्रयोदशी । क्षयाहे वाऽपि संप्राप्ते पिण्डनिर्वपणं स्मृतम् । वृद्धमनुरपि-महालये चतुर्दश्यां मघायां पुत्रवानपि । पिण्डनिवपणं कुर्यात् यस्य शस्त्रहतः पिता । कृष्णपक्षे चतुर्दश्यां मघायुक्तं दिनं यदि । पिण्डनिर्वपणं कुर्यात्तृप्त्यर्थं शस्त्रघातिनः । अपि च, तीर्थे सांवत्सरे श्राद्धे पितृयज्ञे महालये । पिण्डदानं प्रकुर्वीत युगादिभरणीमधे । तथा महालये क्षयाहे च दर्शे पुत्रस्य जन्मनि । तीर्थेषु निर्वत्पिण्डान् रविवारादिकेष्वपि । इति । एवं तर्हि भरणीमघायुगादिरविवारादिपु पिण्डनिषेधकानि वचनान्यनर्थकानि स्युरिति । अयने विपुवे चैव मघायमयुगादिषु । श्राद्धं कुर्वीत यत्नेन पिण्डनिर्वपणं विना । मघायुगादौ भरण्यां यत्नेन परिवर्जयेत् । पिण्डदानं न कुर्वीत यदीच्छेत्सुतजीवितम् । याम्यं वा पैतृकं वाऽपि पितृपक्षे विशेषतः । तत्र संकल्पनं कुर्यात्पितॄणां पुष्टिदः सदा । मन्वादिश्च युगादिश्च मघा च भरणी तथा । श्राद्धं तत्र प्रकुर्वीत पिण्डनिर्वपणं विना । तथा गधाभरण्योश्च त्रयोदश्यां विशेषतः । प्रौप्ठपदस्य द्वादश्यां मघर्भ निपतेद्यदि । तत्र संकल्पनश्राद्धं पिण्ड