________________
४३० पारस्करगृह्यसूत्रम्।
[श्राद्धसूत्रएवं कन्यादानाभ्युदयिके दानम् । तीर्थयात्राऽऽरम्भसमात्योरप्यध्वानमेव तेषाम्परतन्त्रत्वात् , एवं च सर्वत्र स्वयमूहनीयम् । 'आवाहनादि वाग्यत ओपस्पर्शनात् ' आवाहनादि आवाहनादारभ्य आ उपस्पर्शनाद्भोक्तुराचमनपर्यन्तं यजमानो वाग्यतो भवेत् , वाग्यमनलोपे वैष्णवमन्त्रजपो विष्णुस्मरणं वा प्रायश्चित्तम् । तथा च याज्ञवल्क्यः । यदि वाग्यमलोपः स्याजपादिपु कथञ्चन | व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम् । अज्ञानाद्यदि वा मोहात्मच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्ण स्यादिति श्रुतिः । तथा च शतपथश्रुतिः । अथ यद्वाचंयमो व्याहरति तस्माद्देष विसृष्टो यज्ञः पराडावर्तते तत्र वैष्णवीमृचं वा यजुर्वा जपेदित्यादि । 'आमन्त्रिताश्चैवम् ' आमन्त्रिता ये ब्राह्मणास्तेऽपि एवमेवानुष्टानं कुर्युरित्यर्थः ॥ १ ॥
आद्धसूत्रव्याख्या श्राहकाशिका
___ नमो गोपीजनजीवनाथ । यस्य प्रसादपयसा 'कुरु(?)पात्रं कात्यायनं मुनिवरं शिरसाभिवन्दे । सिक्ताः फलन्ति यजुषामिह याजकानां स्वर्णोद्भवानि विविधानि फलान्यजस्रम् ॥१॥
कर्को व्याख्यदिदं गभीरवचनैः सूत्रं यतोऽस्मादभू
हुर्बोधं च ततो हलायुध इति व्याख्यत्तथाऽप्यस्फुटम् । भूयोऽपि प्रतिषेधकारिवचनैः स्मातैर्मया काशिका
सूत्रस्योपरि संशयौघतिमिरध्वंसाय संतन्यते ॥२॥ सूत्रार्थव्यञ्जनाद्वाक्यैविशेषोक्तिप्रकाशनात् । अस्यान्वर्थमिदं नाम ग्रन्थस्य श्राद्धकाशिका ॥३॥ नित्यानन्द इतीह याज्ञिकवरो जातस्तदीयः सुतः
स्मार्ताग्नौ विहितक्रियोऽतिसुखइत्याख्यो जगत्यद्भुतः । तत्पुत्रोऽप्यभवत्स्मृतिज्ञचतुरः शास्त्रेष्वधीती श्रुतौ
विष्णुमित्र इमं निबन्धमकरोत्कृष्णः कृती तत्सुतः ॥ ४ ॥ तत्र पूर्वी पौर्णमासीमुपवसेदित्यादिना श्रौतकर्माण्युपदिश्याथातो गृहस्थालीपाकानामित्यादिना स्मार्तान्यपि व्याख्यायावशिष्टं श्राद्धकर्म वक्तव्यमिति सूत्रमारभते । 'अपरपक्षे श्राद्धं कुर्वीत ' अपरपक्षः कृष्णपक्षः । चांद्रमासे शुक्लकृष्णपक्षयोः पूर्वापरत्वसंभवात् । श्राद्धमिति पिण्डप्रदानकर्म । कुर्वीतेति विधायकं पदम् । ननु च त्रिपदमिदं सूत्रम् । तत्र पत्रयेऽप्येकत्वमनुपपन्नम् । तथा हि-प्रौष्ठपद्या अपरपक्षे मासि मासि चैवमिति शौनकः । अनेन विधिना श्राद्धं त्रिरब्दस्येह निर्वपेत् । हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञियमन्वमिति मनुः । ' अनेन विधिना श्राद्धं त्रिरदद. स्येह निर्वपेत् । कन्याकुम्भवृषस्थेऽर्के कृष्णपक्षेषु सर्वदा ' इति मत्स्यपुराणम् । एषु वचनेषु सर्वापरपक्षेषु कर्तव्यतोपदेशादपरपक्षेष्विति वक्तुमुचितम् । ' तथाऽश्वयुकृष्णपक्षेपु श्राद्धं कार्य दिने दिने' इति वचनात्प्रतिदिनकर्तव्यतया श्राद्धानीति वक्तुमुचितत्वात् । तथा ब्राह्मणादिचातुर्वर्ण्यापेक्षया कुरिन्निति कर्तुमुचितत्वाञ्चेति । अतश्चापरपक्षेषु श्राद्धानि कुरिन्निति सूत्र प्रणेतव्यम् । अत्रोच्यते--अपरपक्षेध्विति बहुत्वमुचितमिति यदाशंकि तन्न । तथा सति सर्वसामान्येनास्यापरपक्षस्य वैशिष्ट्यानुपपत्तेः । तथा च पुराणसमुच्चये-पण्णां वै शुक्लपक्षाणां पद पक्षा ये परे स्मृताः । तेपां पुण्यतमः पक्ष आषाढ्याः पञ्चमस्तु यः । इत्यादि । यच्चातर्कि श्राद्धानीति वक्तुमुचितमिति तदप्यपेशलम् । तथा सत्येकोहिष्टपार्वणनित्यश्राद्धादीनि प्राप्नुयुस्तन्मा भूदिति पार्वणरूपत्वेनैकत्वमु