________________
कण्डिका १] परिशिष्टम् ।
४२९ सुसमृद्धोऽपि न प्रसज्येत विस्तरम्।।सक्रियां देशकालौ च शौचं ब्राह्मणसम्पदः । पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ।। ब्राह्मेऽपि-यस्माद्राह्मणबाहुल्याहोपो बहुतरो भवेत् । श्राद्धनाशो मौननाशः श्राद्धतन्त्रस्य विस्मृतिः-उच्छिष्टोच्छिष्टसंसर्गो निन्दा दातृषु भोक्तपु, इति। देशकालधनाभावे पक्षान्तरमाह 'एकैकमुभयन वा शेषान्वित्तानुसारेण भोजयेदन्यवेश्मनीति' स्मृतिः । अयुग्मानपसव्येन पितृपूर्व निमन्त्रयेत्। पित्रादेः सप्त पञ्चत्रीनेकैकस्यैकमेव वा।देवेपट् चतुरो द्वौ वाऽप्येकैकमुभयत्रवेति। 'मातामहानामप्येवम् मातामहानामप्येवं सर्वे पक्षा भवेयुरित्यर्थः । तत्र केचिदिदमुपदेशं मन्यमाना पृथक्कृत्य मातामहश्राद्धमिच्छन्ति । यदा मातामहेभ्यो ददाति तदैवमिति, तदेतदुपेक्षणीयम् । अपरेतु, पार्वणं कुरुते यस्तु केवलम्पितृहेतुतः । मातामहं न कुरुते पितृहा सोऽपि जायते, इति स्कन्दपुराणवचनात् पितृणामिव मातामहानामपि तस्मिन्नेव प्रयोगे दानमिच्छन्ति, तच्चातीव युक्ततरम् । तथा च पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवमिति । 'तन्त्रं वा वैश्वदेविकम् । विश्वेदेवास्तन्त्रेण वा य एव पितृभ्यो मातामहेभ्योऽपि त एव, सचायमन्यः पक्षः । तथाऽन्यदपि ब्राह्मणाभावे, एक एव यदा विप्रो द्वितीयो नोपपद्यते । पितृणां ब्राह्मणो योज्यो दैवे त्वग्निनियोजयेत् । प्रणीतापात्रमुद्धत्य ततः श्राद्धं समारभेदिति । तथा हि । यद्येकम्मोजयेच्छ्राद्धे देवन्तत्र कथम्भवेत् । अन्नम्पाने समुद्धृत्य सर्वस्य प्रकृतस्य च । देवतायतने स्थाप्यं ततः श्राद्धम्प्रकल्पयेत् । प्रास्येदग्नौ तदन्नं तु दद्याद्वा ब्रह्म चारिणे, इति । 'श्रद्धान्वितः श्राद्धं कुर्वीत' नात्र श्रद्धा निमित्तत्वेनोच्यते । यच्छ्राद्धं कुर्वीत स्वकाले तच्छ्रद्धयेत्यर्थः । 'शाकेनापि नापरपक्षमतिकामेत् । यद्यन्नं न लभेत तदा शाकेनाप्यपरपक्षे श्राद्धं कुर्यात् । तथा च ब्रह्मपुराणे । पयोमूलफलैः शाकैः कृष्णपक्षे तु सर्वदा । पराधीन: प्रवासी च निर्द्धनो वापि मानवः । मनसा भावशुद्धेन श्राद्धे दद्यात्तिलोदकमिति । अनेनावश्यं कर्तव्यताऽभिहिता । तत्र हेतुमाह । 'मासि मासि वोशनमिति श्रतः । अथ धर्मानाह । 'तदहः शुचिरक्रोधनोऽत्वरितोऽप्रमत्तस्सत्यवादी स्यादध्वमैथुनश्रमखाध्यायान्वर्जयेत् । तदहस्तस्मिन्नहनि श्राद्धदिने एते नियमाः, शुचिर्वाह्याभ्यन्तररक्तवसनरक्तस्रावाद्यशुद्धिरहितः । अथ वा शुक्लवासाः शुचिः, काषायादेः प्रतिषिद्धत्वात् । तथा च हारीतः । शुचयः शुचिवाससः स्युरिति । अप्रमत्त इति स्मृत्युक्तकालादिषु सावधानः । स्वाध्यायः श्राद्धमन्त्रजपादिव्यतिरिक्तवेदपाठः । मैथुनम्पूर्वदिनेऽपि । सुगममन्यत् । अन्येऽपि दातृभोक्त्रोनियमाः स्मृत्युक्ता ग्राह्याः । यमः । पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । सन्ध्यां प्रतिग्रहं होमं श्राद्धभोक्ताऽष्ट वर्जयेत् । मत्स्यपुराणे । पुनर्भोजनमध्वानम्पानमायासमैथुनम् । श्राद्धकृच्छ्राद्धभुक् चैव सर्वमेतद्विवर्जयेत् । स्वाध्यायं कलहश्चैव दिवास्वापन्तथैव च । पानं सुरापानम् , तच्च यस्य प्राप्तन्तस्यैव निषेधः । दन्तधावनताम्बूलं स्निग्धस्नानममोजनम् । रत्यौषधपरान्नञ्च श्राद्धकृत्सप्त वर्जयेदिति । दन्तानां धावने प्रायश्चित्तञ्चोक्तं विष्णुरहस्ये । आद्धोपवासदिवसे खादित्वा दन्तधावनम् । गायत्रीशतसम्पूतमम्बु प्राश्य विशुष्यतीति । अध्यादिगमने दोषमाह यमः । आमन्त्रितस्तु यः श्राद्धे अध्वानम्प्रतिपद्यते । भ्रमन्ति पितरस्तस्य तं मासं पांसुभोजिनः । याज्ञवल्क्यः । अध्वनीनो भवेदश्वः पुनर्भोजी तु वायसः । होमकृन्नेत्ररोगी स्यात्पाठादायुः प्रहीयते । दाननिष्फलतामेति प्रतिग्राही दरिद्रताम् । कर्मकृज्जायते दासो मैथुनी शूकरो भवेदिति । मैथुनञ्चाष्टविधम् । दक्षः । स्मरणं कीर्तनं केलिः प्रेक्षणमुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव चेति । शातातपः । श्राद्धं कृत्वा परश्राद्धे भुञ्जते ये तु मोहिताः । पतन्ति पितरस्तेषां लुमपिण्डोदकक्रियाः । अन्ये च नियमास्तत्र तत्र वक्ष्यन्ते, ते च श्राद्धप्राधान्ये गौणत्वे च न्यायबाधिताः कापि केऽपि न भवन्ति । यथा, तीर्यश्राद्धेऽध्वा उपवासश्च न दोषाय । गर्माधाननिमित्ते श्राद्धे मैथुनम् । अग्निहोत्रनिमित्ते श्राद्धे होमः । स्वद्वितीयविवाहश्राद्धे प्रतिग्रहः ।