________________
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
हीनाङ्गोऽधिकाङ्गय्व हीनातिरिक्ताङ्ग इति स्मृतेः ॥ श्वित्री श्वेतकुष्टी, कुष्ठी कुष्ठगलिताङ्गः, कुनखी कुत्सितनखः, एतान्वर्जयित्वा निमन्त्रयेत् ॥ नन्वेतावतैवान्येषां वर्जनं भविष्यति यदेते उपवेष्टव्या इत्युक्तम्, किमत्र द्विर्ननादीनान्निषेधः कृतोऽनधिकारार्थत्वात् । उच्यते । सत्यं भवत्येवार्थान्निपेधो, यदा विहिता उक्ताः स्युस्तदा तद्व्यतिरिक्तानामर्थान्निषेधः किन्तु विहिताना ब्राह्मणानामप्राप्तौ निषिद्धातिरिक्तान्तरालिकब्राह्मणप्रात्यर्थद्विर्नग्नादिवर्जनम् । अन्यथा विहितब्राह्मणालाभे तदतिरिक्तसमस्तवर्जनं, तदा श्राद्धकर्मलोपः स्यात्, तस्मात्साधूकं द्विर्नप्रादिवर्जमिति, शास्त्रान्तरगृहीतानप्युपवेशयेत् || 'अनिन्द्येनामन्त्रितो नापक्रामेत् ' अनिन्द्यो लोकापवादरहितः तेन श्राद्धार्थन्निमन्त्रितो विप्रो न व्यतिक्रमं कुर्यात्, तथा चाग्निष्टोमप्रकरणेऽध्वरकाण्डे श्रुतिः सहोवाचानिन्द्या वै मावृषत सोऽन्यैर्वृतो नाशकमपक्रमितुमिति तस्मादुहानिन्द्यस्य वृतो नापक्रामेदिति ॥ मनुरतिक्रमे दोषमाह — केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः । कथञ्चिदप्यतिक्रामन् पापः सूकरतां व्रजेत् ॥ न केवलं ब्राह्मणस्य व्यतिक्रमे दोषो यजमानस्यापि ब्राह्मणव्यतिक्रमे दोषः स्यात् ॥ तथा हि यमः ॥ आमन्त्र्य ब्राह्मणं यस्तु यथान्यायन्न पूजयेत् । अतिकृच्छ्रासु घोरासु तिर्यग्योनिषु जायत इति ॥ आमन्त्रितो वाऽन्यदन्नं न प्रतिगृह्णीयात् ॥ निमन्त्रितो विप्रो ऽन्यदन्नं श्राद्धादिरूपमामान्नं सिद्धं वा न प्रतिगृह्णीयात् भोजनान्तरं वा न कुर्यात् ॥ यथाह देवलः ॥ पूर्वन्निमन्त्रितोऽन्यस्य यदि कुर्या - प्रतिग्रहम् । भुक्ताहारोऽपि वा भुङ्क्ते सुकृतं तस्य नश्यति || अन्येनामन्त्रितस्यान्य श्राद्धग्रहणे दोषमाह मार्कण्डेयपुराणे व्यासः -- भुङ्क्ते श्राद्धन्तु योऽन्यस्य नरोऽन्येन निमन्त्रितः । देवे वाऽप्यथ वा पित्र्ये स तु निष्कृष्यते खगैः ॥ यमोऽपि । आमन्त्रितश्च यो विप्रो भोक्तमन्यत्र गच्छति । नरकाणां शतङ्गत्वा चाण्डालेष्वभिजायत इति ॥ अथोपवेशनमाह । ' स्नाताञ्छुचीनाचान्तान्प्राङ्मुखानुपवेश्य दैवे युग्मानयुग्मान्यथाशक्ति पित्र्ये ' उपवेशयेदिति वाक्यशेषः । कीदृशानुपवेशयेत् स्नातान् कृतालवान् पुनः कीदृशान् शुचीन् सूतकादिरहितान् पुनः कीदृशान् आचान्तान् यथाशास्त्रमाचान्तान, न यथाकथञ्चित् एवम्भूतान्, दैवे वैश्वदेवार्थ युग्मानिति वहुवचनाच्चतुःषडादीन् प्रागग्रेषु कुशेषु प्राङ्मुखानुपवेश्य यथाशक्त्ययुग्मान् त्रिपञ्चादीन् पित्रर्थमुपवेशयेत् द्विगुणमुदगश्रेषु कुशेपु, अयुग्मत्वञ्च नवभ्योऽर्वाग्वेदितव्यम् । तथा च गौतमः ॥ नवावरान्भोजयेदयुजो यथोत्साहञ्चेति । ब्रह्माण्डपुराणेऽपि । सामर्थ्येऽपि नवभ्योऽर्वाग्भोजयीत सति द्विजान् । नोर्द्ध कर्त्तव्यमित्याहुः केचि - दोषस्य दर्शनादिति । अत्र स्नानग्रहणङ्गौणस्नाननिषेधार्थम्, अथवा स्मृतिप्राप्तमेवानुवदति, अथवा विशिष्टविधिः । तथा च वायुपुराणे । सुरभीणि तु स्नानानि गन्धवन्ति तथैव हि । श्राद्धेतान यो दद्यादश्वमेधफलं लभेदिति ॥ देवलोऽपि । ततो निवृत्ते मध्याह्ने कृत्तलोमनखान् द्विजान् । अभिगम्य यथापूर्वग्प्रयच्छेद्दन्तधावनम् ॥ तैलमुद्वर्त्तनं स्नानं स्नानीयश्च पृथग्विधम् । पात्रैरौदुम्बरैर्दद्याद्वैश्वदेवस्य पूर्वकमिति ॥ आचमने विशेषो विष्णुपुराणे ॥ उपस्पर्शस्तु कर्तव्यो मण्डलस्योत्तरे दिशि । कर्त्राऽथ वा द्विजैर्वापि विधिवद्वाग्यतैः सदा ॥ मण्डलस्योत्तरे भागे कुर्यादाचमनन्द्विजः । सोमपानफलं प्राहुर्गगकाश्यपगौतमाइति ॥ तथा चापस्तम्बे ॥ कुर्युराचमनं विप्रा उदीच्यां मण्डला
: । अन्यदिक्षु यदा कुर्यान्निराशाः पितरो गता इति ॥ अविशेषे प्राप्ते विशेपमाह 'एकैकस्योदङ्मुखान् ' एकैकस्य पित्रादित्रयस्य यथाशक्ति प्रतिपुरुषमुदङ्मुखानयुग्मानुपवेशयेत् ॥ पक्षान्तरमाह 'द्वौ वा दैवे त्रीन् पित्र्ये ' द्वौ वा देवे देवेभ्यो द्वौ वा । पित्र्ये, अत्र वास्तु पित्रुपसो यदि • त्यनेन कर्मार्थे यत्प्रत्ययः । रीत इति रीडादेश. । यस्येति चेति ईकारलोपः ॥ पितरो देवता अस्येति पित्र्यं तस्मिन्पित्र्ये कर्मणि त्रीन् पितुरेकम्पितामहस्यैकम्प्रपितामहस्य चैकम् ॥ याज्ञवल्क्यः । द्वौ दैवे प्राक्त्रयः पित्र्य उद्गेकैकमेव वेति । मनुर्विशेषमाह । द्वौ दैवे पितृकृत्ये श्रीने केकमुभयत्र वा । भोजये
४२८