Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 459
________________ कण्डिका २] श्राद्धसूत्रम्। पात्राणामन्यतमेषु' । मणिमयानि शङ्खशुक्त्यादीनि। एषां मध्ये येषु केषुचिदित्यर्थः । तथा च ब्रह्मपुराणे, सौवर्णरौप्यताम्राणां स्फटिकं शङ्खशुक्तयः । भिन्नान्यपि नियोज्यानि पात्राणि पितृकर्मणि । हारीतोऽपिकाञ्चनेन तु पात्रेण रजतौदुम्बरेण वा । दत्तमक्षयतां याति खड्वेनार्यकृतेन तु । आर्याजैवर्णिकाः । प्रमाणं चाह बृहस्पतिः---अष्टाङ्गुलं भवेत्पात्रं पितृणां राजतं शुभम् । दशाङ्गुलं तु देवानां सौवर्ण ताम्रमेव चेति । औदुम्बरं ताम्रमयं संनिधानसामर्थ्यात् । तदुक्तम्-प्रसिद्धार्थस्य सांनिध्ये योऽसिद्धार्थ उच्यते । यत्संनिधानसामर्थ्यात्तज्जातं योऽनुगम्यते(१) । इति वार्षीयस्य तु यज्ञियत्वेनैव सिद्धत्वात् । अत्र सुवर्णादिभ्यो विकारार्थेऽमयटौ । राजतं तु पित्र्य एव । तथा च वायुपुराणम्तथाऽपिण्डभोज्येषु पितॄणां रजतं मतम् । अमङ्गल्यं तु यत्नेन देवकार्येषु वर्जयेत् । तथा-शिवनेत्रोद्भवं यस्मादतस्तपितृवल्लभम् । अमङ्गल्यं तु यत्नेन देवकार्येषु वर्जितमिति । 'यानि वा विद्यन्ते । वाशब्दः सौवर्णाद्यभावविकल्पे । सौवर्णादिविहिताभावे विहितप्रतिषिद्धानि कांस्याश्ममृन्मयादीनीत्यर्थः । तेपां यानि वा विद्यन्ते इति सानुशयमभ्यनुज्ञानात् । विहितप्रतिषिद्धत्वं च तेषां स्मृतिषु विस्पष्टमुक्तम् । तथा हि ब्रह्मपुराणे-कांस्यभाण्डानि वाणि पितृदेवतकर्माण । इति पैठी नसिः । लोहसीसकांस्यपाषाणहीनपात्राणि भग्नपात्राणि वजेयेदिति । तथा कांस्यरजतपर्णताम्रपात्राणि भोजनार्थमर्धार्थ चोपकल्प्याणि । बैजवापोऽपि-अश्ममन्मयानि स्युरपि पर्णपुटास्तथेति । यानि वा विद्यन्त इति प्रतिपिद्धतराणीति वा । एवं विहितप्रतिषिद्धानि पूर्वपक्षयित्वा सिद्धान्तमाह-पत्रपुटेषु वा वाशब्दः पूर्वसूत्रोक्तविहितप्रतिषिद्धनिषेधार्थः । तथा च वृद्धयाज्ञवल्क्य:----मृदुश्मनी तथा कांस्यमारकूटादिसंभवम् । त्रपुसीसकलोहानामर्षपात्रं विवर्जयेदिति । धर्मप्रदीपेऽपि मृत्पात्रगतमधैं च मृत्तिकागन्धलेपनम् । घृतधूपं च यो दद्यानिराशाः पितरो गताः । कात्यायनोऽपि-आसुरेण तु पात्रेण यस्तु दद्यात्तिलोदकम् । पितरस्तस्य नाश्नन्ति दशवर्षाणि पञ्चचेति । ततश्च विहितप्रतिषिद्धेभ्यः पत्रपुटपात्राण्येव श्रेयस्कराणीत्यर्थः । यत्तु कर्कोपाध्यायैर्मुन्मयमचे गृहीतं तद्धस्तघटितविषयम् । कुलालचक्रनिष्पन्नमासुरं मृन्मयं स्मृतम् । तदेव हस्तघटितं स्थाल्यादि दैविक भवेदिति वचनात् । 'एकैकस्यैकैकेन ददाति सपवित्रेषु हस्तेपु या दिव्या इति' एकैकस्येति पित्रादिनिर्देश एककेनेति च पात्राणाम् । एकैकस्येत्येतावत्युक्ते एकेनवार्येण त्रयाणां दानं प्रसज्यते तन्निवृत्त्यर्थमाहैकैकेनेति । अतश्चैकैकस्यैकैकेनेति न तंत्र इत्यर्थः । तथा च कात्यायनः-अघे क्षय्योदकेचैव पिण्डदानेऽवनेजने । तन्त्रस्य विनिवृत्तिः स्यात्स्वधावाचनिके जपे । एवं च सति त्रयाणामेकद्विजोपवेशन एकस्य वा त्रयोपवेशनेऽर्घपात्राणि त्रीण्येव न द्विजसंख्ययेत्युक्तम् । तथा च स्मृतिः-अर्घः स्यात्यार्थहेतुत्वादातुः स्वपितृसंख्यया । पूरयेदर्घपात्राणि न विप्राणां तु संख्यया । अपि च वैजवापः-स्ता पितृणां त्रीण्येव कुर्यात्पात्राणि धर्मवित् । एकैकस्मिन्वा बहुषु वा ब्राह्मणेषु यथाविधीति । स्तीर्खा पवित्रादिकमिति शेषः । अत्रैतत्संदिह्यते-वैश्वदैविक एकाघः किं वा द्वाविति । उभयथा वचनदर्शनात् । तथा हि-यज्ञियवृक्षचमसे सपवित्रक इति शाट्यायनेनैकमुक्तम् । याज्ञवल्क्येनापियवैरन्ववकीर्याथ भाजने सपवित्रके इत्येकमेव । मत्स्यपुराणे तु-विश्वान् देवान् यवैः पुष्पैरभ्यासनपूर्वकम् । पूरयेत्पात्रयुग्मं तु स्थाप्य दर्भपवित्रके इति द्वयमुक्तम् । प्रचेतसाऽपि–एकैकस्य तु विप्राणां संख्यया विप्रस्य अर्धे पात्रे विनिक्षिपेत् । यवोऽसीति यवान् की| गन्धपुष्पैः सुपूजितमिति द्वयमेव । अत्रैके कर्काय आहुः--एकदेवताकत्वादेकमेव पात्रं दैवमिति । अन्ये तु मातामहश्राद्धे वैश्वदेवस्य पृथक्पात्रयमिति । तदेतद्विचारणीयं किमत्र विकल्पः किं वा व्यवस्थेति ? । तत्र व्यवस्थेति ब्रूमः । तथा हि-वैश्वदेवश्राद्धे पक्षद्वयमुक्तम् । तन्त्रपक्षो भेदपक्षश्चेति । तत्र यदि भिन्नपक्ष एकमित्युच्येत तदा मत्स्यपुराणवचनमनर्थकं स्यात् । अथ तन्त्रपक्ष एकमिति तदोभयवचनसार्थक्यं

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560