Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 446
________________ ४४० पारस्करगृह्यसूत्रम् । [श्राद्धसूत्रच मनुः-प्रत्ययो धर्मकायेंपु सद्भिः श्रद्धेत्युदाहृतेति । सा च स्मृत्युक्तधर्मोपलक्षणम् । अतस्तद्धमें युक्तः श्राद्धं कुर्यात् । विधिहीनमनुष्ठानं मत्रहीनमदक्षिणम् । अश्रद्धया कृतं दत्तं तद्वै रक्षांसि भुजते । तथा--विभक्तिभिस्तु यत्किंचिद्दीयते पितृदैवते । तत्सर्वं सफलं ह्याहुर्विपरीतं निरर्थकमिति । अत्र श्रद्धा अस्ति यत्र तच्छ्राद्धमिति श्राद्धग्रहणेनैव तदन्वितत्वे लन्धे श्रद्धान्वितग्रहणं पितृकार्येषु स्मृत्युक्तधर्माणामत्यादरजापनार्थम् । तथा च मनु:-देवकार्याद्विजातीनां पितृकार्य विशिष्यते । इति । अतश्च पितृकार्येषु स्मृत्युक्तधर्मादरेण प्रयोगकुगलः स्यादिति । एतदुक्तं भवति । संवन्धनामगोत्ररूपाणां यथावत्प्रयोगेण पुत्रादिदत्तं हविः पितृणां तृप्तिकरं भवतीति । तथा चनामगोत्रं स्वकं शर्मप्रापकं हव्यकव्ययोः । इति । ज्ञातिश्रेष्ठयमवाप्नोति प्रयोगकुशलो नरः । इति च । नामादिप्रयोगो धर्मप्रदीपे-~आवाहनाय॑संकल्प पिण्डदाने तिलोदके । अक्षये चासने पाये नामगोत्रे प्रकाशयेत् । अत्रैतच्चिन्त्यते-कि संवन्धादीनामुच्चारणक्रमोऽस्ति नवेति । तत्रैक आहुः-- संवन्धादीनां हविःप्रापकत्वमेव नोच्चारक्रम इति । अन्ये त्वाहुरमुकगोत्रास्मत्पितरमुकशर्मन्निति क्रम इति । वसुरुद्रादिध्यानमेव नोच्चार इत्यपरे । तत्र नाद्यः-स्मृत्युक्तक्रमस्य वैयर्थ्यात् । न द्वितीयः-गोत्रप्रयोगस्यादावविहितत्वात् । नापि तृतीयः-वस्वाद्युञ्चार इत्यस्यैवोक्तत्वात् । तथा च-संवन्धं प्रथमं ब्रूयान्नामगोत्रमतः परम् । रूपं ततो विजानीयादेप धर्मः सनातनः । अन्यच्चमृतनाम समुच्चार्य तस्य गोत्रमुदीरयेत् । वृहस्पतिरपि-आसनेचार्घदाने च पिण्डदानेऽवनेजने । संवन्धनामगोत्राणि यथार्हमनुकीर्तयेत् । वसू रुद्रस्तथाऽदित्यः पित्रादित्रितये क्रमात् । मातामहादिमात्रादित्रये च स्मृतिमहतीति । तथा च वसुरुद्रादित्यरूपान्छ्राद्धार्थ तर्पयेत्पितन् । नामगोत्रे समुच्चार्य तिलस्तीर्थेपु संयतः इति । तीथै पितृतीर्थम् । ततश्चास्मत्पितरमुकशर्मनमुकगोत्रवसुरूपति प्रयोगः । पाये तु विरोध आभासते । विधिनिषेधयोर्दर्शनात् । तथा च पाये नामगोत्रे प्रकाशयेदियुक्तम् । तथा च आसनावाहने पाये अन्नदाने तिलोदके । अक्षय्ये पिण्डदाने च नामगोत्रे प्रकीर्तयेदिति । मनुस्तु निपेधति बहिर्मण्डलभूमेस्तु गोत्रमुच्चारयेद्यदि । अकृतं तद्भवेद पितृणा नोपतिष्टते इति । अत्र व्यवस्था स्वागतार्थे गोत्रादिनिषेधः । पादाचे तु विधिरित्यविरोधः । अस्ति च स्वागतार्थ्यविधिः पादाात्पूर्वभावी । तथा च वृद्धयाज्ञवल्क्यः-दत्त्वार्घ क्षालयेत्पादावाचभ्य क्षालयेत्पुनः । पूजयेत्पुनराचम्य विप्रानभ्यन्तरे विशेत् । पुराणसमुच्चयेऽपि-दत्त्वाचे क्षालयेत्पादौ विष्टरेषु निवेशयेत् । पूर्व यः क्षालयेत्पादौ पादा च ततो नयेत् । विप्रपादोदकोद्भूता पितृतृप्तिं निहन्ति सः इति । तस्माद्विपानाहूय सव्येन तूष्णीं स्वागतार्थ दत्त्वा पादौ प्रक्षाल्याचम्य मण्डले उपवेश्य यथाविधि पुनः प्रक्षाल्याचम्य पादार्चे गोत्राद्युच्चार्य दद्यादिति । नामगोत्रादिकं च कया विभक्त्या कुत्र प्रकाश्यत इत्युच्यते । तत्र संवन्धे च भवेत् षष्ठी चतुर्थी संप्रदानतः इति सामान्येन पष्टी चतुर्योः प्राप्तयोर्विशेपमाह स्मृतिः-पृच्छाक्षय्यासने षष्ठी चतुर्थी चैव कल्पने । आवाहने द्वितीया च शेषाः संबुद्धयः स्मृताः इति । कल्पने संकल्पे । एतच्चान्नसंकल्पादन्यत्र । तथा च ब्रह्माण्डपुराणे-पितृभ्यश्च ततो दद्यादन्नमामन्त्रणेन तु । अमुकामुकगोत्रैतत्तुभ्यमन्नं स्वधानमः । इति । शाङ्खायनोऽपि-अन्नं वासे(?) च तत्त इत्युद्दिश्य भोजयेदिति । आमन्त्रणे प्रतिज्ञायामक्षय्ये दक्षिणाविधौ । संपूर्णपृच्छासनयोः पष्टीं कुर्यात्सदैव हि । इति । आसने चतुर्थी विकल्पिता । तथा पृच्छाक्षय्यासने पष्टी चतुर्थी वासने मता | अर्घावनेजनपिण्डसन्न(1) प्रत्यवनेजनम् । संबुद्धथैतानि कुर्वीत शब्दशास्त्रविशारदः । व्यासोऽपि-चतुर्थी वासने नित्यं संकल्पे च विधीयते । प्रथमा तर्पणे प्रोक्ता संवुद्धिमपरे जगुरिति । देशभेदेन चतुर्थी व्यवस्थितेति रत्नावलीकारः । यत्तु संग्रहकार• वचनम् । अक्षय्यासनयोः पष्टी द्वितीयावाहने स्मृता । अन्नदाने चतुर्थी स्याच्छेपाः संवुद्धयः स्मृताः।

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560