Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 444
________________ ४३८ पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र 1 संग्रहकारोऽपि -- खल्वाटकश्च दुर्वालः कपिलश्धंड एव चेति । विविध ओष्ठाभ्यामनावृतदन्तः । विप्रजननश्छिन्नलिंगचर्मा दाक्षिण्यात्यप्रसिद्धः । तथा च कल्पलतायां --- विद्वप्रजननश्चैव कृतशिश्नविकार - वान् । ते हि कामोपभोगार्थं दाक्षिणात्याः प्रकुर्वते । वंध्यावीजो वा । मृतापत्य इत्यन्ये । व्याधितो रोगी । महारोगोपसृष्ट इति कश्चित् । व्यंगो - विगतं विविधं वांगमस्त्यस्येति सः । हीनाङ्गो - sधिकाङ्क्ष हीनातिरिक्ताङ्ग इति स्मृतेः । श्वित्री श्वेतकुष्ठी । कुष्ठी कुत्सितगलिताङ्गः । व्याधितग्रहणादेव तन्निषेधे सिद्धे तद्ग्रहणं दोषाधिक्यद्योतनार्थम् । अजीर्णाद्यल्परोगिदोषाल्पत्वज्ञापनार्थे वा । स्वभावात्कुत्सितनखः कुनखी । एतान् वर्जयित्वा निमन्त्रयेदित्यर्थः । अत्र स्नातका दिविहितग्रहणादेवेतरनिषेधे सिद्धे द्विर्ननादिनिषेधो मुन्यन्तरोक्तान्तरालिकद्विजोपवेशनार्थः ते च ग्रन्थगौरवभयान्नेह लिखिता: । अन्यथा द्विर्ननादिवर्जनमनर्थकं स्यात् । 'अनिन्द्येनामन्त्रितो नापक्रामेत् । अनिन्द्यो निर्दोषस्तेनामन्त्रितो न व्यतिक्रमेत् । तथा च श्रुतिः - स होवाचानिन्द्या वै मा वृषत सोऽनिन्द्यैर्वृतो नाशकमतिक्रमितुमिति तस्मादुहानिन्द्यस्य वृतो नापक्रामेदिति । अग्निवैश्योऽपि । नैकदाऽपि परान्नं यो भुङ्क्ते मूढमतिर्द्विजः । संवत्सराभ्यंतरे स न पूज्यो वत्सरं भवेदिति, निर्दोषस्येति शेषः । 'आमन्त्रितो वाऽन्यदन्नं न प्रतिगृह्णीयात् निमंत्रितो विप्रोऽन्यदन्नं सिद्धमामं वा परस्य न गृह्णीयादित्यर्थः । अथवाऽन्यस्यान्नमन्यदन्नम् । अन्यस्य दुगागमश्छान्दसः । वाशब्दो निमन्त्रिते दातृभोक्त्रोः परस्परत्यागनिषेधं द्योतयति । तथा च यमः -- आमन्त्रितश्च यो विप्रो भोक्तुमन्यत्र गच्छति । नरकाणां शतं गत्वा चाण्डालेनभिजायते । केतनं कारयित्वा तु निवारयति दुर्मतिः । ब्रह्महत्यामवाप्नोति शूद्रयोनौ च जायते । स्यादित्यपुराणे — आमन्त्रितश्चिरं नैव कुर्याद्विप्रः कदाचन । देवतानां पितॄणां च दातुरन्यस्य चैव हि । चिरकारी भवेद्रोही पच्यते नरकाग्निनेति । 'स्नाताच्छुचीनाचांतान ' ईदृशानुपवेश्य श्राद्धं कुर्वीतेति वक्ष्यमाणेन संबन्धः । स्नानशौचाचमनानि स्मृतिप्राप्तान्येवात्र सार्थकत्वेनानुवदति । तेन स्नानशौचाचमनेष्वत्र विशिष्टविधिरित्यर्थः । तथा च देवलः -- ततो निवृत्ते मध्याह्ने कृत्तलोमनखान् द्विजान् । अभिगम्य यथापूर्वं प्रयच्छेद्दन्तधावनम् । तैलमुद्वर्तनं स्नानं स्नानीयं च पृथग्विधम् । पात्रैरौदुम्बरैर्दद्याद्वैश्वदेवस्यपूर्वकम् । ततः स्नात्वा निवृत्तेभ्यः प्रत्युत्थाय कृताञ्जलिः । पाद्यमाचमनीयं च संप्रयच्छेद्यथाक्रममिति । अत्रामन्त्रितानां स्निग्धस्नानदंतधावनविधाने कर्तुस्तत्प्रतिषेधाद्विशेषः । तथा च—— दन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् । रत्यौपधपरान्नानि श्राद्धकृत्सप्त वर्जयेत् ' इति । अक आहुरनिषिद्धतिथिविषयं तैलादिप्रेषणमिति । तदभद्रम् । श्राद्धीयेऽहनि विशिष्टविधित्वात् । तथा च कात्यायन:- - तैलमुद्वर्तनं देयं ब्राह्मणेभ्यः प्रयत्नतः । तैरभ्यङ्गः प्रकर्तव्यो वर्ण्यकालान चिन्तयेत् । अभ्यङ्कप्रकरणे सुरेश्वरोऽपि - पुत्रजन्मनि सङ्क्रान्तौ श्राद्धे जन्मदिने तथा । नित्यस्त्राने च कर्तव्ये तिथिदोषो न विद्यते । इति । निषेधस्य मलापकर्षविपयत्वाच्च । एवं व्रणादिव्याधिसंभवे रक्तस्रावादौ च कृते अशुद्धत्वाच्छुचीनिति विशेषः । तथा च पुराणसमुच्चये - कृत्वा तु रुधिरखानं न विद्वांच्छ्राद्धमाचरेत् । एकं द्वे त्रीणि वा विद्वान् दिनानि परिवर्जयेत् । वमने वातिरेके वा तद्दिनं परिवर्जयेत् । यथा रजस्वला नारी ह्यशुचिस्त्रिदिनं भवेत् । रक्तस्रावे तथा नृणामशुचित्वं प्रजायते इति । एवमाचमनेऽपि विशेषः । तथा च विष्णुपुराणे - उपस्पर्शस्तु कर्तव्यो मण्डलस्योत्तरे दिशि । कर्त्राय वा द्विजैर्वापि विधिवद्वाग्यतैः सदा । मण्डलस्योत्तरे भागे कुर्यादाचमनं द्विज: । सोमपानफलं प्राहुर्गर्गकाश्यपगौत्तमाः । आपस्तंवोऽपि -- कुर्युराचमनं विप्रा उदीच्यां मण्डलाद्बहिः । अन्यदिक्षु यथा कुर्यान्निराशाः पितरो गताः इति । तथा — विप्रपादोदकस्थाने कुर्यादाचमनं द्विजः । रुधिरं तद्भवेत्तोयं निराशाः पितरो गताः । इति । पादोदकोच्छिष्टवारियोश्चेत्संगतिर्भवेत् । उच्छिष्टाः 1 1 1

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560