Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 448
________________ ४४२ पारस्करगृह्यसूत्रम् । [ श्रद्धसूत्रे Sपि न वा क्रुद्धो न चैवान्यमना नरः । एकाप्रमाधाय मनः श्राद्धं कुर्यात्सदा बुधः । इत्यादि । अत्रैतच्चि - न्त्यते--- विधवापररुयादीनां श्राद्धपाके कर्तुश्च तिलके किमधिकारः स्यादुत नेति । तत्रैक आहु:समाचारत्वादधिकारइति । तदयुक्तम् । स्मृतिविरुद्धाचारस्याप्रमाणत्वात् । तथा च व्यासः - - गृहिणी चैत्र 'सुनाता पाकं कुर्यात्प्रयत्नतः । निष्पन्नेषु च पाकेपु पुनः स्नानं समाचरेत् । रजस्वलां च पापण्डी पुंश्चली पतितां तथा । त्यजेच्छूद्रां तथा वन्ध्यां विधवा ( ? )मन्यां तथैव च । रजस्वला त्रिदिनादूर्ध्वमनिवृत्तरजस्काम् । यत्तु ब्रह्मपुराणवचनम् - व्यङ्गकर्णा चतुर्थीहस्नातामपि रजस्वलाम् । वर्जयेच्छ्राद्धपाकार्थममातृपितृवंशजाम् । इत्यन्यस्त्रीविपयं तदंत्या संभवविपयम् (?) । अत एव पठन्ति - मातृष्वसा वधू कन्या शूद्राग्नौ च परस्त्रियः । पितृपाकं न कुर्वीत निराशाः पितरो गताः । तथा श्राद्धस्यपाके विधवा स्त्री न तृप्तिमन्तः पितरो न देवा इत्यादि । व्यङ्गकर्णा त्रुटितकर्णी । तिलके तु आपस्तम्बः । ललाटे पुण्ड्रकं दृष्ट्ा स्कन्धे माल्यं तथैव च । निराशाः पितरो यांति शापं दत्वा सुदारुणम् । इति । एवं च सकलशिष्टाचारविरोधमवलोक्य केचिदाहुः --- पुण्ड्रकमिति वर्तुलतिलकं निपेधति । तदपरे न क्षमन्ते । तिर्यक्पुण्ड्रं तथा दृष्टा स्कन्धे माल्यं तथैव च । निराशाः पितरो यान्ति दृष्ट्वा च वृपलीपतिम् । इति वचनात् । अतस्तिर्यक् पुण्ड्र निषेध इत्यन्ये । तदपि न सामान्येन तिलकमात्रनिषेधात् । तथा च पठति --- वामहस्तेपु ये दर्भा गृहेरङ्गवलिस्तथा । ललाटे तिलकं दृष्ट्वा निराशाः पितरो गताः । इति । रङ्गबलिश्चतुष्कम् । स्मृत्यन्तरम् - ललाटे तिलकं दृष्ट्वा स्कन्धे मालांकितं तथा । कांस्यपात्रे हवि - दृष्ट्रा निराशाः पितरो गताः । सत्यनतोऽपि वर्जयेतिलकं भाले श्राद्धकाले कदाचन । तिर्यग्वाप्यू - पुण्ड्रं वा धारयेच्छ्राद्धकर्मणि । एवं च सति श्राद्धदिने तिलकमात्रस्यैव निपेध इति युक्तम् । प्रयोगेcarशी प्रार्थनानन्तरं तिलकविधानस्य दृश्यत्वात् । तथा च याज्ञवल्क्यः — याचितारश्च नः सन्तु मारम यातिष्म कंचन। ततस्तु तिलकं कुर्यान्मन्त्रेणानेन भक्तितः । नित्यानुष्ठानसंनिष्ठाः सर्वदा यज्ञबुद्धयः। पितृमातृपराः सन्तः सन्त्वस्मत्कुलजा नराः । इति । न चानालोचितपरंपरानुष्ठान ग्राह्यम् । तथा चतुविंशतिमतम् -- स्मृतिर्वेदविरोधेन परित्याज्या यथा भवेत् । तथैव लौकिकं वाक्यं स्मृतिवाधात्परित्यजेत् । अपि च पठन्ति ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं वा चन्द्राकारमथापि वा । श्राद्धकर्त्री न कर्तव्यं यावत्पिण्डान्न निर्वपेत् । इति । यच भस्मीभवति तत्सर्वमूर्ध्वपुण्ड्रं विना कृतम् इति । सन्ध्यादिकर्मविपयं तिलकं तच्छ्राद्धदिनादन्यत्र वेदितव्यमित्यविरोधः । ' आवाहना दिवाग्यत ओपस्पर्शनात् ' आ उपस्पर्शनादिति छेदः । ततश्चावाहनमारभ्य चुलुकदानपर्यन्तं मन्त्रवर्ज श्राद्धकृद्वाग्यमनमाचरेदित्यर्थः । तल्लोपे तु -- वैष्णवमन्त्रजपो वा विष्णुस्मरणं प्रायश्चित्तम् । 'आमन्त्रिताश्चैवम्' आमन्त्रिता विप्रा अप्येवं कर्तेवाक्रोधादिस्मृत्युक्तविधिनिषेधानाचरेयुरित्यर्थः । तथा च शङ्खः -- हुङ्कारेणापि यो ब्रूयाद्धस्ताद्वापि गुणान्वदेन् । भूतलाच्चोद्धरेत्पात्रं मुध्वद्धस्तेन वा पिवेत् । प्रौढपादो वहिः कृच्छ्रो वहिर्जानुकरोऽथवा । अङ्गुष्ठेन विनाश्नाति मुखशब्देन वा पुनः । पीतावशिष्टं तोयादि पुनरुद्धृत्य वा पिवेत् । खादितार्थ पुनः खादेन्मोदकानि फलानि च । मुखेन वाधमेदन्नं निष्ठीवेद्भाजनेऽपि वा । इत्थमन्नं द्विजः श्राद्धं हत्वा गच्छत्यधोगतिम् । पवित्रपाणयः सर्वे ते च मौनव्रतान्विताः । उच्छ्रिष्टोच्छिष्टसंसर्ग वर्जयन्तः परस्परम् | न स्पृशेद्वामहस्तेन भुञ्जानोन्नं कदाचन । न पादौ न शिरो नास्थि नपदा भाजनं स्पृशेदित्यादि । एवमित्यतिदेशेन भोक्तृणामपि कर्तृवन्मन्त्रोच्चारे प्राप्ते तन्निषेधार्थश्वकारः । तथा च - आसनेषु समारूढो मन्त्रमुच्चरते द्विजः । स चौरः स च पापिष्टो ब्रह्महा स च उच्यते । तथा-आसनस्थो यदा विप्रो मन्त्रमुचरते यदि । त्रयस्ते नरकं यान्ति दाता भोक्ता पिता तथेति । अत्र मन्त्रोच्चार निषेधाद्करणादि कुरुवेत्यादिप्रतिवचनमनुज्ञातम् ॥ १ ॥

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560