________________
४२६
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
1
रब्दत्येह निर्वपेत् । हेमन्तग्रीष्मवषासु पाञ्चयज्ञियमन्वहम् " ऋत्वपेक्षया हेमन्तग्रीष्मवर्षास्विति यदुक्तं तद्विवेचित्तम् मत्स्यपुराणे । अनेन विधिना श्राद्धरिव्यस्येह निर्वपेत् । कन्याकुम्भ वृपस्थेऽर्के कृष्णपक्षेषु सर्वदा । कन्यासम्वन्धिनि ऋतुपक्षेऽयं विशेष: । तस्या उभयथा संकीर्तनमस्ति कापि प्रोष्ठपदाद्यपरपक्षत्वेन क्वाप्याश्वयुकृष्णपक्षत्वेन । तथा च विष्णुधमोंत्तरे मार्कण्डेयः । उत्तरात्वयनाच्छ्राद्धे श्रेष्टं स्याद्दक्षिणायनम् । चातुर्मास्यश्च तत्रापि प्रसुप्ते केशवेऽधिकम् । प्रोष्ठपद्यपरः पक्षस्तत्रापि च विशेषतः । पञ्चम्यूर्व्वं ततश्चापि दशम्यूर्ध्व ततोऽप्यति । शस्ता त्रयोदशी राजन् मघायुक्ता ततोऽधिका । शङ्खेनाप्युक्तम् । प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् । प्राप्य श्राद्धं हि कर्तव्यं मधुना पायसेन तु । ब्रह्मपुराणे । आश्वयुकृष्णपक्षस्य श्राद्धं कार्यन्दिने दिने । त्रिभागहीनं पक्षं वा त्रिभागं त्वर्द्धमेव वा । आश्वयुज्याश्च कृष्णायां त्रयोदश्यां मधासु च । प्रावृद्धृतौ यमः प्रेतान्पितॄंश्चापि यमालयमिति । त्रिभागहीनमिति प्रतिपदादिचतुष्टयं चतुर्दशीञ्च विहाय पञ्चम्यादिपक्ष उक्तः । त्रिभागमिति पक्षतृतीयभागम् अनेन दशम्यादिरुक्तः । अर्द्धमिति अष्टम्यादि यथाशक्ति कुर्यादापरपक्षिकमिति । प्राच्यास्तु | पञ्चम्यूर्ध्वश्च तत्रापि दशम्यूत्रं ततोऽप्यति इति विष्णुधर्मोत्तरवाक्यैकवाक्यत्वाय त्रिभागहीनं पष्ट्यादिविभागमेकादश्यादीत्याहुः । यत्तु तैरर्द्धमित्यस्य तृतीयभागाद्धै त्रयोदश्यादीत्येवं व्याख्यानङ्कृतम्, तत्पक्षमित्यस्यानन्वयदोपपत्तेरुपेक्ष्यमिति कमलाकरभट्टाः । सूत्रे कुर्वीतेति विधायकं पदम् । अथेदानी विचार्यते । कि श्राद्धे सान्निकस्यैवाधिकार उत निरग्निकस्यापीत्यन्न कर्काचार्येण निर्णीतम् । अनौकरणरूपस्याङ्गस्याग्न्यधिकरणत्वात्तदुपसंहारं साग्निकस्यैव शक्तिर्तेतरस्य “ न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते " इति निषेधात् । अन्त्र च दारसङ्ग्रहपूर्वकङ्कर्माचसध्याधानं तत्पूर्विका च कर्मान्तरप्रवृत्तिरित्यतोऽपि नानग्निमतोऽधिकार इति ।
I
तूक्तम् अग्न्यभावेऽपि विप्रस्य पाणावेवोपपादयेदिति तदप्यकृतावसथ्याभ्युदयिकविपयम् । अनग्निमतोऽपि श्राद्धेऽधिकार इत्येवं विधा प्रसिद्धिस्तु इह वृक्षे यक्षस्तिष्ठतीतिवदनिश्चितमूलेति नानग्निमतः श्राद्धाधिकारे प्रमाणमिति । तदिदमनुपपन्नम् । नित्यनैमित्तिकेषु हि यथा शक्नुयात्तथा कुर्या - दिति न्यायात्सर्वाङ्गोपसंहाराशक्तस्याप्यधिकारात् । अग्न्यभावे तु पाणौ होमविधानात् । अस्य विधानस्य चोक्तविपयविशेपव्यवस्थायाः प्रमाणशून्यत्वात् । सन्ति चाग्नौकरणरहितानि श्राद्धानि तेष्वधिकारानिवृत्तेश्च । स्त्रीशूद्रानुपनीतानामपि श्रद्धोपदेशात्सानिकानग्निकोभयाधिकारेण विहितं श्राद्धं सिद्धमिति हेमाद्रिः । अपरपक्षे प्रतिपत्प्रभृतिदर्शान्तं प्रत्यहङ्कर्तव्यमित्युक्त्वाऽधुना पक्षान्तरमाह । 'ॐ वा चतुर्थ्याः ' वाशन्दो विकल्पार्थः । चतुर्थ्या ऊर्द्धमुत्तरकालं पश्चमीप्रभृति वा कुर्यात् । तदुक्तङ्क्षौतमेन । अथ श्राद्धममावस्यायां पञ्चमीप्रभृति वाऽपरपक्षस्येति । मनुस्मृतौ विशेपः । कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतरा इति । तिथिविषयकं पक्षान्तरमाह । ' यदहः संपद्येत तदहर्ब्राह्मणानामन्त्र्य पूर्वेद्युर्वा ' तत्र चतुर्दशी विना सर्वासु तिथिषु पचम्यादिपु वा तदहर्यस्मिन्नहनि द्रव्यत्राह्मणयोः सम्पत्तिः स्यात्तदहस्तस्मिन्नहनि यथोदितान्त्राणानामन्त्र्य श्राद्धं कुर्यात् । अथ वा यद्दिने मृताहसंज्ञिका तिथिरपरपक्षे स्यात्तदहे पूर्वेद्युर्वा ग्राह्मणानिमन्त्र्य श्राद्धं कुर्यादिति सम्बन्धः । तथा च पुराणसमुच्चये । या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते । सा तिथिः प्रेतपक्षस्य पूजनीया प्रयत्नत इति । यदहरिति विभत्त्यर्थेऽव्ययीभावः । नपुंसकादन्यतरस्यामिति(न)ढच्प्रत्ययः । ब्राह्मणग्रहणं क्षत्रियादिप्रतिपेधार्थम् । पूर्वेद्युर्वेति व्यवस्थितचिकल्पः । असम्भावितमैथुनान् यत्यादींस्तदहरामन्त्रयेत् । अङ्गाना प्रधानधर्मत्वादिति न्यायेन । सम्भावितमैथुनान् पूर्वेद्युरेवेति व्यवस्था । एतच व्यक्तीकृतं मार्कण्डेयपुराणं । निमन्त्रयेत्तु पूर्वशः पूर्वोक्तानु द्विजोत्तमान् । आप्राप्तौ तद्दिने वाऽपि हित्वा योषित्प्रसनिमिति । स्मृति. । प्रार्थयीत प्रोपान्ते