________________
कण्डिका १ ]
परिशिष्टम् ।
४२५
किंतर्हि इच्छेदेव । ' आमन्त्रितो वाऽन्यदन्नं न प्रतिगृह्णीयात् ' आमश्राद्धं केषाचिदानातं तद्विषयोऽयं प्रतिषेध इति । ‘स्नाताञ्च्छुचीनाचान्तान् प्राङ्मुखानुपवेश्य दैवे युग्मान् ' स्नानमाचमनश्च स्मृतिप्राप्तमेवानुवदति न कर्माङ्गत्वेन । दैवश्राद्धे युग्मान्यथाशक्ति प्राङ्मुखानुपवेशयेत् । 'अयुग्मान् यथाशक्ति पित्र्य एकैकस्योदङ्मुखान् पित्र्ये कर्मण्ययुग्मान् यथाशक्त्या एकैकस्य पित्रादेरुपवेशयेत् उदङ्मुखान् । 'द्वौ वा दैवे त्रीन् पित्र्ये ' अयमपरः पक्षः । द्वौ वा देवे देवेभ्यो द्वौ । त्रयाणाम पित्रादीनां सम्बन्धिनः साधारणॉस्त्रीनुपवेशयेत् । 'एकैकमुभयत्र वा ' तृतीयमेतत् पक्षान्तरम् । दैवे पित्र्ये च एकैकं भोजयेदिति । ' मातामहानामप्येवम् ' मातामहानामप्ययमेव न्यायः । तत्र केचित् इममुपदेशं मन्यमानाः पृथक् कृत्य मातामह श्राद्धमिच्छन्ति । यदा मातामहेभ्यो दीयते तदैवमिति । तदयुक्तम् । विशेषानवगमात् । श्राद्धङ्कर्त्तव्यमिति चोभयोरवगम्यमानत्वात् । सूत्रकार प्रस्थानाच्च । त्रीस्त्रीन्पिण्डानवनेज्य दद्यादिति वीप्सा मातामहपिण्डापेक्षया । साच सहप्रयोग एवोपपद्यते । तथा च मन्त्रान्नानम् पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहे - भ्यश्चेति । तत्र यावन्तो दैवे पित्र्ये च पितृभ्यो मातामहेभ्योऽपि तावन्त एव । एतदाद्ये पक्षे | 'तन्त्रं वा वैश्वदेविकम् ' विश्वेदेवास्तन्त्रेण वा । य एव पितृभ्यो मातामहेभ्योऽपि त एव । इतरपक्षये च सर्वे तन्त्रेणेति । यथा दैविकास्तथा पितृसम्बन्धिनोऽपि तन्त्राभ्युपगमात् । स चायमन्यः पक्षः । तथाऽन्यदपि ब्राह्मणाभावे 'एक एव यदा विप्रो द्वितीयो नोपपद्यते । पितॄणां ब्राह्मणो योज्यो दैवे त्वग्निं नियोजयेत् । तथा, यद्येकं भोजयेच्छ्राद्धे दैवन्तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च । देवतायतने स्थाप्यं ततः श्राद्धं प्रकल्पयेत् । प्रास्येदन्नौ तदन्नं तु दद्याद्वा ब्रह्मचारिणे' इति । ' श्रद्धान्वितः श्राद्धं कुर्वीत ' नात्र श्रद्धा निमित्तत्वेनोच्यते यः श्राद्धं कुर्वीत स्वकाले तच्छ्रद्धया । ' शाकेनापि नापरपक्षमतिक्रामेन्मासि मासि वोशनम्' इति श्रुतेः । कृतावस - यस्य संवत्सरे त्रिः श्राद्धनियमः । क्षयाहे आहिताग्नेरमावास्यायाम्, अपरपक्षे तूभयोर्नियम इति यत् तत्स्मृत्यन्तरापेक्षया । इहेदानी भगवान् कात्यायनः शाकेनापि नापरपक्षमतिक्रामेदिति प्रत्यपरपक्षङ्कर्तव्यतामाह । यतो मासि मासि वोशनमिति श्रुतेः । ' तदहः "येत् ' तस्मिन्नहनि शुचित्वा - दयो नियमाः।' आवाहनादिवाग्यत ओपस्पर्शनात् ' आवाहनादिवाग्यतो भवति आ उपस्पर्शनात् ' आमन्त्रिताश्चैवम् ' आमन्त्रिता ये ब्राह्मणास्तेऽप्येवमेवानुष्टानं कुर्युः ॥ १ ॥
..
॥ * ॥
दीक्षित गदाधरकृतं श्राडसत्रभाष्यम् ।
श्रीगणेशाय नमः ॥ शिवं च विघ्नहर्तारङ्कुरून्वै वामनं तथा । अम्विकां शारदाश्चापि वन्दे विघ्नोपशान्तये || ॥ कात्यायनकृते श्रद्धसूत्रे व्याख्यापुरःसराम् । प्रयोगपद्धतिं कुर्वे याज्ञवल्क्यादिसंमताम् ॥ २ ॥ तत्र पूर्वी पौर्णमासीमुत्तरां वोपवसेदित्यादिना श्रौतकर्माण्युपदिश्य " अथातो गृह्यस्थालीपाकानाङ्कर्म " इत्यादिना स्मार्तान्यपि व्याख्यायावशिष्टं श्राद्धं कर्म कर्तव्यमित्यत आह । 'अपरपक्षे श्राद्धं कुर्वीत ' श्राद्धमिति कर्मणो नामधेयम् । तत्र कर्कमते पिण्डदानस्यैव श्राद्धमिति नामधेयम् । ततश्च पिण्डदानाकरणेऽभ्यावृत्तिः । पिण्डदानत्राह्मणभोजनानौकरणत्रयाणां कर्मणां समुदायस्येत्यन्ये । श्राद्धशब्दः स्फुटीकृतो ब्रह्माण्डे । देशे काले च पात्रे च श्रद्धया विधिना च यत् । पितृनुद्दिश्य विप्रेभ्यो दानं श्राद्धमुदाहृतमिति । अपरपक्ष इति कृष्णपक्ष इत्युच्यते समाचारात्, समाचरन्ति हि कृष्णपक्षे श्राद्धमिति । लिङ्गाच, योऽपक्षीयते स पितर इति । अत्र यद्यपि समस्तमाससंवन्ध्यपरपक्षस्य श्राद्धकालत्वं प्रतीयते तथाऽपि स्मृत्यन्तरे दर्शनात् कन्याकुम्भसंबन्धिनो विशिष्टत्वम्, तत्रापि कन्यासंवन्धिनः पुण्यतमत्वम् । तथा च मतुः " अनेन विधिना श्रद्धं त्रि
५४