________________
४२४
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
न्त्रयोदशीम् । पायसं मधुसर्पिभ्या वर्षासु च मघासु चेति प्रार्थना पिण्डदानविपयैषा । तत्र हि तेपां देवतात्वमसावेतत्तेऽन्नमिति मन्त्रवर्णा हिङ्गाच । पिण्डपितृयज्ञवदुपचार इति वचनात्तत्प्राप्तेः । न भोजनस्य तदर्थता तस्य साक्षाद्राह्मणाभिसम्बन्धात् । पित्रर्थत्वे च प्रमाणाभावात् । स्मृत्यन्तराच सहपिण्डक्रियायां तु कृतायामस्य धर्मतः । अनयैवावृता कार्य पिण्डनिर्वषणं सुतैरिति पिण्ड - निर्वपणस्यैवेतिकर्तव्यतां दर्शयति, न त्राह्मणभोजनादेः । तथा च स्मृत्यन्तरेऽप्युक्तम्, स एव दद्याद् द्वौ पिण्डो पित्रे मातामहाय चेति । सूत्रकारप्रस्थानाच्च । मासि मासि वोगनमिति श्रुतेः अन्वर्थसंज्ञाकरणाच्चैकोद्दिष्टमिति । सर्वप्राधान्ये हि नैक उद्दिश्यते | आभ्युदयिके च तथादर्शनात् । पितॄणां रूपमास्थाय देवा अन्नमदन्ति तदिति । न च पितॄणामदनं सम्भवति । तस्मादनेन प्रकारेण पितृरूपेण देवानां देवतात्वमुच्यते । तच देवतात्वं पिण्डदानकाले सम्भवति, न भोजन इत्युक्तम् । तथा, अनिष्ठा तु पितॄन् श्राद्धे न कुर्यात्कर्म वैदिकमिति । दर्शयति च यथाकथञ्चिद्राह्मणभोजनम् " यद्येकं भोजयेच्छ्राद्धे इति " " एक एव यदा विप्र इति " च । ब्राह्मणभोजनासम्भवेऽपि गयादी पिण्डदानमात्रदर्शनात् । तत् द्वैपायनोऽपि दर्शयति पिण्डदानकाले पितॄणां हस्तोत्थानम् । भीष्मस्य ददतः पिण्डान् हस्तोत्थानन्तु अन्तनोरिति । यत्पुनरुक्तं सन्निधानाविशेपादिति । तन्नैत्रम् । विपावगमात् । अवगम्यते हि विशेषः प्राक्प्रतिपादितवाक्येभ्यः सकाशात् तस्मात्पिण्डदानस्य प्राधान्यं तद्गमितरत् । यचोक्तं श्राद्धमनेन भुक्तमिति तदुपचारवृत्त्या श्राद्धार्थेऽन्ने भुजिर्वर्त्तत इति । यदप्युक्तं कार्यत्वाविशेषात् तत्रापि करोतिरविरुद्धः । प्रधानंतु कार्यमङ्गानि चेति । यदप्युच्यते पिण्डपितृयनवदुपचारः पित्र्ये इति, तदपि पितृनिमित्तया गुणवृत्त्या ब्राह्मणा व्यपदिश्यन्ते । तस्मादसमुदायशत्वम् । चिन्ताया: प्रयोजनं पिण्डदानाकरणेऽभ्यावृत्तिः । अपरपक्ष इति कृष्णपक्ष इत्युच्यते । समाचारात् समाचरन्ति हि कृष्णपक्षे श्राद्धमिति । लिङ्गाच योsपक्षीयते स पित्तर इति । पितृसम्बन्धिकर्मा त्वादपरपक्ष उपचारवृत्त्या पितृशब्देनाभिधीयते । कुर्वीतति कर्त्तव्यतावचनम् तचाग्निमाननग्निमांश्च करोति । प्रसिद्धेः स्मृत्यन्तराभिप्रायाञ्च । अग्न्यभावे तु विप्रस्य पाणावोपपादयेत् । यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यत इति । तन्न | अभिमानेव करोति सर्वा ङ्गोपसंहारसामर्थ्यात् । कथम्, इतरस्य न होमासंभवात्सर्वाङ्गोपसंहारसामर्थ्यम् । कुत इति चेत् । स्मृत्यन्तरात्, न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते इति । स च पिण्डपितृयज्ञवद्धत्वेत्यभिधीयते । अपिच दारसङ्ग्रहपूर्वक्रमावसथ्याधानं तत्पूर्विका च कर्मान्तरेषु प्रवृतिरिति । अतोऽपि
3
नितोऽधिकारः । यदुक्तमग्न्यभावे तु विप्रस्येति तदकृतावसथ्याथानाभ्युदयिकविपयम् ! या च प्रसिद्धिरुक्ता सा वटयक्षवपर्यालोचितप्रसिद्धिरिति । प्रेतेभ्यो ददातीति वचनात् जीवते च पिण्डदानासम्भवात् प्रेतपितृकस्य श्राद्धेऽधिकारः । जीवत्पितृकस्याप्येके । यदेतदाह । प्रियमाणे तु पितरि पूर्वेपामेव निर्वपेत् । विप्रवद्वाऽपि तं श्राद्धे स्वकं पितरमाशयेदिति । विप्रवदशनपक्षे द्वयोः पिण्डदानम् । पितरि प्रेते पितामहे जीवति पित्रे प्रपितामहाय च पिण्डदानम् । पितामहमपि वा विप्रवद्भोजयेत् । एवं प्रपितामहमपि । यथाचाह - पिता यस्य तु वृत्तः स्याज्जीवेद्वाऽपि पितामहः । पितुः स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम् । पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यत्रवीन्मनुः । कामं वा समनुज्ञातः स्वयमेव समाचरेदिति । 'ऊर्ध्व वा चतुर्थ्याः अपरपक्षे प्रतिपत्प्रभृति चतुर्युत्तरकालं वा । — यदहः सम्पद्येत तदहर्ब्राह्मणानामन्त्र्य पूर्वेद्युर्वा ' निगदव्याख्यातम् । अपरे वर्णयन्ति । न्यायात्तदहरामन्त्रणं प्राप्नोति । प्रधानकालत्वादङ्गानाम् मैथुनप्रतिषेधान्ययानुपपत्त्या पूर्वेद्यरेवेत्यव - गम्यते । तस्मात्पूर्वेद्युरेवेत्यवधार्यते । ' स्नातकानेक इत्येवमादि कुनखी वर्जमित्येवमन्तं ' "निगद्व्याख्यातम् । 'अनिन्द्येनामन्त्रितो नापक्रामेत् श्राद्धार्थमनिन्द्येनामन्त्रितो वृतः सन् न नेच्छेत्