Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 411
________________ कण्डिका ] परिशिष्टम् । ४०५ 1 यमनुवाद आहुतीनामपि मत्रसमसंख्यत्वप्राप्त्यर्थः । ततश्च समं स्यादश्रुतत्वादिति न्यायेन एकैकेन मन्त्रेणैकैकाहुतिः । यद्वा वरुणस्योत्तम्भनमित्यत्र पञ्चानामपि वाक्यानां मन्त्रैकत्वज्ञापनार्थम् । तदित्थम् । ऋचो यजूंषि सामानि निगदा मन्त्रा इति भगवता कात्यायनाचार्येण ऋगादीनां चतुर्णी पृथक् मन्त्रत्वमुक्तम् । ततश्च सामान्यत एका ऋक् एको मन्त्रः । एकं यजुरेकः । एकं सामैकः । एको निगदञ्चैकः । तत्र तेपां वाक्यं निराकाङ्क्ष मिथः संवद्धमिति तेन, भगवता जैमिनिना च अर्थैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यादिति वाक्यलक्षणमप्युक्तम् । अत्र च पञ्चस्वप्याख्यातदेन लक्षणस्य भिद्यमानत्वात्पञ्चवाक्यान्येतानि । ततश्च पश्चैते मन्त्राः । अत एवानुक्रमणिकाकारेण वरुणस्य पञ्च वारुणानीति पञ्चसंख्याविशिष्टो यजुर्भेद उक्तः । एवं च सति न्यायतः करणमन्त्राणां समुच्चयाभावाद्वाचनिकोऽयं समुच्चयः चतुर्भिरादत्त इतिवत् । ततश्च प्रकृते नवऋचो नव मन्त्राः । पञ्चभिर्मिलितैर्यजुर्भिश्चकः । एवं दशैते मन्त्राः । किंच स्मार्त्ते कर्मणि सवत्रोत्सर्गतः कण्डिकान्तो मन्त्र इत्याचारोऽप्यनुगृहीत एव । तथाच गृह्यकारिकाकारः । गृह्यकर्मसु ये मन्त्रा ज्ञेयाः स्वाध्यायपाठतः । किंच मध्यमवृत्त्या ते न द्रुता न विलम्विता इति । ऋक्पदं तु कण्डिकापरम् यथा गौतमादीनृषीन्सप्त कृत्वा दर्भमयान्पुनः । पूजयित्वा विधानेन तर्पयेदृचमुद्धरन्, इत्यत्र चौधायनीयवाक्ये ऋक्पदमृग्यजूभयसाधारण्येन कण्डिका परमित्यङ्गीकृतमुत्सर्गकारिकाकारेण । मन्त्रैर्द्वाभ्यां च मुद्धेति माछन्दस्त्रितयेन च । एवः षोडशभिर्मन्त्रैः सप्तर्षय इत्येकया इत्यादिना । एवमत्रापि ज्ञेयमित्यलं विस्तरेण । स्थालीपाकस्येत्यवयवलक्षणा षष्ठी, स्थालीपाकस्यावयवं जुहोती - येवम् । यद्वा कर्मणि षष्ठी । ' यथोक्त ंस्विष्टकृत् ' स्विष्टकृदादि गृह्येोक्तप्रकारेण कर्तव्यमित्यर्थः । 'प्राश' 'पन्' स्विष्टक्रुद्धोमानन्तरं भूरादिप्राजापत्यान्ता नवाहुतीर्हुत्वा संस्रवप्राशनं च कृत्वा पूर्णपात्रवरयोरन्यतरद्ब्रह्मणे दत्त्वा जलचराणि मत्स्यादीनि प्रत्यक्षाणि प्रतिमारूपाणि वा जलमध्ये प्रक्षिप्य सौवर्णशृङ्गाद्यलंकृतां गां सहस्रशीर्षेतिषोडशर्च पुरुषसूक्तं त्रैस्वर्येण पठन् ऐशानाभिमुखीं जलेऽवगाह्य ब्राह्मणाय प्रतिपादयेत् । अत्र मदनरत्ने मत्स्यपुराणोक्तो विशेषः । जलाशयं च त्रिवृता सूत्रेण परिवेष्टयेत् । पात्रीमादाय सौवर्णां पञ्चरत्नसमन्विताम् । ततो निक्षिप्य मकरं मत्स्यादींस्तांश्च सर्वतः धृता चतुर्भिर्विप्रैस्तु वेदवेदाङ्गपारगैः। महानदीजलोपेतां दध्यक्षतविभूषिताम् । उत्तराभिमुखो न्युन्जां जलमध्ये तु कारयेत् । आथर्वणेन साम्ना तु पुनर्मामेत्यूचेति च । आपोहिष्ठेति मन्त्रेण क्षिस्वागत्य च मण्डपमिति । आथर्वणं साम शंनोदेवीरित्यस्यामृचि गीतमिति व्याख्यातं च । भविष्योत्तरेऽपि । सामान्यं सर्वभूतेभ्यो मया दत्तमिदं जलम् । रमन्तुं सर्वभूतानि स्नानपानावगाहनैः । एवं जलं जले क्षिप्त्वा पूजयेज्जलमातरः । तोष्याः कर्मकराः सर्वे कुद्दालानि च पूजयेत् इति । वद्दृचगृह्यपरिशिष्टे तु जलावतारितगोदानान्ते, तत उत्सर्ग कुर्यात् । देवपितृमनुष्याः प्रीयन्तामिति योत्सृजत इत्याह शौनक इत्युत्सर्ग उक्तः । मत्स्यादीनां विशेषोऽपि मदनरत्न एव । सौवर्णौ कूर्ममकरौ राजतौ मत्स्यदुन्दुभौ । ताम्रौ कुलीरमण्डूकावायस्कः शिशुमारकः । दुन्दुभो राजिलः । एते स्वर्णपात्र्यां स्थाप्या इति । ' वासो···क्षिणा च ' चकारो द्रव्यसमुच्चयार्थः वासोयुग्मं धेनुश्च दक्षिणेति यावत् । इयं च दक्षिणा आचार्यस्यैव । ततश्च तस्यापि वरणम् । ब्रह्मणस्तु पूर्णपात्रादिकैव । तथाच पाठान्तरम् । गां तारयित्वाचार्याय वरं दत्वा कर्णवेष्टको वासासि धेनुर्दक्षिणा चेति । यद्वा स्मार्ते कर्मणि यजमानस्यैव कर्तृत्वमिति भाष्यकारीयसिद्धान्तात् उपदिष्टेनातिदिष्टं वाध्यतं इतिन्यायात्पूर्णपात्रादिकं बाधित्वैव प्रवर्तते धुर्यौ दक्षिणेतिवत् । अतएव प्राशनान्ते जलचराणि क्षित्वेत्यत्र प्राशनान्तग्रहणं प्राकृतकालविशिष्टदक्षिणावाधार्थम् । जलचरप्रक्षेपादेरपूर्वत्वेन न्यायात्प्राशनान्त एव प्राप्तत्वात्पञ्चादप्रेमपीठ इत्यादिवत् । पाठान्तरपक्षे तु वैवाहिकवरदानवदुपद्रष्टृविषया स्वकीयाचार्यविषया वा इयमधिका । 1

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560