________________
कण्डिका ]
परिशिष्टम् ।
४०५
1
यमनुवाद आहुतीनामपि मत्रसमसंख्यत्वप्राप्त्यर्थः । ततश्च समं स्यादश्रुतत्वादिति न्यायेन एकैकेन मन्त्रेणैकैकाहुतिः । यद्वा वरुणस्योत्तम्भनमित्यत्र पञ्चानामपि वाक्यानां मन्त्रैकत्वज्ञापनार्थम् । तदित्थम् । ऋचो यजूंषि सामानि निगदा मन्त्रा इति भगवता कात्यायनाचार्येण ऋगादीनां चतुर्णी पृथक् मन्त्रत्वमुक्तम् । ततश्च सामान्यत एका ऋक् एको मन्त्रः । एकं यजुरेकः । एकं सामैकः । एको निगदञ्चैकः । तत्र तेपां वाक्यं निराकाङ्क्ष मिथः संवद्धमिति तेन, भगवता जैमिनिना च अर्थैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यादिति वाक्यलक्षणमप्युक्तम् । अत्र च पञ्चस्वप्याख्यातदेन लक्षणस्य भिद्यमानत्वात्पञ्चवाक्यान्येतानि । ततश्च पश्चैते मन्त्राः । अत एवानुक्रमणिकाकारेण वरुणस्य पञ्च वारुणानीति पञ्चसंख्याविशिष्टो यजुर्भेद उक्तः । एवं च सति न्यायतः करणमन्त्राणां समुच्चयाभावाद्वाचनिकोऽयं समुच्चयः चतुर्भिरादत्त इतिवत् । ततश्च प्रकृते नवऋचो नव मन्त्राः । पञ्चभिर्मिलितैर्यजुर्भिश्चकः । एवं दशैते मन्त्राः । किंच स्मार्त्ते कर्मणि सवत्रोत्सर्गतः कण्डिकान्तो मन्त्र इत्याचारोऽप्यनुगृहीत एव । तथाच गृह्यकारिकाकारः । गृह्यकर्मसु ये मन्त्रा ज्ञेयाः स्वाध्यायपाठतः । किंच मध्यमवृत्त्या ते न द्रुता न विलम्विता इति । ऋक्पदं तु कण्डिकापरम् यथा गौतमादीनृषीन्सप्त कृत्वा दर्भमयान्पुनः । पूजयित्वा विधानेन तर्पयेदृचमुद्धरन्, इत्यत्र चौधायनीयवाक्ये ऋक्पदमृग्यजूभयसाधारण्येन कण्डिका परमित्यङ्गीकृतमुत्सर्गकारिकाकारेण । मन्त्रैर्द्वाभ्यां च मुद्धेति माछन्दस्त्रितयेन च । एवः षोडशभिर्मन्त्रैः सप्तर्षय इत्येकया इत्यादिना । एवमत्रापि ज्ञेयमित्यलं विस्तरेण । स्थालीपाकस्येत्यवयवलक्षणा षष्ठी, स्थालीपाकस्यावयवं जुहोती - येवम् । यद्वा कर्मणि षष्ठी । ' यथोक्त ंस्विष्टकृत् ' स्विष्टकृदादि गृह्येोक्तप्रकारेण कर्तव्यमित्यर्थः । 'प्राश' 'पन्' स्विष्टक्रुद्धोमानन्तरं भूरादिप्राजापत्यान्ता नवाहुतीर्हुत्वा संस्रवप्राशनं च कृत्वा पूर्णपात्रवरयोरन्यतरद्ब्रह्मणे दत्त्वा जलचराणि मत्स्यादीनि प्रत्यक्षाणि प्रतिमारूपाणि वा जलमध्ये प्रक्षिप्य सौवर्णशृङ्गाद्यलंकृतां गां सहस्रशीर्षेतिषोडशर्च पुरुषसूक्तं त्रैस्वर्येण पठन् ऐशानाभिमुखीं जलेऽवगाह्य ब्राह्मणाय प्रतिपादयेत् । अत्र मदनरत्ने मत्स्यपुराणोक्तो विशेषः । जलाशयं च त्रिवृता सूत्रेण परिवेष्टयेत् । पात्रीमादाय सौवर्णां पञ्चरत्नसमन्विताम् । ततो निक्षिप्य मकरं मत्स्यादींस्तांश्च सर्वतः धृता चतुर्भिर्विप्रैस्तु वेदवेदाङ्गपारगैः। महानदीजलोपेतां दध्यक्षतविभूषिताम् । उत्तराभिमुखो न्युन्जां जलमध्ये तु कारयेत् । आथर्वणेन साम्ना तु पुनर्मामेत्यूचेति च । आपोहिष्ठेति मन्त्रेण क्षिस्वागत्य च मण्डपमिति । आथर्वणं साम शंनोदेवीरित्यस्यामृचि गीतमिति व्याख्यातं च । भविष्योत्तरेऽपि । सामान्यं सर्वभूतेभ्यो मया दत्तमिदं जलम् । रमन्तुं सर्वभूतानि स्नानपानावगाहनैः । एवं जलं जले क्षिप्त्वा पूजयेज्जलमातरः । तोष्याः कर्मकराः सर्वे कुद्दालानि च पूजयेत् इति । वद्दृचगृह्यपरिशिष्टे तु जलावतारितगोदानान्ते, तत उत्सर्ग कुर्यात् । देवपितृमनुष्याः प्रीयन्तामिति योत्सृजत इत्याह शौनक इत्युत्सर्ग उक्तः । मत्स्यादीनां विशेषोऽपि मदनरत्न एव । सौवर्णौ कूर्ममकरौ राजतौ मत्स्यदुन्दुभौ । ताम्रौ कुलीरमण्डूकावायस्कः शिशुमारकः । दुन्दुभो राजिलः । एते स्वर्णपात्र्यां स्थाप्या इति । ' वासो···क्षिणा च ' चकारो द्रव्यसमुच्चयार्थः वासोयुग्मं धेनुश्च दक्षिणेति यावत् । इयं च दक्षिणा आचार्यस्यैव । ततश्च तस्यापि वरणम् । ब्रह्मणस्तु पूर्णपात्रादिकैव । तथाच पाठान्तरम् । गां तारयित्वाचार्याय वरं दत्वा कर्णवेष्टको वासासि धेनुर्दक्षिणा चेति । यद्वा स्मार्ते कर्मणि यजमानस्यैव कर्तृत्वमिति भाष्यकारीयसिद्धान्तात् उपदिष्टेनातिदिष्टं वाध्यतं इतिन्यायात्पूर्णपात्रादिकं बाधित्वैव प्रवर्तते धुर्यौ दक्षिणेतिवत् । अतएव प्राशनान्ते जलचराणि क्षित्वेत्यत्र प्राशनान्तग्रहणं प्राकृतकालविशिष्टदक्षिणावाधार्थम् । जलचरप्रक्षेपादेरपूर्वत्वेन न्यायात्प्राशनान्त एव प्राप्तत्वात्पञ्चादप्रेमपीठ इत्यादिवत् । पाठान्तरपक्षे तु वैवाहिकवरदानवदुपद्रष्टृविषया स्वकीयाचार्यविषया वा इयमधिका
।
1