________________
४०६
पारस्करगृह्यसूत्रम् ।
[ वाप्यादिप्रतिष्ठा
I
अन्यैव । ' ततो ब्राह्मणभोजनम् ' कर्तव्यमिति सूत्रशेपः दशैकादश वाऽवश्यं भोजनीयाः । गर्भाधानादिभिर्यज्ञैर्ब्राह्मणान् भोजयेदशेति परिशिष्टकारोक्तः । ततः सहस्रं विप्राणामयवाऽष्टगतं तथा । भोजयेच्च यथाशक्त्या पञ्चाशद्वाऽय विंशतिमिति मत्स्यपुराणोक्तवचनं तु समर्थविषयम् । इति श्रीदीक्षितकामदेवकृतं गृह्यपरिशिष्टकण्डिकाया भाष्यं समाप्तम् ।
अथ प्रयोगः । तत्र कालविशेषो मदनरत्ने । अनधिकालुप्तसंवत्सरे असिंहमकरस्थगुरौ अगुर्वादित्ये अमलमासक्षयमासे अलुमदिनद्वये पक्षे अनत्रमदिनादौ भूकम्पाशन्युल्काद्यद्भुतदोपरहिते काले उत्तरायणे माघफाल्गुन चैत्रवैशाखज्येष्टापाढान्यतममासे रविशुद्धावयनद्वयविपुवद्व्यकन्यामीनधनुरन्यतमसंक्रान्तौ शुकपक्षे द्वितीया तृतीयापञ्चमीसप्तमी दशमीत्रयोदशी पौर्णमासीनामन्यतमतिथौ शनिमङ्गलान्यवारेषु भरणीकृत्तिकार्द्रापुनर्वस्त्राश्लेपामघापूर्वाफाल्गुनीविशाखाव्यतिरिक्तनक्षत्रेषु विष्कम्भातिगण्डव्या वातवञ्त्रव्यतीपातपरिघवैधृतिव्यतिरिक्तकरणेषु यजमानस्य चन्द्रताराविशुद्धा बुधशुक्र गुरुचन्द्रनिरीक्षिते लग्ने जलाशयोत्सर्गे कुर्यादिति । एवमुक्तकाले जलाशयस्योद्गैशान्यप्राक्पश्चिमान्यतमदिशि समीपे एव प्रागुदक्प्रवणे सुसमे भूभागे पूर्व दशहस्तादिमण्डपं विधायालंकृत्य तत्र स्वासने प्राङ्मुख उपकिय पवित्रपाणिः स्वाचान्तः प्राणानायम्य श्रीविष्णुस्मरणपूर्वकं देशकालादिसंकीर्तनान्ते श्रीपरमेश्वरप्रीत्यर्थं तडागप्रतिष्ठापन महं करिष्ये । एवमारामादिष्वप्यूहेन संकल्पं कृत्वा तदङ्गत्वेन गणपतिपूजानान्दीश्राद्धनवग्रहयज्ञांश्च करिष्ये इति पुनः संकल्पक्रमेणेतानि कुर्यात् ऋत्विग्वरणानन्तरं वा पुण्याहवाचनम् । ततो ग्रहमखानन्तरं प्रधानाङ्गत्वेन पुनराचार्यस्य ब्रह्मणश्च वरणं कुर्यात् । तत्र वाक्यम् । कर्तव्यामुक जलाशयप्रतिष्ठापनेऽमुकगोत्राकशर्मन त्वमाचार्यो भवेति । भवामीति प्रतिवचनम् । एवं ब्रह्मा भवेति । ततो यथाशक्ति तयोः पूजनं क्रमेण प्रार्थनश्च । आचार्यस्तु यथा स्वर्गे शक्रादीनां वृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत || यथा चतुर्मुखो ब्रह्मा सर्ववेदविशारदः । तथा त्वं मम यज्ञेऽस्मिन् ब्रह्मा भव द्विजोत्तमेति । सदस्यवरणं कृताकृतम् । पक्षे आचार्यवरणस्याप्यभावः । ततो वृतवेदाचार्य : अथवा यजमानः स्थण्डिले पञ्चभूसंस्कारपूर्वकमग्निं स्थापयित्वा वारुणं यवमयं चरुं यथाविधि श्रपयित्वा आज्यभागान्ते आज्येनैव त्वं नो अग्न इत्यादिभिर्दशभिर्मन्त्रैः प्रतिमन्त्रं दशाहुतीर्जुहुयात् । तद्यथा । ॐ प्रजापतये स्वाहा इदं प्रजापतये ० । १ । ॐ इन्द्राय स्वाहा इदमिन्द्राय० २ | ॐ अग्नये स्वाहा इदमन्नये० ३ | ॐ सोमाय स्वाहा इदं सोमाय० ४ । त्वं नो अग्न इति वामदेवऋषिः अग्नीवरुणौ देवते त्रिष्टुप्छन्द: आज्याहुतिहोमे वि० । ॐ त्वं नो अग्ने ० प्रमुमुग्ध्यस्मत्स्वाहा । इदमग्नीवरुणाभ्यां नमम । सत्वं इति वामदेवऋपिः अभीवरुणौ देवते त्रिष्टुप् - छन्दः आज्याहु॰ । ॐ सत्वं नो० एविस्वाहा इदमनीवरुणाभ्यां० २ । इमं म इति शुनः शेप० वरुणोदे० गायत्री० आज्या० । ॐ इमं मे० चके स्वाहा इदं वरुणाय० ३ | तत्वायामीति शुनःशेप० वरुणो दे० त्रिष्टुपू० आज्या० । ॐ तत्वायामि० प्रमोषीः स्वाहा इदं वरुणाय० ४ | येते शतमिति वामदेव० त्रिष्टुप्० वरुणः सविता विष्णुर्विश्वेदेवामरुतः स्त्रर्का देवताः भज्या० । ॐ येते शतं वरुण ये सहस्रं यज्ञियाः पाशा महान्तः । तेभिर्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वः स्वाहा | इदंवरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्रथः स्वभ्यश्च नमम ५ । अयाश्चाने इतिवामदेव • त्रिष्टुप् अग्निर्देवता आल्या० ॐ अयाश्चाग्नस्यनभिशस्तिपाञ्च सत्यमित्वमया असि । अयानो यज्ञं वहास्ययानो धेहि भेपजथं स्वाहा इदमग्नये० ६ अयसे इत्यधिकमिति केचित् । उदुत्त ममिति शुनःशेप० वरुणोदे० त्रिष्टुप्० आज्या० । ॐ उदुत्तमं स्याम स्वाहा । इदं वरुणाय नमम ७ | उरु- हिराजेति शुनःशेप० त्रिष्टुप० वरुणो दे० आज्या० । ॐ उरुह हि राजा०