________________
कण्डिका] परिशिष्टम् ।
४०७ श्चित् स्वाहा इदं वरुणाय नमम ८। वरुणस्योत्तम्भनमिति पञ्चयजुषां प्रजापतिः वरुणो० यजूपि आज्या० । ॐ वरुणस्योत्तम्भन० मासीद स्वाहा० इदं वरुणाय० ९ । अग्नेरनीकमिति प्रजापति० अग्निदें त्रिष्टुप्० आज्या० । ॐ अग्नेरनीक० रण्यत्स्वाहा इदमनये०१० । अभिधार्य स्थालीपाकं जुहुयात् । तत्र मन्त्राः । ॐ अग्नये स्वाहा इदमग्नये० १ । ॐ सोमाय स्वाहा इदं सोमाय०२। ॐ वरुणाय स्वाहा इदं वरुणाय०३। ॐ यज्ञाय स्वाहा इदं यज्ञाय०४। ॐ भीमाय स्वाहा इदं भीमाय ५१ ॐ उग्रायस्वाहा इदमुनाय०६॥ॐ शतक्रतवे स्वाहा इदं शतक्रतवे०७॥ॐ न्युष्ट्यै स्वाहा इदं व्युष्ट्यै०८॥ ॐ स्वर्गाय स्वाहा इदं स्वर्गाय०९ । अथ ब्रह्मणाऽन्वारब्ध ॐ अग्नये स्विष्टकृते स्वाहा इदममग्नये स्विष्टकृते. १० तत आज्येन भूरादिप्राजापत्यान्ता नवाहुतीर्जुहुयात् । तद्यथा ॐ भूः स्वाहा इदमग्नये०१४ भुवः स्वाहा इदं वायवे०२१ॐ स्वः स्वाहा इदं सूर्याय०३त्वन्नो अग्ने ४। ॐ सत्वं नो अग्ने ५। ॐ अयाश्चाग्ने ६ । ॐ येतेशतं ७ । ऑ उदुत्तमं ८ । ॐ प्रजापतये स्वाहा इदं प्रजापतये० ९१ ततः संस्रवप्राशनम् १ । पवित्राभ्यां मार्जनम् २ । पवित्रप्रतिपत्तिः ३ । प्रणीताविमोकः ४ । ब्रह्मणे पूर्णपात्रदानम् । कृतैतदुत्सर्गहोमसानतासिद्धयर्थमिदं पूर्णपात्रं ब्रह्मन् तुभ्यमहं संप्रदः । तेन श्रीकाङ्गदेवता प्रीयताम् ॥ ॥ अथ शास्त्रान्तराजलाशयं त्रिवृता सूत्रेण ईशानादिप्राक्षिण्येन परिवेष्ट्य तत्र जलचराणि प्रक्षिपेत् । तत्र प्रकारविशेषो यथा मदनरले मत्स्यपुराणोक्तः । पञ्चरत्नसमन्त्रिता संस्थापितमकरादिकां सौवर्णी पात्री समादाय जलाशयसमीपे प्राड्मुखस्तिष्ठन् दक्षहस्तेनैव पूर्व मकरं प्रक्षिप्य ततः सर्वतो मत्स्यादीन् प्रक्षिपेत् । तेऽपि सौवर्णों कूर्ममकरौ राजतौ मत्स्यदुन्दुभौ । ताम्रौ कुलीरमण्डूकावायसः शिशुमारकः, इति द्रव्यविशेषतो ज्ञेयाः । ततस्ता पात्री गड्डादिमहानदीजलोपेतां दध्यक्षतविभूषितां कृत्वा उत्तराभिमुखस्तिष्ठन् आपोहिष्ठेति तिसृभित्रग्मिर्जलमध्ये न्युजां कुर्यात् । आपोहिष्टेति तिस्मृणां सिन्धुद्वीप ऋपिः आपो देवता गायत्रीछन्दः पानीन्युजीकरणे विनियोगः । ॐ आपोहिष्टा० चनः इति तां न्युन्जीकुर्यात् । ततः सुवर्णशृङ्गादियथाशक्त्यलंकृतां गां पुरुषसूक्तं जपन् तारयेत् । विशेष: पाराशरस्मृतौ । अरोगां वत्ससंयुक्तां सुरूपां भूषणान्विताम् । गोवत्सौ वस्त्रवद्धौ तावाग्नेय्यां दिशि संस्थितौ। वायव्याभिमुखौ तत्र तारयेद्वारिमध्यत इति । पुरुषसूक्तस्य नारायणः पुरुषत्राषिः जगद्वीजं पुरुषो देवता पञ्चदशानामनुष्टुप्छन्दः षोडश्यास्रिष्टुप्छन्दः जले गोरवतारणे विनियोगः । ॐ सहस्रशी० देवाः। ततो यजमानो नित्यतर्पणवहेवर्षिपितृतर्पणं गोपुच्छाग्रे कुर्यात् । प्राङ्मुखः स्वयमुदस्थितायाः पुच्छाग्रे नित्यतर्पणं कृत्वा ततो " ब्रह्माद्यादेवताः सर्वे ऋषयो मुनयस्तथा । असुरा यातुधानाश्च मातरश्चण्डिकास्तथा । दिक्पाला लोकपालाश्च ग्रहदेवाधिदेवताः। ते सर्वे तृप्तिमायान्तु गोपुच्छोदकतर्पिताः । विश्वेदेवास्तथादित्याः साध्याश्चैव मरुद्गणाः । क्षेत्रपीठोपपीठानि नदा नद्यश्च सागराः। ते सापातालनागकन्याश्च नागाश्चैव सपर्वताः । पिशाचा गुह्यकाः प्रेता गन्धर्वा गणराक्षसाः । ते० । पृथिव्यापश्च तेजश्व वायुराकाशमेव च । दिवि भुव्यन्तरिक्षे च येच पातालवासिनः । ते० । शिवः शिवास्तथा विष्णुः सिद्धिलक्ष्मी सरस्वती । तपोवनानि भगवानव्यक्तः परमेश्वरः । तेस० । क्षेत्रौपधिलता वृक्षा वनस्पत्यधिदेवताः । कपिलः शेषनागश्च तक्षकोऽनन्त एव च । ते० । अन्ये जलचरा जीवा असंख्यातास्त्वनेकशः । चतुर्दश यमाश्चैव येचान्ये यमकिङ्कराः । ते० । सर्वेऽपि यक्षराजानः पक्षिणः पशवश्च ये । स्वेदजोद्भिद्यजा जीवा अण्डजाश्च जरायुजाः । ते० । अन्येऽपि वनजीवा ये दिवा निशि विहारिणः । अजागोमहिपीरूपा ये चान्ये पशवस्तथा । शान्तिदाः शुभदास्ते स्युर्गोपुच्छोदकतर्पिता: । आब्रह्मस्तम्बपर्यन्तं येचान्ये गोत्रिणो मृताः । ते० । सर्पव्याघ्रहता ये च शस्त्रघातमृताश्च ये। संस्काररहिता ये च रौरवादियु गामिनः । ते० । वृक्षत्वं च गताः केचित् तृणगुल्म