________________
३७८ पारस्करगृह्यसूत्रम्।
[दशमी ख्याता वैतरणी नदी । त कामो ददाम्येतां तुभ्यं वैतरणी तु गाम् । ततः पुनर्देशकालावुच्चार्य अमुकसगोत्रायामुकशर्मणे ब्राह्मणाय तुभ्यममुकगोत्रोऽमुकशर्माहं यमद्वारस्थितवैतरणीनद्याः सुखोत्तरणार्थमिमां वैतरणीसंज्ञकां धेनुं सवत्सां विष्णुदैवतां सुवर्णशृङ्गी रौप्यखुरां ताम्रपृष्ठां कांस्यदोहनां कृष्णवस्त्रयुगच्छन्नां सप्तधान्यपट्टवस्त्रबद्धक्षुमयोडुपोपरिस्थितां वासच्छतोपानकांस्यघटोपवीतसंयुक्तां कासद्रोणस्थताम्रभाजनस्योपरिस्थितलोहदण्डहस्तहेममययससहितां गन्धाधर्चितां संप्रददे । भगवान्पापहा महाविष्णुः प्रीयताम् । ततः सुवर्णं तदशक्तौ वस्त्रयुग्मं वा सप्तधान्यानि वा दक्षिणां दद्यात् । ततः स्तुतिः । या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता । धेनुरूपेण सा देवी मम पापं व्यपोहतु । विष्णुरूप द्विजश्रेष्ठ भूदेव पतिपावन । सदक्षिणा मया दत्ता तुभ्यं वैतरणी च गौः। ततो धेनुप्रार्थना । घेनुके त्वं प्रतीक्षस्व यावदागमनं मम । त्वदानात्पावितो देवि.........| धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये । उत्तितीर्घरहं देवि वैतरण्यै नमो नमः । वैतरणीदानं परिपूर्णमस्त्विति प्रार्थ्य द्विशं प्रणमेत् । स्वयं दानाशक्तौ पुत्रादिर्दत्त्वा तस्मै श्रेयो दद्यात् । अथाऽष्टमहादाननिमित्तं विष्णुपूजनम् । तत्राद्यं तिलदानं-तिलाः श्वेतास्तिलाः कृष्णास्तिला गोमूत्रसन्निभाः। ते मे दहंतु पापानि शरीरेण कृतानि वै ॥ इमांस्तिलान्सोमदैवतान्गन्धाधर्चितान् विष्णोः प्रीत्यर्थ तिलदानफलावास्यर्थ वा कस्मैचिद्ोत्राय ब्राह्मणायेति । एवं सर्वेषु ॥१॥ ततो लोहदानम्-यस्मादायस कआणि तवाधीनानि नित्यशः । लाइलाद्यायुधादीनि ततः शांति प्रयच्छ मे । इदंलोहमग्निदैवतं ॥२॥ ततो हिरण्यदानं-हिरण्यगर्भगर्भस्त्वं हेम वीजं विभावसोः । अनन्तपुण्यफलदमतः शान्ति प्रयच्छ मे ।। इदं सुवर्णमग्निदेवतं ॥३॥ ततः कासिदानं-येन दत्वेन प्रीयन्ते भूर्भुवःस्वरिति क्रमात् । ब्रह्माद्या ऋषयः सर्वे शंकराद्या गणास्तथा । इन्द्राद्या देवताः सर्वाः कासेन तु तोपिताः ॥ इमं कर्पासं बृहस्पतिदैवतं ॥४॥ लवणदानं-यस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना । पितृणां च प्रियं नित्यं तस्मात्स्वर्गप्रदं भव ॥ इदं लवणं विष्णुदैवतं यमादभयप्राप्त्यर्थ ॥ ५ ॥ ततः सप्तधान्यदानं-ब्रीहयो यवगोधूमा मुद्रा माषाः प्रियंगवः । तिलाश्च सप्तमाः प्रोक्ताः सप्तधान्यमुदाहृतम् । अथवा-यवगोधूमधान्यानि तिला कङ्गुस्तथैव च । श्यामाकं चीनकं चैव सप्तधान्यमुदाहृतम् । अन्नं प्रजापतिः साक्षादन्नमेव जनार्दनः । अन्नाद्भवन्ति भूतानि जगदन्नेन वर्धते । इदं सप्तधान्यं प्रजापतिदैवतं यमदूतप्रीत्यर्थम् ॥६॥ ततः भूमिदानं-समुद्रवसना देवी भूतधात्री च वैष्णवी । सा मे दहतु पापानि जन्मान्तरकतान्यपि।इमा भूमिं विष्णुदेवताम् ॥ ७॥ ततस्तिसृणां गवां दानम् । गावो ममाग्रतः संत्विति । इमास्तिस्रो गाः रुद्रदेवताः त्रिविधपापक्षयार्थम् ॥ ८॥ तिलादिपु सप्तदानेपु हिरण्यं दक्षिणा, हिरण्यदाने तु रजतमिति । पृथग्दानासंभवे समुदितानां संकल्पः । इमानि तिलादीन्यष्टौ महादानानि नानादेवतानि गन्धाधर्चितानि सदक्षिणानि तत्तदानफलप्राप्तये विष्णोः प्रीतये वा नानानामगोत्रेभ्य इत्यादि । समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्तथा । प्रणिपातैः स्तवैः पुण्यैर्ध्यानयोगेन पूजयेत् । दत्त्वा दानं च विप्रेभ्यो दीनानाथेभ्य एव च । वन्धौ कलने पुत्रे च क्षेत्रधान्यधनादिपु । मित्रवर्गे च सर्वत्र ममत्वं विनिवर्तयेत् । ततः सति संभवे यथाशक्ति तिलधेन्वादिदानम् । अनवरतं विष्णुस्मरणम् । ततः पुत्रादिः पुरुपसूक्तोपनिपदादिकं भावयेत् । ततो गतप्राणं ज्ञात्वा पुनः पुत्रादेः स्नानम् । मृतशरीरं प्रक्षाल्याहते परिधानीयोत्तरीये परिधाय चन्दनेन प्रोक्ष्य पुष्पैरलकुर्यात् । दुर्मरणं चेत्यायश्चित्तम् । शृदिंष्ट्रनखिसर्पविपविद्युजलाग्निब्राह्मणान्त्यजचौरमारितस्य मरणे दोपशक्त्यनुसारेण वि. गुपूजनपूर्वकं त्रीन् पड् द्वादश पञ्चदश वा प्राजापत्यान्विप्राज्ञया कृत्वा गवादितत्प्रत्याम्नायदानेन वा शुद्धिं संपाद्य दाहादि कुर्यात् । एवं मुमूर्पोरपि पापसंभवे तदनुरूपप्रायश्चित्तानन्तरमेव वैतरण्यादिदानाविकारः । दाहकर्नापि स्वपापानुरूपप्रायश्चित्तानन्तरमेव दाहादि कार्य । लोभादिना चेत्या