________________
३७७
कण्डिका ]
तृतीयकाण्डम् । (विश्व०)-'अथोदककर्म मृतसंस्कारकमुदकादिना कर्म पिण्डाञ्जलिदानादि । उपलक्षणमेतत् । अन्यस्यापि सूतकादेर्वक्ष्यमाणत्वात् । वक्ष्यत इति सूत्रशेषः। 'अद्वि""शौचं 'शौच 'रेपां' द्वे वर्षे जाते यस्यासौ द्विवर्षः न द्विवर्षोऽद्विवर्षः तस्मिन्प्रेते मृते मातापित्रोराशौचम् अशुद्धिः । स्वाश्रमविहितानुष्ठानसंकोच इति यावत् । इतरेपां मातृपितृव्यतिरिक्तानां शौच सद्यः स्नानमात्राच्छुद्धिरित्यर्थः । एतञ्च वाजसनेयान्तर्गतशाखाध्येतृणामेव । अन्येपां तु स्मृत्यन्तरविहिताशौचाधिकारः। मातापित्रोर्यदाशौचं तत्कियत्कालमत आह 'एक' 'वा' एतच्चाकृतचूडकृतचूडतया यथाक्रमं वोध्यम् आचूडान्नैशिकीत्युक्तेः । 'शरी'नन्ति । अद्विवर्षप्रेतस्य शरीरं कलेवरमदग्ध्वा दाहमकृत्वा निखनन्ति । अहतवस्त्राच्छादितं चन्दनपुष्पांद्यलंकृतं भूमौ गते कृत्वा क्षिपन्तीत्यर्थः । ' अन्तः''वत् । चेत्सूतकमध्ये तन्नाशादाक् सूतकान्तरापातस्तदा पूर्वशेषेणागन्तुकस्य शुद्धिः । तथाच शङ्क:-अथचेदन्तरा म्रियेत जायेत वा शिष्टैरेव दिनैः शुध्येताह शेषे सति द्वाभ्यां प्रभाते तिमृभिरिति । केचि त्तु शावाशौचस्य जननाशौचनिवर्तकत्वेपि जननाशौचं न शावमपवदति । सजातीयस्यैव निवर्तकतेत्यन्ये । मातापित्रोस्तु विशेषः । पितुः सूतकं स्वसमयं व्याप्नोत्येव । पितुः सूतकमध्ये चेन्मातुः सूतकं तदा द्वादशप्रहराः सूतकं वर्द्धते । पूर्वसूतके दिवसमात्राऽवशिष्टे दिनद्वयं विनश्यवस्थे दिनत्रयम् । अयं च समानकालीनयोः समानजातीययोरेव शोध्यशोधकभावः । स्वल्पतरसमयसंवन्धिना प्रचुरतरसमयसंवन्ध्याशौचाशुद्धः । अपरे तु मरणोपक्रान्तेर्जन्मानन्तरं सूतकान्तमरणे न तस्य स्वतन्त्रं सूतकमित्याहुः । 'नात्रोदककर्म अन्न ऊनद्विवर्षे तर्पणपिण्डादि न । एतच्च सहभूतदाहाभावात् । तदुक्तंनास्य कार्योऽग्निसंस्कारो नापि कार्योदकक्रियेति । 'द्विवर्ष...च्छेयुः सर्वे सपिण्डाः।स्मशानपदं स्वसहभूतदाहसूचकम् । दाहविधिश्च वक्ष्यते । 'यम''त्येके । अहरहनीयमानो गामश्वं पुरुषं ब्रजम् । वैवस्वतो न तृष्यति सुरापा इव दुर्मतिरिति यमगाथा । अपेतो यन्तु पणय इत्ययमथ्यायो यमसूक्तम् । एके गाथादिगानमाहिताग्निविषयमाहुः । 'या'"नात्' उपेतः उपनीतः आहिताग्नेः कृतावसथ्यस्य समानं भूमिजोषणादि दाहभूमिसंस्कारादि उदकाञ्जलिदानावधि। 'शाला'"हितश्चेन् । चेच्छालाग्निराहितः ॥ ॥ प्रसङ्गाहाहविधिलिख्यते । सायमाहुत्यां हुतायां चेन्मरणशङ्का तदा प्रातराहुतिस्तदैव । कृष्णपक्षे चेन्मरणशङ्का तदावशिष्टान्होमान्पक्षहोमविधिना हुत्वा दर्शपक्षादि तदैव कुर्यात् । एवं यथासंभवमसमाप्तमारब्धं सर्पवलिदानादि समापयेत् । ततो दुर्वलावस्थं यजमानं संभावितसंनिकृष्टमरणं ज्ञात्वा पुत्रादिः गोमयेन गोमूत्रेण तीर्थोदकेन गङ्गाजलेन कुशोदकेन च स्नापयित्वा शुद्ध वाससी परिधाप्यावसथ्यसंनिधौ गोमयोपलिप्तायां भुवि दक्षिणायान्कुशानास्तीर्य बहुलांस्तिलान्विकीर्य तत्र प्राक्शिरसमुदशिरसं वा भूमौ निवेशयेत् । काशीप्रयागादितीर्थसहावे मणिकर्णिकादिगङ्गादेस्तटे आवसथ्यं समानीय तत्सन्निधौ पूर्ववद्यजमाननिवेशनम् । मुखे सुवर्णकांस्यमणिविट्ठमान्यतरं निक्षिपेत् । शालिग्रामशिला तुलसी च संनिधौ निधेया । गोपीचन्दनतिलकादि । कण्ठे शिरसि चोत्तमाङ्गच्छिद्रेषु च निर्माल्यतुलसीप्रक्षेपः । प्रदीपोज्वालनं विष्णुपूजनं , ॐ नमोभगवतेवासुदेवायेति जपः । वैतरण्यादिदानम् । तत्र विधिः । वैतरणीदानपात्रभूतब्राह्मण एतत्ते पाद्यम् एषतेऽर्थ्यः पूजा । पादप्रक्षालनम् । ततः पात्रभूतो द्विजः आचामेत् । दानकर्ता पादौ प्रक्षाल्याचम्य प्राणायामान् कृत्वा वैतरणीदानाइतया यथासंभवोपचारैर्विष्णोः पूजनं कार्यम् । ततो गवाद्युपहारप्रोक्षणम् । ततो देशकालौ स्मृत्वा यमद्वारस्थितवैतरणीनद्याः सुखोत्तरणकामो वैतरणीधेनुदानमहं करिष्ये इति संकल्प्य पात्रद्विजमघचन्दनपुष्पवस्त्रकुण्डलमुद्रिकादिभिः संपूज्य सवत्सां गां च संपूज्यार्चनविधेः परिपूर्णतास्त्रिति संप्रार्थ्याचम्य भोजनपर्याप्तमन्नं संकल्प्य ब्राह्मणहस्ते सुप्रोक्षितानि कृत्वा प्रार्थयेत् ॥ यमद्वारे महाघोरे