________________
३७६
। पारस्करगृह्यसूत्रम्।
[दशमी माणमन्त्रेण निक्षिपेत् , ॐ वाचा मनसा आतेन ब्रह्मणा त्रय्या विद्यया पृथिव्या मक्षिकायामपाई रसेन निवपाम्यसाविति मन्त्रेण, असौस्थाने प्रेतनामादेशः । ततः कुम्भे तूष्णी निधाय तं कुम्भमरण्ये वृक्षमूले वा भूमौ खात्वा धारयेत् । चितास्थितं भस्म तोये सर्वमेव प्रक्षिपेत्, चिताभूमि च गोमयेन विलिप्य तत्र तेनैव पूर्वोक्तवलिमन्त्रेण बलिं दद्यात् । तं च वलिं क्षीरेणाभ्यज्य देवता विसजयेत् । चिताभूमिच्छादनार्थ तत्र वृक्षं पट्टकं वा कारयेत् । समाविश्रामार्थ काठपापाणविन्यासविशेष: पट्टकः । पट्टहर इति कान्यकुब्जे प्रसिद्धः। लोकाचारादेव कुड्यं वा । तत: कदाचिदस्थिकुम्भमुत्थाप्यादाय तीर्थ गच्छेत् । अस्थीनि मातापितृवंशजानां नयन्ति गड्डामपि ये कदाचित् । सद्वन्त्रवोऽस्यापि दयामिभूतास्तेषां च तीर्थानि फलप्रदानि । ततश्च गड्डां गत्वा स्नात्वा पञ्चगव्येनास्थीनि सिक्त्वा हिरण्यमध्वाज्यतिलैश्च संयोज्य ततो मृत्पिण्डपुटे निघाय दक्षिणां दिशं पश्यन् नमोस्तु धर्मायेति वदन जलं प्रविश्य स मे प्रीतोऽस्तु इत्यभिधाय गडाम्भसि प्रक्षिप्य जलादुत्तीर्य सूर्यमवेक्ष्य विप्रमुख्याय यथाशक्ति दक्षिणां दद्यात् । एवं कृते प्रेतक्रियाकोंः स्वर्गः स्यात् । तथा चोक्तम्विगाह्य गङ्गां समियाय तोयमिहास्थिराशिं सकलैश्च गव्यैः । हिरण्यमध्वाज्यतिलैस्तु युक्तं ततस्तु मृत्पिण्डपुटे निधाय । यस्यां दिशि प्रेतगणोपगूढो विलोकयस्तां सलिले क्षिपेत्तम् । उत्तीर्य दृष्ट्वा रविमात्मशक्त्या सुदक्षिणां द्विजमुख्याय दद्यात् । एवं कृते प्रेतपुरःस्थितस्य स्वर्गे गतिः स्याच महेन्द्रतुल्या । क्षीणेषु पुण्येष्वपतन्दिविष्ठा नैवं व्युदस्य च्यवनं द्युलोकात् । यावदस्थि मनुष्याणा गङ्गातोयेपु तिष्ठति । तावद्वर्पसहस्राणि ब्रह्मलोके महीयते । तथा यमः । गड्डातोयेषु यस्यास्थि प्लवते शुभकर्मणः । न तस्य पुनरावृत्तिब्रह्मलोकात्कदाचन । गङ्गातोयेषु यस्यास्थि नीत्वा संक्षिप्यते नरैः । युगानां तु सहस्राणि तस्य स्वर्गगतिर्भवेत् । मातुः कुलं पितृकुलं वर्जयित्वा नराधमः । अस्थीन्यन्यकुलोत्यस्य नीत्वा चान्द्रायणाच्छुचिः । एतच्च द्रव्यादिलोमेन नयतो न श्रेयोर्थिनः । अथ साग्नेः पत्नी यदि जीवर्तृका म्रियेत तदा केचिद्देशाचारात्क्षौरं नाहुः । अन्यो विधि. सर्वोप्युक्तो भवति । भर्तरि मृते यदि नियेत तदा अरण्यन्तरं संपाद्य ततो निमन्थ्येनाग्निना पात्रैविना तां दहेत् । तदलामे लौकिकाग्निना । एवं पश्चान्मृतस्य पुंसो भवति । अन्वारोहणे तु पृथगाहुतिस्तन्मुखे इति विशेषः । पात्रासादनं तु यजमानदेह एव, अथ यदि साग्नेः शवस्य दाहे क्रियमाणे वृष्टयाग्रुपघातेनाग्निनाशेऽर्द्धदग्धदेहशेपं वृष्टौ शान्तायामर्धदग्धारणी निर्मन्थ्य तदलाभेऽर्द्धदग्धकाप्टं निर्मन्थ्य तदलामे अश्वत्यादिपवित्रकाप्टमथनोत्थेनाग्निना पुनर्दहेत् । अथ प्रोपिते तु मृतेऽग्निहोत्रिणि तदस्थीन्यानीयोक्तविधिना त्रेतया पुनर्दहेत् । अस्थामप्यलामे षष्टयधिकत्रिशतमितपलाशवृन्तान्युञ्चित्य कृष्णसारचर्मणि पुरुपाकारेण प्रसारिते तदुपरि पुरुषाकारं प्रसार्य तत्र पलाशवृन्तानां चत्वारिंशता शिरः दशभिग्रीवा त्रिंशता उरः विंशत्योदरं शतेन भुजद्वयं दशभिहस्ताङ्गुलीः षड्भिर्वपणौ चतुर्मिः शिनं अतेनोरुद्धयम् त्रिंशता जानुनी जवे च दशभिः पादाङ्गुलीः परिकल्प्योर्णासूत्रेण सम्यग्बद्धा तेनैव मृगचर्मणा संवेष्ट्य ऊर्णासूत्रैणैव वद्धा यवपिष्टजलेन संग्रलिप्य मन्त्रपूर्वकं पूर्ववत्पात्रैर्दहेत् । एवं पर्णशरे दग्धे निरात्रमशुचिर्भवेन् । द्वितीयेऽहनि तु तदस्यां वृन्तरूपाणां दग्धानां संचयनम् । एवं मृतबुद्धया पर्णशरं दग्धे तस्य दैवात्सुनरागमने पुनराधानं कृत्वा आयुष्यामिष्टिं कुर्यात् । पर्णारदाहानन्तरं तु तदस्यां लामेऽर्द्धदग्धकाष्टानामलामे त्रस्यां महाजले प्रक्षेपः । बुद्धिपूर्वमात्मघातिनां तु व्यासोक्तनारायणयल्यनन्तरं संस्कारः । एवं साग्नेर्दहनदिनान्निरग्नेर्मरणदिनादगणना । अथैपा प्रेतदेहानां रजस्वलादिस्पर्ने मृन्मये कुम्भे पूर्णजले पञ्चगव्यं प्रक्षिप्य कृतस्नानं शवं तेनोदकेनामिपिञ्चते । आपोहिटेत्यादिभिः रब्लिट्रेन्वैिर्वामदेव्यादिभित्रग्मिस्तिसृभिरभिपिञ्चेत् । एवं सूतिका रजखलां चापि एकादो चतुर्थे वाहनि प्रायश्चित्तं कृत्वा पञ्चगव्येन प्रक्षाल्य वाससा संवेष्टय उक्तविधिना दुहेदिति ॥ १०॥