________________
कण्डिका]
तृतीयकाण्डम् । दशरात्रं यावत्प्रत्यहमेकैकमवयवपूरक पिण्डं प्रेताय दद्यात् । आशौचदिनहानौ वृद्धौ वा दशैव शण्डान् दिनानि विभज्य दद्यात् । कथममुकसगोत्रामुकशर्मन् प्रेत अवनेनिक्षत्र, ततो दर्भानास्तीर्य अमुकसगोत्रामुकशर्मन् प्रेत एष ते शिरःपूरकः पिण्डो मया दीयत इति पिण्डं दत्वा पूर्ववत्पुनरवनेजनं दत्त्वा ततोऽनुलेपनं ततो पुष्पधूपदीपशीतलतोयोर्णातन्तुदान पिण्डे स्मृत्यन्तरोक्तमपि कुर्यात् । अथ यस्मिन्नहोरात्रे स मृतो भवति तस्यां रात्रौ मृन्मये पात्रे क्षीरोदके कृत्वा यष्ट्यादिकमवलम्ब्याकाशे धारयेत् प्रेतात्र स्नाहि पिव चेदमिति मन्त्रेण । ततो द्वितीयादिषु प्रत्यहमनेनैव विधिना एकैकं पिण्डमवयवपूरकं दद्याद् ब्राह्मणः । क्षत्रियश्चेन्नवमेऽहनि नवमं पिण्डं दत्वा द्वादशेऽहनि दशमं पिण्डं दद्यात् । वैश्यश्चेत्पञ्चदशेऽहनि शूद्रश्चेत्रिंशत्तमे इति विशेपः । तथैव एकैकमजलिमेकैकं जलपात्रम् । वृद्धिपक्षे त्वञ्जलीनां पात्राणां च दिनसंख्यया एकैकं वर्द्धयेत् । तत्र वाक्यम्-अमुकसगोत्रामुकशर्मन् प्रेतैष ते तिलंतोयाञ्जलिमया दत्तस्तवोपतिष्ठताम् । अमुकसगोत्र प्रेत एतत्ते तिलतोयपात्रं मया दत्तं तवोपतिष्ठताम् । सद्यःशौचपक्षे त्वेकस्मिन्दिन एव क्रमेण दशावयवपूरकान् पिण्डान् तथा पञ्चपञ्चाशत्तोयाजलीन् पञ्चपञ्चाशत्तोयपात्राणि च दद्यात् । त्यहाशौचपक्षे तु प्रथमदिने त्रीन् पिण्डान् षडजलीन् षट् पात्राणि च दद्यात् । द्वितीयदिने चतुरः पिण्डान् द्वाविंशत्यञ्जलीन् द्वाविंशति पात्राणि तृतीयदिने पुनस्त्रीन् विण्डान् सप्तविंशत्यञ्जलीन सप्तविंशतिपात्राणि च दद्यात् । यतः स्मरन्तिप्रथमे दिवसे देयास्त्रयः पिण्डाः समाहितैः । द्वितीये चतुरो दद्यादस्थिसंचयनं तथा । त्रीस्तु दद्यात्ततीयेऽह्नि वस्त्रादि क्षालयेत्तत इति । केचित्तु प्रथमेऽह्नि एक पिण्डमेकमचलिमेकं पात्रं द्वितीयदिने चतुरः पिण्डान् चतुर्दशाजलीन् चतुर्दशपात्राणि तृतीयदिने पञ्चपिण्डान् चत्वारिंशदञ्जलीन् चत्वारिंशत्पात्राणीति मन्यन्ते । एतत्प्रेतकृत्यकरणानन्तरं न पुनः स्नायात् स्मरणाभावात् । पिण्डैरवयवपूरणम् । यथा-शिरः प्रथमेन, कर्णाक्षिनासिका द्वितीयेन, गलांसभुजवक्षांसि तृतीयेन, नाभिलिङ्गगुदानि चतुर्थेन, जानुजङ्घापादाः पञ्चमेन, सर्वमर्माणि पप्टेन, नाडिका- . सप्तमेन, लोमान्यष्टमेन, वीर्य नवमेन, शरीरपूर्णत्वं दशमेनेति । एतत् प्रेतनिहरणादिकं यतिव्यतिरिक्तानां त्रयाणामाश्रमिणां कुर्यात् । यतेस्तु न किंचित् । तथाच स्मृतिः-त्रयाणामाश्रमाणां च कुर्यादाहादिकाः क्रियाः । यतेः किंचिन्न कर्तव्यं न चान्येषां करोति स इति । तथा एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसक्रियाम् । न कुर्यात्पार्वणादन्यद् ब्रह्मीभूताय भिक्षवे । महन्येकादशे प्राप्ते पार्वणं तु विधीयत इति । ब्रह्मचारी तु आचार्योपाध्यायपितृव्यतिरिक्तानां प्रेतानां निर्हरणादिकं न कुर्यात् । यथाह मनु:-आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् । समाप्त तूदकं कृत्वा त्रिरात्रमशुचिर्भवेदिति । तथा, आचार्यपित्रुपाध्यायान्निर्हत्यापि व्रती व्रती । सकटान्नं न चाश्नीयान्नच तैः सह संवसेदिति । यदि मोहात्करोति तदा ब्रह्मचर्यव्रताच्च्यवते पुनरुपनयनेन शुध्यति । तथास्थिसंचयनं ब्राह्मणस्य चतुर्थेऽहनि, क्षत्रियस्य पञ्चमे, वैश्यस्य षष्ठे, शूद्रस्यैकादशेऽहनि कुर्यात् । व्यहाशौचे द्वितीयेऽहनि सर्वेषाम् , सद्यःशौचे पुनर्वाहानन्तरमेव । तत्रास्थिसंचयननिमित्तमेकोद्दिष्टश्राद्धं विधाय पुष्पधूपदीपनैवेद्यानि संभृत्य ॐ क्रव्यादमुखेभ्यो देवेभ्यो नम इति मन्त्रेणार्यादिना पूजाकात्, श्मशाने ततो नमः ऋज्यादमुखेभ्यो देवेभ्य इति बलिदानम् । तत्र मन्त्र:देवा येऽस्मिन् श्मशाने स्युर्भगवन्तः सनातनाः । तेऽस्मत्सकाशाद् गृहन्तु वलिमष्टाङ्गमक्षयम् । प्रेतस्यास्य शुभॉल्लोकान्प्रयच्छन्त्वपि शाश्वतान् । अस्माकं चायुरारोग्यं सुखं च ददताक्षयमिति । एवं वलिं दत्वा विसर्जयेत् । ततोऽपसव्यं कृत्वा पलाशवृन्तनास्थीनि - परिवृत्याङ्गुष्ठकनिष्ठाभ्यामादाय पलाशपुटे धारयति । तत्र शमी शैवालं कर्दमं च धारयति । ततो घृतेनाक्तसर्वोषधीमिश्राण्यस्थीनि दक्षिणपूर्वायतान्यवाकारान्कर्पून्खात्वा तत्र कुशानास्तीर्य हरिद्रया पीतवस्त्रखण्डमावृत्य तत्र वक्ष्य