________________
३७४
पारस्करगृह्यसूत्रम्
[ दशमी
1
वानां दक्षिणायनं रात्रिः संवत्सरो ह्यहोरात्रं तत्रिंशता मासो द्वादशवर्षे द्वादशवर्षशतानि दिव्यानि कलियुगं द्विगुणानि द्वापरं त्रिगुणानि त्रेतायुगं, चतुर्गुणानि कृतयुगम्, एवं द्वादशसहस्राणि दिव्यानि चतुर्युगम्, तत्सहस्रं तु कल्पः, स च पितामहस्याहस्तावती चास्य रात्रिः । एवंविधेनाहोरात्रेण मासवर्षगणना सर्वश्रेष्ठस्यैव ब्रह्मणो वर्पशतमायुः, एवं ब्रह्मायुपा च परिच्छिन्न: पौरुषो दिवसस्तस्यान्ते महाकल्पः तावत्येव चास्य निशा, पौरुषाणामहोरात्राणामतीतानां संख्यैव नास्ति न च भविष्याणाम् अनाद्यन्तत्वात्कालस्य । एवमस्मिनिरालम्बे काले संततयायिनि । न तद्रूपं प्रपश्यामि स्थितिर्यस्य भवेद् ध्रुवा || गङ्गायाः सिकता धारास्तथा वर्पति वासवे । शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥ चतुर्दश विनश्यन्ति कल्पे कल्पे सुरेश्वराः । सर्वलोकप्रधानाश्च मनश्च चतुर्दश || बहूनीन्द्रसहस्राणि दैत्येन्द्र नियुतानि च । विनष्टानीह कालेन मनुष्याणां तु का कथा । राजयश्च बहवः सर्वे समुदिता गुणैः । देवर्षयश्च कालेन सर्वे ते निधनं गताः । ये समर्थ जगत्राणे सृष्टिसंहारकारिणः । तेऽपि कालेन नीयन्ते कालो हि वलवत्तरः ॥ आक्रम्य सर्वः कालेन परलोकाय नीयते । कर्मपथ्योदनो जन्तुस्तत्र का परिदेवना । जातस्य हि ध्रुवो मृत्युर्धुवं जन्म मृतस्य च । अर्थे दु:परिहार्येऽस्मिन् नास्ति शोकसहायता । शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः । सुकृतं दुष्कृतं चोभे सहायौ यस्य गच्छतः । बान्धवैस्तस्य किं कार्ये शोचद्भिरथवा तथा । वान्धवैर्नाम शोचद्भिः स्थिति प्रेतो न विन्दति । अस्वस्थपतितानेष पिण्डतोयप्रदानतः । अर्वाक् सपिण्डीकरणात् प्रेतो भवति वै सृतः । प्रेतलोकं गतस्यान्नं सोदकुम्भं प्रयच्छति ॥ देवतायतनस्थाने तिर्यग्योनौ तथैव च । मनुष्येषु तथा प्रैति श्राद्धं दत्तं स्वबान्धवैः । प्रेतस्य श्राद्धकतुश्च पृथक् श्राद्धे कृते शुभम् । तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् । एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः । नोपकुर्यान्नरः शोचन् प्रेतस्यात्मन एव च । दृष्ट्वा लोकमनानन्दं त्रियमाणांश्च बान्धवान् । धर्ममेकं सहायायें चरयध्वं सदा नराः । मृतोऽपि बान्धवः शक्तो नानुगन्तुं मृतं नरम् | जायावर्ज हि सर्वस्य याम्यः पन्था विभिद्यते । धर्म एकोऽनुयात्येनं यत्र वचन गामिनम् । ततोऽसारे त्रिलोकेऽस्मिन्धर्म कुरुत मा चिरम् । श्वः कार्यमद्य कुर्वीत पूर्वा वापराह्निकम् । नहि प्रतीक्षते मृत्युः कृतं वाऽस्य न वाऽकृतम् । क्षेत्रापणगृहासक्तमन्यत्र गतमानसम् । वृकीवोरणमासाद्य मृत्युरादाय गच्छति । न कालस्य प्रियः कञ्चिदप्रियो वाऽपि विद्यते । आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति । नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः । त्रायन्ते मृत्युनोपेतं जरया वाऽपि मानवम् । यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुविन्दति । आगामिनमनर्थं हि प्रतिष्ठानशतैरपि । न निवारयितुं शक्तस्तत्र का परिदेवना । भारते—यथा काष्ठं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद्भूतसमागमः । रामायणे च - शोचमानास्तु सस्नेहा बान्धवाः सुहृदस्तथा । पातयन्ति जनं स्वर्गादश्रुपातेन राघव । श्रूयते हि नरव्याघ्र पुरा परमधार्मिकः । भूरिद्युम्नो गतः स्वर्गे राजा पुण्येन कर्मणा । स पुनर्बन्धुवर्गस्य शोकव्याजेन राघव । कृत्स्ने च क्षयिते धर्मे पुनः स्वर्गान्निपातितः । अतः शोकाग्निना दग्धः पिता ते स्वर्गतः प्रभो । शपेत्त्वां मन्युनाऽऽविष्ट : तस्मादुत्तिष्ठ मा शुचः । ततः पञ्चादनवलोकयन्तः कनिष्ठानयतः कृत्वा पङ्कीभूता ग्राममायान्ति । आगम्य च गृहद्वारे स्थित्वा निम्बपात्राणि दन्तैरवखण्डथाचम्योदकमग्निं गोमयं गौरसर्षपॉस्तैलं चेति क्रमेणालभ्य पादेनाश्मानमाक्रम्य गृहं प्रविशन्ति । ततः प्रभृति त्रिरात्रं यावत् ज्ञातीनां यमनियमा उच्यन्ते । ब्रह्मचर्यमधःशयनं लौकिककर्माकरणमन्येषां कुर्वित्यप्रेरणं क्रीत्वा लब्ध्वा वा दिवैव भोजनं मांसवर्जम् । एते च नियमा ज्ञातीनां पुत्रादीनां यावदाशौचम् । अथ यस्तेपां मध्ये प्रेतक्रियाधिकारी पुत्रादिः स
1