________________
कण्डका ]
तृतीयकाण्डम् |
३७३
एतच्च यज्ञादौ आरब्ध एव, कुतः " आरब्धे सूतकं नास्ति अनारब्धे तु सूतकमिति वचनात् । आरम्भश्चैवम् । आरम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः । नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिक्रियेति । इति सूत्रार्थः ॥ ॥ अथ पद्धतिः । तत्र ऊनद्विवार्षिकं प्रेतमरण्यं नीत्वा भूमौ निखनेत् । द्विवर्षप्रभृति उपनयनात्प्राक् प्रेतं श्मशानं नीयमानं सर्वे सपिण्डा यथाज्येष्ठपुरःसरं पङ्कीभूता अनुगच्छन्ति । पक्षे यमगाथां गायन्तो यमसूक्तं च जपन्तः । ततस्तत्र तं प्रेतं भूमिजोषणादिरहितं दग्ध्वा वक्ष्यमाणविधिना स्नात्वा उदकाञ्जलिं च दत्त्वा गृहमागता यथोक्तमाशैौचमाचरेयुः । उपनयनादूर्ध्वं भूमिजोषणाद्युदकान्तगमनपर्यन्तं यथाहिताग्नेः कर्म तथैव यथासंभवं भवति । अत्र चौपासनिकं पुत्रादिरधिकारी दुर्बलं ज्ञात्वा स्नापयित्वा शुद्धवस्त्रेणाच्छाद्य दक्षिणाशिरसं दुर्भवत्यां भूमौ संनिवेशयेत् । पूर्वपक्षे तु रात्रौ चेन्मृत्युशङ्काऽग्निहोत्रिणः । हुतावशिष्टाः पक्षेऽस्मिन् जुहुयात्सकलाहुतीः । दार्श तत्र पिण्डपितृयज्ञं विना आकृष्य कुर्यान्न तु पौर्णमासं शुक्लपक्षे आकृष्य कुर्यात् । दिवा सायमाहुतिं च । तत्कर्मणोरप्रारब्धत्वात् । अथ तत्र वैतरणीं यथाशक्ति यथाश्रद्धं हिरण्यभूम्यादिकं सर्वपापक्षयार्थी दापयित्वा अथ गतासुं ज्ञात्वा घृतेनाभ्यज्य उदकेनाफ्लाव्य सवस्त्रमुपवीतिनं चन्दनोक्षितसर्वाङ्गं पुष्पमालाविभूषितं मुखनासिकाचक्षुः श्रोत्ररन्ध्रेषु निक्षिप्तहिरण्यशकलं वस्त्रेणाच्छाद्य पुत्रादयो निर्हरेयुः । एतच्चावसथ्याग्निसंनिधौ गृहमरणपक्षे । यदा तु गङ्गादितीर्थेऽग्निसंनिधौ अर्द्धजले मरणं तदा तत्राप्येवं स्नपनादि हिरण्यशकलनिधानान्तं कर्म कुर्यात् । निर्हरणपक्षे तु आमपात्रे सन्तापाग्निमादायाग्निपुरःसरं प्रेतं यमगाथां गायन्तो यमसूक्तं च जपन्तः पुत्रादयः श्मशानं नयन्ति, तत्राधिकारी पुत्रादिराप्लुत्य भूमिजोषणपूर्वकं दक्षिणोत्तरायतं दारुचयं विधाय चितौ कृष्णाजिनं प्राग्ग्रीवमुत्तरलोममास्तीर्य तत्रोत्तानं दक्षिणाशिरसमेनं निपात्य दक्षिणनासारन्ध्रे आज्यपूर्णं स्रुवं निधाय पादयोरधरारणिमुरस्युत्तराणि च प्रागयां पार्श्वयोः सव्यदक्षिणयोः शूर्पचमसौ मुसलमुलूखलं च न्युब्जमूर्वोरन्तराले तत्रैव चात्रमोविलीं च अरुदन् भयरहितो निदध्यात् अपसव्येन वाग्यतो दक्षिणामुखः सन् । अथोपविश्य सव्यं जान्वाच्योपासनाग्निं गृहीत्वा अस्मात्त्वमधिजातोसीत्यनयर्चा स्वाहान्तया दक्षिणतो मुखे वा शनैरग्निं दद्यात् । अनावसथिकं तु एवमेव प्रामाग्निना सपिण्डाद्यानीते
मन्त्रकं दहति । ततो दाहान्ते नद्याद्युदकसमीपं गत्वा समीपस्थितं योनिसंवद्धं श्यालकं वा उदकं करिष्यामह इत्यनेन मन्त्रेणोदकं याचेरन् सपिण्डादयः । एवं याचिते यदि शतवर्षादुर्वास्प्रेतो भवेतदा कुरुध्वं मा चैवं पुनरित्येवं प्रतिवचनं दद्यात्, अथ शतवर्षादूर्द्ध प्रेतो भवेत्तदा कुरुध्वमित्येताव - देव, ततः सप्तपुरुषसंबन्धिनः सपिण्डा दशपुरुषसंबन्धाः समानोदकाश्चैकग्रामनिवासे यावत्स्मृतं जलं प्रविशन्ति एकवस्त्राः प्राचीनावीतिनः सन्तः, ततः सव्यहस्तस्यानामिकाङ्गुल्या उदकमपनोद्य अपनः शोशुचदवमित्येतावता मन्त्रेण दक्षिणामुखास्तूष्णीं निमज्जन्ति । ततः प्रेतमुद्दिश्यामुकसगोत्रा मुकशर्मन् प्रेत एतत्ते उदकमित्युच्चार्य एकैकमञ्जलिं सकृद्भूमौ प्रक्षिपन्ति । तत उदकादुत्तीर्य शुचौ देशे शाङ्खलवत्युपविष्टान् सपिण्डादीनन्ये सुहृद इतिहासपुराणादिविदग्धकथाभिः संसारानित्यतां दर्शयन्तोऽपवदेयुः । तथाहि — कृतोदकान्समुत्तीर्णान्मृदुशाङ्खलसंस्थितान् । स्नातानपवदेयुस्ता नितिहासैः पुरातनैः ॥ मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । करोति यः स संमूढो जलबुदबुदसंनिभे ॥ पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः । कर्मभिः स्वशरीरोत्यैस्तत्र का परिदेवना || गन्त्री वसुमती नाशमुदधिदैर्देवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ श्लेष्मा वान्धवैर्मुक्तं प्रेतो भुङ्गे यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ इति संश्रुत्य गच्छेयुगृहं बालपुरःसराः । विदश्य निम्वपत्राणि नियता द्वारि वेश्मनः ॥ मा शोकं कुरुतानित्ये सर्वस्मिन्प्राणधारिणि । धर्म कुरुत यत्नेन यो वः संगतिमेष्यति ॥ तथाच विष्णुः । यदुद्गयनं तदहदें -