________________
३७२ पारस्करगृह्यसूत्रम् ।
[दशमी कर्ता चेत् अयुग्मान् त्रिप्रभृतिविपमसंख्याकान् द्विजोत्तमान् भोजयित्वा भोजनं कारयित्वा एकोहिपृश्राद्धविधिना मांसवत् मांसेन सहितं पायसौदनादि भवति । एके आचार्याः प्रेतमुद्दिश्य गामपि नन्ति इति । शाखापशुविधानेन तन्मांसेन श्राद्धं कुर्वन्ति तच्छ्राद्धमने वक्ष्यति नद्यन्तरे नावं कारयेन वेति । ' पिण्ड' "श्चेत् । पिण्डानां करणं पिण्डकरणं तस्मिन् अमावास्यायां साग्नेः पुत्रस्य पिण्डपितृयज्ञे तत्र पितृणां प्रथम आद्यः प्रेतः स्यात् तत्प्रभृतिपिण्डदानमित्यर्थः । चेद्यदि स प्रेतः पुत्रवान अधिकृतेन साग्निना पुत्रेण पुत्री भवति । अयमर्थः-साग्नेः पुत्रस्य यदि पिता म्रियेत तदा पिण्डपितृयज्ञानुष्ठानानुरोधेन द्वादशेऽहनि सपिण्डीकरणं विधाय अमावास्यायां तत्प्रभृति पिण्डपितृयज्ञे पिण्डदानं पिण्डान्वाहार्यके च श्राद्धे; तत्प्रभृति पार्वणमेव श्राद्धं भवतीति। एकोदिष्टंतु निरग्निविपयम् । निवर्तेत चतुर्थः । सपिण्डने कृते पित्रादिभ्यस्त्रिभ्यः पिण्डादिदानं चतुर्थः पिण्डो निवतेत पिण्डास्त्रिष्विति श्रुतेः । त्रिपु पिण्डः प्रवर्तत इति स्मृतेश्च । 'संवगेके एके आचार्याः साग्नेरपि पुत्रस्य संवत्सरं यावत् पृथगेकस्यैव पितुः पिण्डदानमिच्छन्ति । संवत्सरे सपिण्डीकरणमिति वचनात् । न वा असपिण्डीकृतस्येतरैः सह दानं युज्यते, सपिण्डीकरणमितिशब्दः पूर्वजैः सह सपिण्डीकरणं मेलनमिति व्युत्पत्त्या अन्वर्थः । तेन संवत्सरं यावदसपिण्डीकृतस्य पितु प्रेतस्य पृथग्दानमिच्छन्त्येके । एवं सति संवत्सरे सपिण्डीकरणमिति स्मृतेरनुग्रहः कृतो भवति, एवं प्राप्त उच्यते 'न्यायस्तु ' तुशब्देन पूर्वपक्षव्यावृत्तिः, नैतदेवं यत्स्मृत्यनुग्रहन्यायेनेदं परिकल्प्यते, कुतः श्रुतिविरोधात् । काऽसौ श्रुतिः । 'न चतु "श्रुतिः । कथं श्रुतिविरोधः, शृणु, अधिकृतस्य पुत्रस्य साग्नेः पृथक् क्रियमाणे चतुर्णामपि पिण्डनिर्वपणेऽधिकारो भवति अमावास्यायां पृथक् प्रेतस्य पार्वणं च त्रयाणामिति भवति श्रुतिविरोधः । तेनाधिकृतस्य साग्नेः पुत्रस्य सपिण्डीकरणादूर्द्धमेकोष्टिं नैव कर्तव्यं भवति सपिण्डीकरणं तु द्वादशाह एव नियतमनधिकृतस्य निरमेस्तु संवत्सरादिषु सपिण्डीकरणकालेषु कृतसपिण्डनस्यापि पितुः संवत्सरादूर्द्धमपि प्रतिसंवत्सरमेकोद्दिष्टमेव । ' अह"द्यात् । अहरहः प्रतिदिनमस्मै प्रेतायोद्दिश्य ब्राह्मणाय संप्रदानभूताय अन्नं भोजनपर्याप्तमुदकुम्भं च जलपूर्णघटं संवत्सरं च यावद्दद्यात् प्रयच्छेत् । पिण्डणन्ति । एके आचार्या अहरहः पिण्डनिर्वपणमपीच्छन्ति तच्चानधिकृतनिरग्निविषयम्, अधिकृतस्य हि साग्नेः पार्वणमेव भवति नैकः पिण्डः। न चैतत्प्रतिदिनमन्नोदककुम्भदानं संवत्सरसपिण्डीकरणपक्ष एव प्रागपि संवत्सरात् यदि वा वृद्धिरापद्यत इत्यादिस्मृतिविहितकालान्तरे सपिण्डीकरणेऽपि तदूर्दू संवत्सरं यावद्भवत्येव । यतः स्मरन्ति । अर्वाक् संवत्सराद्यस्य सपिण्डीकरणं भवेत् । तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे इति, तस्मात् साग्निना निरग्निना च पुत्रेणाहरहरन्नोदकुम्भदानं कर्तव्यम् । पक्षे यत्पिण्डदानं तन्निरनेरेव, इतरस्य तु त्रिभ्यः पिण्डदानं प्रसज्येत एकपिण्डनिर्वपणनिषेधात्, तर्हि त्रिभ्योऽपि ददातु, न, प्रेतस्यहि तन स्मर्यते । याज्ञवल्क्यः -मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि । इत्येतदेकोद्दिष्टं साग्नेः सपिण्डीकरणात्याक् ऊर्च तु पार्वणमेव । यथाहमनुः-असपिण्डक्रिया कर्म द्विजातेः संस्थितस्य तु । अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् । तथा—सहपिण्डक्रियायां तु कृतायामस्य धर्मतः । अनयैवावृता कार्य पिण्डनिर्वपणं सुतैरिति । स्मृत्यन्तरं च । यः सपिण्डीकृतं प्रेतं पृथपिण्डेन योजयेन् । विधिन्नस्तेन भवति पितृहा चोपजायते इति । एतचौरसक्षेत्रजसाग्निपुत्रविषयम् । यतः स्मरन्ति-औरसक्षेत्रजौ पुत्रौ विधिना पार्वणेन तु । दद्यातासितरे कुर्युरेकोद्दिष्टं सुता दशेति । अत्राशौचप्रसङ्गात् स्मृत्यन्तरोक्त आशौचापवादो लिख्यते । ऋत्विजां दीक्षितानां च यजियं कर्म कुर्वताम् । सत्रिवतिब्रह्मचारिदातृब्रह्मविदां तथा । कारवः शिल्पिनो वैद्या दासीदासास्तथैव च । राजानो राजभृत्याश्च सद्य.शौचाः प्रकीर्तिता इति ।