________________
कण्डिका ]
तृतीयकाण्डम्। निरावसथ्याग्निः तत्र शालाग्नौ साध्यानि सायंप्रातहोमस्थालीपाकादीनि तानि वर्जयित्वा नित्यानि निवर्तेरन्नित्येक आचार्याः मन्यन्ते, तस्मिन्पक्षे न स्वयं कुर्युः किंत्वन्येन कारयेयुः। गृह्यकारपक्षे न कुर्युर्नच कारयेयुः । यथाह कात्यायनः-सूतके मृतके चैव स्माते कर्म निवर्तते। पिण्डयज्ञं चरु होममसगोत्रेण कारयेत् । वैतानिकं स्वयं कुर्यात् तत्त्यागो न प्रशस्यते । तथा-स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके । श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयादिति स्मरणात् । राहुदर्शने तु राहोरन्यत्र सूतके इति वचनात् यावदाहुदर्शनं तावदाहुदर्शननिमित्तक स्नानतर्पणदेवतार्चनजपहोमदानादि स्मात्त कर्म कुर्यात् । प्रेत 'नात्' प्रेतस्पर्शो विद्यते येषां ते प्रेतस्पर्शिनः सपिण्डा ग्रामं न प्रविशेयुर्नगच्छेयुः, कियावत् आनक्षत्रदर्शनात् नक्षत्राणां दर्शनं नक्षत्रदर्शनम् तस्मात् आ अवधेः । 'रात्रौ 'त्यस्य' चेद्यदि रात्रौ निशि प्रेतस्पर्शः स्यात्तदा आदित्यस्य सूर्यस्य दर्शनात्प्राक् न प्रविशेयुरित्यनुपङ्गः । 'प्रवे""तरैः प्रवेशनमादौ यस्य निम्बपत्रादिदशनस्य तत्प्रवेशनादि कर्म इतरैरसपिण्डैः समानं तुल्यं कार्यम् । अयमसपिण्डानां नियमः । यतोऽसपिण्डानामेव 'प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनामपि । इच्छतां तरक्षणाच्छुद्धिः परेपां स्नानसंयमात् ' इतियाज्ञवल्क्योक्तेरिच्छतां विकल्पः । संयमः प्राणायामः । एवं ब्राह्मणस्याशौचमभिधायेदानीमितरवर्णानामाशौचकालनिर्णयमाह 'पक्षं 'चम्' पक्षम् पञ्चदशाहोरात्राणि वैश्यस्याशौचं भवति, द्वौ पक्षौ त्रिंशदहोरात्राणि शूद्रस्य, वाशब्दात् द्वादशाहोरात्राणि क्षत्रियस्याशौचम् । तथाच स्मृत्यन्तरम् । शुध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यतीति । ' आचा''योश्च' आचार्य उपनयनपूर्वकं वेदाध्यापके चैवमेवोदकदानादि कर्तव्यम्, मातामही च मातामहश्च मातामही तयोः, द्विवचनं मातामह्यपेक्षया, चकारादेवमेवोदकदानादि सर्व कर्तव्यम् । 'स्त्रीणां 'नाम्' अप्रत्तानामपरिणीतानां त्रीणां कन्यानां चकारादेवमेव एषैव निखननदहनोदकदानप्रभृतीतिकर्तव्यता । आशौचेऽपि विशेषो नास्ति गृह्यकारमते । अनभिधानात् । स्मृत्यन्तरे तु पुनर्दृश्यते अहस्त्वदत्तकन्यास्विति । एतच्च चूडाकरणानन्तरं दानात्प्राक, कुतः, स्त्रीणां चूडात्तथा दानासंस्कारादप्यधः क्रमात् । सद्यः शौचमथैकाहं त्र्यहं स्यात् पितृवन्धुषु, इतिस्मृतेः । तस्मादपरिणीतानां खीणां चूडाकरणाप्राक् सद्यः शौचम्, चूडाकरणादुपरि दानात्प्राक् एकाहम्, तत उपरि विवाहात्याक् त्र्यहमिति निर्णयः । 'प्रत्ता"षाम्' प्रत्तानां परिणीतानां स्त्रीणामितरे भादयो दाहादि कर्म कुर्युः न पित्रादयः । ताश्च प्रत्ताः स्त्रियः तेषां भर्नादीनां यथाधिकारमुदकदानादि कर्म कुर्युः । पित्रादीनामत्र विशेष:-दत्ता नारी पितुगेंहे सूयते म्रियतेऽपि वा । तद्वन्धुवर्गस्त्वेकेन शुध्यते जनकस्त्रिभिरितिवचनात् प्रत्तानामपि पितुर्वन्धूनां चाशौचापत्तिमात्रम् । 'प्रोषि सीरन्' प्रोषितः प्रवासंगतश्चेद्यदि प्रेयात् म्रियेत तदा तत्पुत्रादयः तन्मरणश्रवणकालमारभ्य कृतं दत्तं स्नानपूर्वकमुक्तविधिना उदकं यैस्ते कृतोदकाः सन्तः कालशेषमाशौचसमयशेषमासीरन् आशौचधर्मेण वर्तेरन्नित्यर्थः । 'अती' वा' चेद्यदि आशौचकालोऽतीतःततः प्रोषितमरणं च श्रुतं तदा एकरात्रमाशौचं त्रिरात्रं वा । अत्र यद्यपि सामान्येनोकं तथापि स्मृत्यन्तराद्विशेपोऽवगन्तव्यः। कथम् , मासत्रये त्रिरात्रं स्यात् षण्मासे पक्षिणी भवेत् । अहस्तु नवमादक सद्यः शौचमतः परम् । तथा, पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तदिनमारभ्य दशाह सूतकी भवेदिति । 'अथ का 'प्रत्तानां । अथ नियमेन कृत्यमभिधायाधुना कामतः कृत्यमाह । कामोदकानि कामेन इच्छया उदकानि उदकदानानि भवन्तीति सूत्रशेषः । , केषाम् ? ऋत्विजः याजकाः श्वशुरौ भार्यायाः मातापितरौ सखायो मित्राणि संबन्धिनो वैशयाः मातुला मातृभ्रातरः भागिनेया भगिनीपुत्राः एतेषां प्रत्तानामूढानां दुहितृभगिन्यादीनां खीणां चकारादिच्छयोदकदानमतोऽदाने प्रत्यवायो नास्ति । ' एका "नन्ति ' एकादश्यामेकादशेऽहनि ब्राह्मणः