________________
३७० पारस्करगृह्यसूत्रम्।
[दशमी उपकनिष्ठिकया जलमपनोद्य अपनः शोशुचयमित्येतावता मन्त्रेणापसार्य दक्षिणामुखाः याम्यदिगभिमुखा निमन्जन्ति युगपत्सकृत्लान्ति । 'प्रेता""कमिति प्रेताय मृताय उदकं जलं सकृदेकवारं अनलिना प्रसिञ्चन्ति शुद्धायां भूमौ प्रक्षिपन्ति, कथम् असौ अमुकप्रेत एतत्ते उदकमित्यनेन मन्त्रप्रयोगेण । ' उत्ती"देयुः ' उत्तीर्णान जलाद्वहिनिर्गतान् शुचौ देशे मूत्रपुरीपभस्मतुपामारास्थ्याद्यशुचिद्रव्यरहिते देशे भूभागे, पुनः कीदृशे शाहलवति गाडलं हरिततृणमस्ति यस्मिन्निति शासलवास्तस्मिन् शावलवति उपविष्टानासीनांस्तत्र तदा अन्ये लोकयात्रिकाः सुहृदः एतान् प्रेतस्य पुत्रादीनपवदेयुः प्रेतगुणानुकथनेनेतिहासपुराणादिविचित्रकथाभिः संसारासारताख्यापनेन तान् शोकरहितान् कुर्युः । 'अन''पूर्वाः । अनवेक्षमाणाः पश्चादनवलोकयन्त; रीतीभूताः श्रेणीभूताः पडीभूताः कनिष्टपूर्वाः कनिष्ठो लघीयान् पूर्व अग्रिमो येषां ते स्वस्वकनिष्टानुसारिण इत्यर्थः । ग्राममायान्ति आगच्छन्ति । 'निवे 'शन्ति ' निवेशनस्य प्रेतपतिकस्य गृहस्य द्वारे पिचुमन्दस्य निम्बस्य पत्राणि छदान विदश्य दन्तैरवखण्ड्य आचम्य स्मार्त्ताचमनं विधाय उदकं जलमग्निं द्वारि घृतं तथा गोमयमानै सर्पपान् गौरान तैलं तिलसंभवमेतानि प्रत्येकमालभ्य स्पृष्ट्या अश्मानं प्रस्तरमाक्रम्य पादेनालभ्य प्रविशन्ति गृहम् ॥'विरा' रन् । त्रीण्यहोरात्राणि यावद्ब्रह्मचारिणः अकृ. तस्त्रीप्रसड़ाः अधः खदान्यतिरेकेण शेरत इत्येवंशीला अधाशायिनः किंचन किमपि कर्म गृहव्यापारादि लौकिक स्वयं न कुयुः न प्रकुरिन् अन्यैरपि न कारयेयुः । अन्तर्भूतोऽत्र णिच् ज्ञेयः । 'क्रीत्वा 'ग्राहम् ' क्रीत्वा मूल्येनान्नं गृहीत्वा लब्ध्वा वा अयाचितमन्यतः प्राप्य दिवैव दिवसे एव न रात्रौ अभीयुः मुखीरन् । किभूतममांसं मांसवर्जितम् , किं कृत्वा प्रेताय पिण्डम् , अवयवपूरक दत्वा । कथं नामग्राहं प्रेतस्य नाम गृहीत्वा, कुत्र अवजनदानप्रत्यवनेजनेषु अवनेजनं च दानं च प्रत्यवनेजनं च अवनेजनदानप्रत्यवनेजनानि तेपु त्रिरात्रमयं धर्मः । 'मृन्म' हीति' मृन्मये शराबादौ पात्रे कृत्वा ता यस्मिदिने प्रेतोऽभूत् तत्संवन्धिनी रात्री क्षीरं च उदकं च क्षीरोदके दुग्धपानीये पा. त्रैकवचनसामर्थ्यादेकीकृते विहायसि आकाशे निध्युः स्थापयेयुः । कथं प्रेतात्र नाहीत्यनेन मन्त्रेण । विज्ञानेश्वराचार्यास्तु द्रव्यद्वयनिधानसामर्थ्यात् द्वयोः पात्रयो देन निधानं मन्यन्ते, मन्त्रंचोहति प्रेतात्र स्नाहि पित्र चेदमिति । 'बिर"त्येके ' एवं प्रेतस्य भरणदिने पुत्रादीनां कृत्यमभिधायाशौचकालनिर्णयार्थमाह । त्रिरात्रं त्रीण्यहोरात्राणि कालावनोरत्यन्तसंयोगे इत्युपपदविभक्तिद्धितीया, तेन संततमाशौचमशुचित्वम् । एके आचार्या मन्वाय उपनयनप्रभृति दशाहं दशाहोरात्राणि मन्यन्ते। अत्र प्रकरणे अहःशब्दोरात्रिशब्दश्च अहोरात्रोपलक्षणपरः। एके त्रिरात्रमेके दशरात्रं चेति व्यवस्थितं वृत्तिस्वाध्यायापेक्षया । यथाह-एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः । ज्यहाकेवलवेदस्तु निर्गुणो दशभिर्दिनैरिति । एतदपि वृत्तिसंकोचे व्यवस्थापकम् । तद्यथा यदा व्यहेकोऽश्वस्तनिको वा स्वाध्यायाग्निसंपन्नो भवति तदा तस्य वृत्तिसंपादनाय सद्यः शौचं भवति । यदातु कुशूलकुम्भीधान्यः केवलस्त्राध्यायसंपन्नश्च तदाऽस्य त्रिरात्रम् । यदा पुनर्दशरानकुटुम्बवृत्तिपर्याप्तातिरिक्तधान्यो भवति वृत्तस्त्राध्यायवांश्च तदाऽस्य दशरात्रं वृत्तस्वाध्यायरहितस्य वृत्तिहीनस्यापि सर्वदा दशरानमेव । अयं च वृत्तिसंकोचात् वृत्तस्वाध्यायापेक्षया य आशौचकालसंकोचः स वृत्तिसंपादनविषय एव न पुनः कर्मान्तराधिकारसंपादनपरः, तेन यस्याशाचिनो या आपद्भवति तदपाकरणाथै वृत्तस्वाध्यायसंपन्नस्य आशौचसंकोचो नेतरेषाम् , जननाशौचेऽप्येवमेव । 'न स्वा"रन्' स्वाध्यायं वेदं नाधीयोरन् न पठेयुः न चाध्यापयेयुः येषां यावदाशौचम् । नित्या"वर्जम् । नित्यान्यावश्यकानि संध्यावन्दनादीनि निवर्तेरन् अनधिकारान्न प्रवर्तन्ते । कथम् वैतानवजै वितानो गार्हपत्याहवनीयदक्षिणाग्नीनां विस्तारस्तन साध्यमग्निहोत्रादि कर्म तद्वैतानम् तद्वजयित्वाऽन्यन्निवर्तते इत्यथः । 'शाला.""कुर्युः' शाला