________________
susar ]
तृतीयकाण्डम् |
३६९
नातू आ उत्थानं सूतकान्तं यावत् आशौचं जननाशौचान्तरमापतति तदा सुतकवत् पूर्वसूत कशेपेणैवोतरस्य शुद्धिः । यद्वा अन्तर्मध्ये सूतके सूतकान्तरे जाते उत्थानात् शुद्धिः आशौचं मरणाशौचं सूतकवत् । मरणाशौचमध्ये मरणाशौचे जाते पूर्वशेषेणोत्तरस्य शुद्धिरित्यर्थः । एतच्च सपिण्डविषयम् । मातापित्रोस्तु विशेषः । मातरि पूर्वमृतायां यद्याशौचमध्ये पिता त्रियेत तदा पितृमरणनिमित्ताशैौचान्ते शुद्धिः । यदा पुनः पितरि मृते माता म्रियेत तदा पितृमरणनिमित्ताशौचान्तात्पक्षिण्यन्ते द्वादशमहरान्ते शुद्धिः । किंच यदि सूतके रात्रिमात्रावशिष्टे सूतकान्तरमापद्येत शावे वा रात्रिमात्रावशिष्टे शावान्तरमापद्येत तदा व्यहमधिकं वर्द्धते । यदि पुनर्याममात्रावशिष्टे सूतके शावे वा सूतकं शावं वा सजातीयमापतति तदा त्र्यहमधिकं वर्द्धते । तथा च स्मृतिः --मातर्यये प्रमीतायामशुद्धौ म्रियते पिता । न पूर्वशेषाच्छुद्धिः स्यान्मातुः कुर्याच्च पक्षिणीम् । रात्रिशेषे व्यहाच्छुद्धिर्यामशेषे शुचित्र्यहात् इति । अन्ये तु इदं सूत्रमन्यथा व्याचक्षते । अन्तः सूतके चेद्यदि वालस्य मरणमापद्यते तदा आ उत्थानादाशौचमशुद्धिः सूतकवद्भवति नत्वाशौचनिवृत्तिः । बालमरणनिमित्ताशौचस्याल्पकालीनत्वेन बहुकालीनजनननिमित्ताशौ चशोधनासमर्थत्वात्, यतः समानजातीयस्य समानकालीनस्यैव पूर्वोत्पन्नस्य अन्तरापतितस्य वा शोधकत्वम् । ' नानोदककर्म ' अत्र ऊनद्विवार्षिके प्रेते उदक कर्म उदकाञ्जलिदानं न भवति । ' द्विवर्षत्येके ' द्विवर्ष द्विवर्पवयस्कः तत्प्रभृतिस्तदादिर्यः प्रेतः तमाश्मशानात् श्मशानावधि सर्वे सपिण्डा अनुगच्छेयुः पश्चाद्वजेयुः । श्मशानानुगमनविधानात् दाह उपलक्ष्यते । श्मशानशब्देन हि प्रेतदाह भूमिरुच्यते । तस्माद्दाहमपि कुर्युः दाहसंनियोगशिष्टमुदकं च दद्युः । एके आचार्याः यमगाथां यमदैवत्यायामृचि गीतं साम गायन्तः पठन्तः, तथा यमसूक्तं यमदैवत्यानामृचां समुदायं सूक्तशब्दवाच्यं जपन्तोऽनुगच्छेयुरित्याहु: । 'यशु "नात्' यदि उपेतः उपनीतः प्रेतः स्यात् गृह्येोक्तसंस्कारेपु तस्याधिकारात् वैतानिकस्य च मन्त्रब्राह्मणकल्पसूत्रेषु पृथक् संस्कारान्नानात् तदा भूमिजोपणादिकर्म समं तुल्यं केन आहिताग्नेः कर्मणा यथा आहिताग्नेः औपासनिकस्य भवति किंपर्यन्तम् आ उदकान्तस्य उदकसमीपस्य गमनात्, एतदुक्तं भवति - यद्युपनीतः प्रेतो भवति तदाऽस्याहिताग्नेर्भूमिजोषणादि उदकाञ्जलिदानपर्यन्तं कर्म यथाभवति तथैव कुर्यादिति । ‘शाला' 'चेत्' चेद्यद्यसौ प्रेत आहितः कृतावसथ्याधानः स्यात् तदैनं प्रेतं शालाग्निना औपासनेन दहन्ति पुत्रादयः । ' तूष्णीं तरम्' तूष्णीं मन्त्रवर्ज ग्रामाग्निना लौकिकेन पावकेन इतरमकृतावसथ्याधानं दहन्तीत्यनुषङ्गः । ' संयुह इति ' संयुक्तं केन चित् यौनेन संवन्धेन संवद्धम् । मैथुनः मिथुनस्यैकदेशलक्षणया मैथुनशब्दवाच्याया भार्यायाः भ्राता श्याल इत्यर्थः तं वोदकं जलं याचेरन् प्रार्थयेरन् उदकं करिष्यामह इत्यनेन मन्त्रेण । ' कुरु प्रेते ' एवं पृष्टः संयुक्तः श्यालो वा प्रतिब्रूयात् । किं कुरुष्वं मा चैवं पुनरिति । क अशतवर्षे प्रेते शतवर्षेभ्योऽर्वाक् मृते सति । ' कुरु "स्मिन् ' इतरः शतवर्षप्रभृतिः तस्मिन्मृते कुरुध्वमित्येव एतावदेव प्रतिब्रूयात् न मा चैवं पुनरिति । ' सर्वे "माद्वा ' ज्ञातयः सपिण्डाः समानोदकाश्च सर्व एव अपोऽभ्यवयन्ति स्नानार्थे नद्यादेर्जलं प्रविशन्ति, किं यावत् आसप्तमात्पुरुषात् सप्तमं पुरुषमभिव्याप्य यावन्तः सपिण्डाः दशमाद्वा दशमं पुरुषमभिव्याप्य वा यावन्तः समानोदकाश्च तावन्त इत्यर्थः । ' समारेयुः ' समाने एकस्मिन् ग्रामे वास अवस्थानं समानग्रामवासः तस्मिन् सति यावत्संबन्धम् यदवधिसंवन्धः सापिण्ड्यं समानोदकत्वं सगोत्रत्वं वा अनुस्मरेयुः अस्मिन्पुरुषे वयं संवन्ध्यामहे इति जानीयुः तावन्त: अपोभ्यवयन्ति इति संबन्धः ॥ ' एक 'ज्जन्ति' कथमित्यपेक्षायामाह - एकं परिधानीयमेव वस्त्रं येषां ते एकवस्त्रा: । तथा प्राचीनावीतिन: प्राचीनावीतं विद्यते येषां ते प्राचीनावीतिनः कृतापसन्या इत्यर्थः । तथाभूताः सन्तः सन्यस्य वामस्य पाणेरनामिकया
४७