________________
३६८ पारस्करगृह्यसूत्रम् ।
[दशमी चासपिण्डीकृतस्येतः मह पिण्डदानं युज्यत इति । अन्वर्थसंबा खेपा यत्सपिण्डीकरणमिति । सहपिण्डक्रिया सपिण्डीकरणम । तेन संवत्सरं यावपितुः प्रेतस्य पृथक् पिण्डदानमिच्छन्त्येके । एवं च संवत्सरसपिण्डीकरणस्मृतिरनुगृहीता भवति । एवं प्राप्त आह 'न्यायस्तु ' तुगन्दः पक्षव्यावृत्तौ । नेतदेवं संवत्सरं यावत्पृथग दानमिति । येन संवत्सरस्मृत्यनुप्रहन्यायेनैतत्परिकल्प्यते तच्च विरुद्धम् । नच श्रुतिविरोधे न्यायो युक्तः । कोऽसौ विरोकः । न चतुर्थः पिण्डो भवतीति श्रुतेः । पृथक् क्रियमाणे चतुर्णा पिण्डनिर्वपणाधिकारो भवति । पृथक् प्रेतस्य । अमावास्यायां चाधिकृतस्य पार्वणमिति श्रुतिविरोधः । तेनाधिकृतस्य पुत्रस्यैकोदिष्टं न भवत्येव । अनविकृतस्य तु संवत्सरादूर्ध्वमेकोहिष्टमिति । अस्मै प्रेतायाथे प्रामाणायान्नं प्रत्यहं दद्यात्संवत्सरम् । कुम्भं च दद्यात् । एके आचार्याः पिण्डनिर्वपणमपीच्छन्ति । एतथानधिकृतविपयम । अधिकृतस्य तु पार्वणमेव भवति नैकः पिण्ड इति । यञ्च संवत्सरे सपिण्डीकरणस्मरणं तदूर्वसंवत्सरानास्त्येवेति परिज्ञापयितुं, (तस्मात्) प्रागपि भवति । सपिण्डीकरणं प्रकृत्य सूत्रकार आह । यदा वा वृद्धिरापद्यत इति । वृद्धी ह्याभ्युदयिक कार्यम् । तचासपिण्डीकृतस्य न भवति । अतः संवत्सरात्मागपि भवत्यनधिकृतस्य । तथाच स्मृत्यन्तरम् । अनि संवत्सराद्यस्य सपिण्डीकरणम्, भवेत् । तस्याप्यन्नं सोदयुम्भं दद्यात्संवत्सरं द्विज इति । एतदेव च तस्य भवति न पिण्डनिर्बपणमिति । त्रिभ्यो दानप्रसङ्गात् । अधिकृतपुत्रस्य तु द्वादशाह एवेत्युक्त. मेव । यच्च प्रेतस्य स्मयते । मृतेऽहनि तु कर्तव्य प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादोऽहनि इति । तदेतत्सपिण्डीकरणाव्यागेकोहिष्टम् । अवं तु पार्वणमेव । तथा च मनुः-असपिण्डक्रियाकर्म द्विजातेः संस्थितस्य च । अदेवं भोजयेन्द्राद्धं पिण्डमेकं तु निर्वपेदिति । यावत्सपिण्डता न क्रियते तावदेव तकर्तव्यमिति । तथाचाह-सहपिण्डक्रियायां तु कृतायामन्यधर्मतः । अनौवावृता कार्य पिण्डनिर्वपणं मुतरिति । सपिण्डक्रियोत्तरकालमनयैव पिण्डक्रियया पिण्डनिवपणं सुतैः कार्यम् । केचित्तु अधस्तनश्लोकोपात्तमावृतमनयैवावृतेत्यनेनानुवर्तयन्ति । तत्पुनरनुपपन्नार्थम् । उपरितनश्लोकारम्भसामर्थ्यात् । अनारब्धेऽपि तस्मिन्नेकोद्दिष्टं लभ्यत एव, द्विजातेः संस्थित्तस्य तु, अदैव भोजयेच्छ्राद्धमित्यनेन । अधस्तनलोके च विशेषणार्थ वाक्यप्रसङ्गः । सहपिण्डक्रियाकर्मेति द्विजातेः संस्थितस्येत्येवमादिनैव पादत्रयेणार्थम्य सिद्धत्वात् । यत्पुनरुच्यते अत ऊर्ध्व वर्षे व प्रेतायानं दद्यात् यस्मिन्नहनि प्रेतः स्यादिति, तदेकत्वविशिष्टस्याभिधानादेकत्वविशिष्टस्य भवति । तन्न । नह्यत्रैकत्वमुपादीयमानं विशेपणम् । येन प्रेतोदेशेन दानविधानमेव विवक्ष्यते । तस्मादविवक्षकत्वस्य । यथा स्मृत्यन्तरेऽभिहितं तथैव देयमिति ॥ १०॥
(हरिहरः)-'अथोदकर्कर्म' अथ पुरुषसंस्कारकर्मक्रमप्राप्तमुदककर्म उदकेन जलेन कर्म क्रिया अञ्जलिदानमित्यर्थः । वक्ष्यत इति सूत्रशेपः । उपलक्षणमेतत् । येनाशौचादियमनियमा अपि वक्ष्यन्ते । 'अद्विरात्रं वा द्वे वर्षे वयो यस्य स द्विवर्षः न द्विवर्पः अद्विवपस्तस्मिन् प्रेते प्रकपेण इतो गतः प्रेतो मृतः तस्मिन्निमित्ते माता च पिता च मातापितरौ तयोर्मातापित्रोराशौचमशुद्धि. वर्णाश्रमविहितकर्मानुष्ठानसंकोचावस्थेति यावत् । इतरेषां मातापितृभ्यामन्येषां शौचमेव नाशुद्धि । पित्रोः कियन्तं कालमाशौचम् एकरात्रमेकमहोरात्रम् । अथवा त्रिरात्रम् । अयं विकल्पः प्रेतस्याकतकृतचूडत्वेन व्यवस्थितः । इतरेपा सद्यःशौचमिति गृह्यकारस्यैव मतम् । स्मृत्यन्तरे तु तेषामप्याशी. चस्य विहितत्वात् आदन्तजननात्सद्य इत्यादिना । यञ्च पुंस उपनयनात्याक् स्त्रियाश्च विवाहात्प्राक् वयोवस्थाविशेषेण सद्यएकरात्रत्रिरात्रादिकमाशौचमुक्तं तत्सर्ववर्णसाधारणम् । विशेषावगमस्याशक्यत्वात् । 'शरी'नन्ति । ऊन द्विवर्पस्य प्रेतस्य शरीरं कुणपमदग्ध्वा अग्निदाहमकृत्वा निखनन्ति गर्ने प्रक्षिपन्ति । 'अन्तः 'कवत्' वैद्यदि अन्तः सूतके सूतकस्य जनननिमित्ताशौचस्य अन्तर्मध्ये उत्या