________________
कण्डिका] तृतीयकाण्डम् ।
३६७ मिति । अपरे त्वेकीयशब्दात्सद्यः शौचमिच्छन्ति । यदा गुणत्रययोगो भवति वृत्तिसंकोचश्व व्याहिक ऐकाहिको वा भवति तदा सद्यः शौचमिति स्मृत्यन्तरम् । येषां यावदाशौचं ते तावत्स्वाध्यायं वेदं नपठेयुः । नच पाठयेयुः । एते चाशौचविकल्पाः प्रातिस्विकाः । नतु सूतकाशौचवत्सर्वेषां सहेति । तत्र हि-जननेऽप्येवमेव स्यान्मातापित्रोस्तु सूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः । इत्यनेन दशाहस्यातिदेशो न चतुरहत्र्यहैकाहानाम् । कुत एतन् । संचयनकल्पेन व्यवधानात् । अपिच । सर्वकल्पातिदेशे मातुरप्येकाहेन शुद्धिः प्राप्नोति । तच्च नेष्यते । येन बैजिकादभिसंवन्धादनुरुन्ध्यादघं व्यहमिति पितुस्यहेण शुद्धिर्मातुश्चैकाहेनेति विरोधः । कथम् ? रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यत इति । तस्मादपि दशाहस्यैवातिदेशः । शावं वाऽनपेक्ष्यैवमेव स्यादिति व्याख्येयम् । एवं च सति जननेऽप्येवमेव स्यादिति सपिण्डानां दशाहम् । मातापित्रोश्च सूतकमिति तयोश्च दशाहम् । सूतकं मातुरेव स्यादिति मातुश्च दशाहम् । अत्र पक्षत्रयेऽपि व्यवस्था युक्तरूपा भवति । तामाह सपिण्डानां निर्गुणत्त्वे दशाहम् । वृत्तवत्त्वेऽपि पित्रोश्च दशाहम् । पितुरप्यतिवृत्तवत्त्वे मातुरेव हशाहं भवतीति । अस्मिश्च पक्षे-वैजिकादभिसंवन्धादनुरुन्ध्याद, त्र्यहमिति पितुस्न्यहनियम इति व्यवस्था न्याय्या । शावाशौचेऽपि दशाहादीनां व्यवस्था च न्याय्येति । यत्पुनरुक्तम् ' उपस्पृश्य पिता शुचिः; इति तदग्निहोत्राथै नतु व्यवहारार्थम् । तेन सूतकाशौचे पक्षत्रयस्याश्रवणात्तत्र नैवं व्यवस्था युक्तेति । शावे पुनर्वृत्ताद्यपेक्षया प्रातिस्विकैव शुद्धिरिति । नित्यानि स्मार्तानि कर्माणि निवर्तेरन् । वैतानान्यग्निहोत्रादीनि वर्जयित्वा । एके आचार्याः शालाग्नौ कर्मनिवृत्तिमिच्छन्ति, एके नेति विकल्पः । यदा चानिवृत्तिस्तदाऽन्य एतानि कुर्युन स्वयम् । प्रेतस्पर्शिनः सपिण्डा ग्रामं न प्रविशेयुनक्षत्रदर्शनादाक् दिवामरणे । रात्रौ चेप्रेतः स्यात्तदादित्यस्य दर्शनार्वाक न प्रविशेयुः । इतरैरसपिण्डैस्तुल्यं प्रवेशनादि भवति । पक्षं द्वौ पक्षौ वेति प्रेतस्पर्शिनामाशौचमिति केचित् । तन्न । नहि प्रेतस्पर्शनमात्रेणैवेयन्तं कालमाशौचस्य युक्तत्वम् । तस्माद्वर्णान्तरविषयमेवैतत् । पक्षं वैश्यस्य । द्वौ पक्षौ शूद्रस्य । वाशब्दात द्वादशान्यहानि क्षत्रियस्य । शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यतीति वचनात् । आचार्य च प्रेते एवमेवोदकदानादि कर्म भवति । मातामहीमातामहयोश्च चकारादेवमेव । स्त्रीणां चादत्तानामेवमेवेतिकर्तव्यता भवति । प्रत्तानामितरे येभ्यो दत्तास्ते कुरिन् । ता अपि तेपां कुर्वीरन् । अथ यदि प्रोषितः प्रेयान्नियेत तदा तच्छ्रवणकालप्रभृति कृतोदकाः सन्त आशौचकालशेपमाशौचविधानेनासीरन् । आशौचकालोऽतीतश्चेदेकरानं त्रिरात्रम् । वाशब्दात्सद्यःशौचमपि । अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् । संवत्सरे व्यतीते तु स्पष्दैवापो विशुद्ध्यतीति वचनात् । एकरात्रं तु-अयने समतिक्रान्ते त्वेकाहाच्छुद्धिरिष्यत इति स्मृत्यन्तरात् । ऋत्विगादीनामिच्छयोदकदानम् । प्रत्तानां च स्त्रीणामिच्छयैव । एकादश्यामेकादशेऽहनि अयुग्मान् त्रिप्रभृतीन् ब्राह्मणान्भोजयेदिति श्राद्धोपलक्षणम् । तच्च श्राद्धं मांसवत्कार्यम् । मांसं च प्रेतोद्देशेनैके आचार्या गां नन्ति आलभन्ते प्रेतोद्देशवचनात्तदीयम् । शाखापशुरयम् । तमालभ्य तन्मासेन श्राद्धं कुर्वीत । तच्चोपरिष्टावक्ष्यति नद्यन्तरे नावं कारयेन्नवेति । एतदेव पिण्डकरणमापतितम् । तत्र च पितृणां प्रथमः प्रेतो भवति तत्प्रभृति दानम् । स यदि पुरवान्भवति तदा अधिकतविषयमेतत् । अधिकृतपुत्रेण पुत्रवत्त्वम् । एतदधिकारश्चाग्निमत्त्वे सति भवति । तेनाग्निमतः पुत्रस्य पार्वणमेव । तच्च सपिण्डीकरणानन्तरम् । एकोद्दिष्टं वनधिकृतविषयमिति । सपिण्डीकरणे च कृते पितृप्रभृतित्रिभ्यो दानं चतुर्थस्य तु निवृत्तिः । त्रिपु पिण्डः प्रवर्तत इति स्मृतेः । संवत्सरमेके आचार्याः पृथगेकस्यैव पिण्डदानमिच्छन्ति । कुत एतत् । यतः संवत्सरे सपिण्डीकरणं स्मयते, न