________________
३६६
पारस्करगृह्यसूत्रम्।
[दशमी वाग्दानम् । तथा-अप्रौढायां तु कन्यायां सद्यः शौचं विधीयत इति । अप्रौढा चात्राकृतचूडोच्यते। तथा अहस्त्वदत्तकन्यास्विति । एतदुक्तं भवति-अकृतचूडासु स्त्रीषु सद्यः शौचम् । चूडाकरणादूर्व वाग्दानात्प्रागेकाहः । तत उपरि विवाहात्माकू त्रिरात्रमिति । एतच्च वयोवस्थाविशेषेण सर्वव
साधारणमवसेयम् । नचान वर्णविशेषोऽवसातुं शक्यत इति । ऊनद्विवार्षिकस्य शरीरमदग्ध्वा निखनन्तीति गृह्यकारमतम् । मनुना तु विकल्पेन दाहोऽभिहितः । तेनात्रापि विकल्पोऽवसेय इति । अन्नाशौचशब्देन वर्णाश्रमविहितकर्मानुष्ठानसंकोचावस्थोच्यते तत्रापि विशेषो वृत्तस्वाध्यायापेक्षवृतिसंकोचनिमित्तो व्याख्यास्यते । अन्तःसूतके सूतकमध्ये चेत्सूतकान्तरमापद्येत तदा उत्थानान् आ पूर्वोत्यानपर्यन्तमशुद्धिः। पूर्वस्यैव सूतकाशौचस्योत्थानेनोत्तरस्यापि शुद्धिरित्यर्थः । आशौचं शाव सूतकवद् द्रष्टव्यम् । पूर्वशावशुद्धयोत्तरशावस्यापि शुद्धिरित्यर्थः । तथाह गौतमः--तच्चेदन्तः पुनरापतेत्तच्छेषेण शुध्येरनिति । तच्छन्देनात्र समानजातीयं गृह्यते । सूतकोपनिपाते नतु विजातीयेऽपि । वच्छन्दोपादानसामर्थ्यात् । शङ्खश्च-अथचेदन्तरा म्रियेत जायेत वा शिष्टैरेव दिनैः शुध्येताहशेपे सति द्वाभ्यां प्रभाते तिमृभिरिति । अपरे त्वन्यथा वर्णयन्ति । मरणस्योपक्रान्तत्वात् । अन्तः सूतके चेद्वालस्य मरणमापद्येत तदा आसूतकस्योत्थानादाशौचं सूतकवद्भवति । माभूदालत्वात्सद्यः शौचमिति । अत्र ऊनद्विव उदककर्म उदकदानं न भवति । उदकदानप्रतिषेधादाहोपि निरस्तः, संनियोगित्वात् । संनियोगो ह्यनयोः स्मृत्यन्तरेऽभिहितः-नास्य कार्योऽग्निसंस्कारो नापि कार्योदकक्रियेति । सर्व इति सर्वशन्दः सपिण्डविपयः । तेन ते सर्वेऽनुगच्छेयुः । श्मशानग्रहणादाहमपि च कुर्युः । यमगाथां छन्दोविशेषम् । यमसूक्तं तु प्रसिद्धमेव । यदि उपेतः उपनीतः प्रेतः स्यात्तदा भूमिजोषणादि आ उदकान्तस्य गमनात्सर्वमाहिताग्निविधानेन तुल्यं कार्यम् । शालाग्निना आवसथ्येन एनं प्रेतं दहन्ति यद्यसौ प्रेत आहितः कृतावसथ्याधानः । इतरमकृतावसथ्यं प्रामाग्निना लौकिकेनाग्निना तूष्णीं मन्त्रं विनैव दहन्ति । संयुक्तः संवन्धादिना । मिथुनस्यैकदेशलक्षणया मिथुनशब्दवाच्यायाः पत्न्याः भ्राता श्यालक इत्यर्थः । तं वा उदकम् उदकदानाज्ञां प्रार्थयेरन् । उदकं करिष्यामह इतिमन्त्रेण । पृष्टप्रतिवचनं कुरुध्वं मा चैवं पुनरिति । इतरः शतवर्षप्रभृतिकः तस्मिन्प्रेते कुरुष्वमित्येव प्रतिवचनम् । ज्ञातयः सपिण्डा आसप्तमात्पुरुषात् समानोदकाश्चादशमात्ते सर्व एव अपोऽभ्यवयन्ति जलं प्रविशन्ति । समानग्रामे एकत्र वासे यावत्संवन्धः स्मर्यते अमुस्मिन् वयं संवध्यामह इति तावन्तोऽपोऽभ्यवेयुः । अपनः शोशुचघमित्यघापनोदनमन्त्रः । असावेतत्त इति मन्त्रेण जलाखलिदानम् । असौस्थाने प्रेतनामादेशः । उदकादुत्तीर्णान् सतः शावलं हरिततृणं तद्वति प्रदेशे उपविष्टानपरे लोकयात्रिका अपवदेयुः प्रेतगुणानुख्यापनेन तच्छोकमपाकुर्युः । अनवेक्षमाणाः पश्चादनवलोकयन्तः । रीतीभूताः पतिव्यवस्थाः कनिष्टमग्रतः कृत्वा ग्राममागच्छन्ति । निवेशनं गृहं तस्य द्वारि पिचुमन्दस्य निम्बस्य पत्राणि विदश्य दन्तैः खण्डयित्वाऽऽचम्योदकादीन्यालभ्याश्मानमाक्रम्य गृहं प्रविशन्ति । त्रिरात्रं ब्रह्मचारिणो भवन्ति । अधः आस्तृतभूशायिनश्च । नच किंचित्कर्म स्वयं कुर्वन्ति, नचान्यान्प्रकुर्वन्ति, कारयन्तीत्यर्थः । दिवाग्रणं त्रिरात्रप्रतिषेधार्थम् । पिण्डदानं चावनेजनदानप्रत्यवनेजनेषु नामग्राहं नाम गृहीत्वेत्यर्थः । भोजनं च पिण्डदानसमनन्तरम् । मृन्मये पात्रे तामेकां रात्रि क्षीरोदके व्यवहिते निधाय तत्पात्रमाकाशे स्थापयेयुः प्रेतात्र नाहीत्येतावता मन्त्रेण । त्रिरात्रमित्यादावेकरात्रमपीच्छन्ति एके । दशाहं शावमाशौचं सपिण्डेपु विधीयते । अर्वाक संचयनादस्यां व्यहमेकाहमेव चेति स्मृतेः । एतच्चोपनयनप्रभृति द्रष्टव्यम् । वयोवस्थाविशेषेण हि पूर्वममिहितम् । व्यवस्थया च विकल्पोऽयं वृत्तस्वाध्यायापेक्ष: । वृत्तनिमित्तानि चाध्ययनतदर्थज्ञानानुष्टानानि । तत्रैकगुणसंयोगेऽर्वाक् संचयनाशाहमाशौचम् । गुणद्वययोगे व्यहम् । गुणत्रययोगे एकाह