________________
कण्डिका ]
तृतीयकाण्डम् । प्रेतस्य पृथक् पिण्डदानमिच्छन्त्येके । एवं च संवत्सरे सपिण्डीकरणस्मृतिरनुगृहीता भवति । एवं प्राप्त आह 'न्यायस्तु ' तु शब्दः पक्षव्यावृत्ती, नैतदेवम् । संवत्सरं यावत्पृथग्दानमिति, येन संवत्सरस्मृत्यनुग्रहन्यायेनैतत्परिकल्प्यते तत्र विरोधः । नच श्रुतिविरोधे न्यायो युक्तः । 'न चतु: "ति' हि श्रुतिविरोधः । पृथक्त्वे क्रियमाणे चतुणी पिण्डनिर्वपणाधिकारो भवति पृथक् प्रेतस्यामावास्यायां चाधिकृतस्य पार्वणमिति श्रुतिविरोधः । तेनाधिकृतपुत्रस्यैकोद्दिष्टं न भवत्येव । अनधिकृतस्य तु संवत्सरादूर्ध्वमेकोहिष्टम् । 'अह' - 'द्यात् । संवत्सरं द्विजे । एतदेव च तस्य भवति । न पिण्डनिर्वपणमिति । त्रिभ्यो दानप्रसङ्गात् । यच्च प्रेतस्य स्मर्यते-मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि । एतच सपिण्डीकरणामागेकोद्दिष्टम् । ऊर्ध्वञ्च पार्वणमिति । यथा च मनुः-असपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु । अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तुं निर्वपेदिति । यावत्सपिण्डता न क्रियते तावदेव तत्कर्म । तथा चाह-सहपिण्डक्रियायां तु कृतायामस्य धर्मतः । अनयैवावृता कार्य पिण्डनिर्वपणं सुतैरिति । सपिण्डक्रियोत्तरकालमनयैव सहपिण्डक्रियया कार्यम् पिण्डनिर्वपणं सुतैः । केचित्त्वधस्तनश्लोकोपात्तमावृतमनथैवावृत्तेति अनेनानुवर्तयन्ति । तत्पुनरनुपपन्नार्थमुपरितनश्लोकारम्भसामर्थ्यात् । अनारव्धेऽपि हि तस्मिन्नेकोद्दिष्टं लभ्यत एव द्विजातेः संस्थितस्य अदैवंभोजयेच्छ्राद्धमित्यनेन । अधस्तनश्लोके च विशेषणार्थ वाक्यप्रसङ्गः। असपिण्डक्रियाकर्मेति । द्विजातेः संस्थितस्येत्येवमादिनैव पादत्रयेणार्थस्य सिद्धत्वात् । यत्पुनरुच्यते अतऊ वर्षे वर्षे प्रेतायान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यादित्येकत्वविशिष्टस्याभिधानादेकत्वविशिष्टस्यैव दानमिति ! तन्न । नपत्रैकत्वमुपादीयमानविशेषणं येन विवक्षितप्रेतोद्देशेन दानविधानम् । तस्मादविवकत्वस्य, यथा स्मृत्यन्तरेऽभिहितं तथैव देयमिति ! प्रेतायोद्दिश्य गामध्येके नन्तीति शाखापश्वभिधानम् । तेन प्रसङ्गेन यावन्तोऽया पश्वादयस्तत्कर्मव्याचिख्यासया इमभिधीयते॥१०॥
(जयरामः)-'अथोदककर्म' वक्ष्यत इति सूत्रशेषः । उदककर्मग्रहणं चाशौचादियमनियमोपलक्षणार्थम् । अद्विवर्षे ऊनद्विवर्षे प्रेते मृते मातापित्रोरेकरात्रं त्रिरात्रं वा, एतत्तु गृह्यकारमतम् । स्मृत्यन्तरेतु सर्वसपिण्डविषयत्वेनाभिहितम् । तद्यथा-ऊनद्विवार्षिकं प्रेतं निदध्युन्धिवा वहिः । अलंकृत्य शुचौ भूमावस्थिसञ्चयनाहते । नास्य कार्योऽग्निसंस्कारोनापि कार्योदकक्रिया । अरण्ये काष्ठवत्यक्त्वा क्षपेयुखहमेव त्विति । अस्थिसंचयनाभावोऽनुवाद एव । नहि खनने तत्संभवः । अपिच संचयनं वैतानिकस्यैव विहितं नत्वन्यस्य । उपदेशातिदेशयोरभावात् । एकरात्रादिविधानमपि अकृतकृतचूलत्वेन व्यवस्थापनीयम् । नृणामकृतचूलानामशुद्धिनैंशिकी स्मृता । निर्वृत्तचूलकानां तु त्रिरात्राच्छुद्धिरिष्यते, इति वचनात् । तथा दन्तजननमप्यवधित्वेनाभिहितम्-दन्तजातेऽनुजाते च कृतचूडे च संस्थिते । अशुद्धा वान्धवाः सर्वे सूतके च तथोच्यत इति वचनात् । एवं च सति प्राग्दन्तजननान्नैशिक्यशुद्धिः ऊर्ध्वं तु त्रिरात्रमपि । अन्यदपि सद्यःशौचमानातम् । वाले प्रेते च संन्यस्ते सद्यः शौचं विधीयत इति । एतत्प्राङ् नामकरणाद् द्रष्टव्यम् । यतः । नात्रिवर्षस्य कर्तव्या वान्धवैरुदकक्रिया । जातदन्तस्य वा कार्या नाम्नि वाऽपि कृते सतीति नामकरणमवधित्वेनाभिहितम् । अतो नामकरणाग्राक् सद्यः शौचम् । तत ऊर्व दन्तजननात्प्राङ् नैशिक्यशुद्धिः । तत ऊर्ध्वं प्रागुपनयनात्रिरात्रम् । अत्रच कृतचूडस्यापि प्रागुपनयनात्रिरात्रमेव । तर्हि किमर्थ द्वित्रिरात्रग्रहणं कृतचूडस्याद्विवार्षिकस्य चेति । तत्राह-यदूनद्विवार्षिकस्य त्रिरात्रग्रहणं तदग्निदाहोदकदानयोर्विकल्पेन । ऊर्ध्वं तु नियमेनेति । कुत एतत् । येनैवं वक्ष्यति द्विवर्पप्रभृतिप्रेतमाश्मशानात्सर्वेऽनुगच्छेयुरिति । एतच्च पुरुषविषयम् , स्त्रीविषयस्यान्यवचनान्तरस्य सद्भावात् । तदाह-स्त्रीणामसंस्कृतानां तु व्यहाच्छुप्यन्ति वान्धवाः । यथोक्तेनैव कल्पेन शुष्यन्ति तु सनाभय इति । संस्कारश्चात्र