________________
पारस्करगृह्यसूत्रम्
[ दशमी म्यान्मातापित्रोस्तु सूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिरिति । अपरे दशाहस्यैवातिदेशो न चतुरहव्यहैकाहानाम् । कुत एतत् । संचयनकल्पन व्यवधानात, अपिच सर्वकल्पातिदेशे सति मातुरप्येकाहेन शुद्धिः प्राप्नोति । तञ्च नेष्यते । येन पितुम्यहमागौचविधानं वैजिकादभिसंवन्धादनुरुन्ध्यादधं व्यहमित्यनेन पितुरभ्यहेन शुद्धिर्मातुश्चैकाहेनेति विरोधः । कयं-रजस्तत्राशुचि नेयं तच्च पुंसि न विद्यत इति । तस्मादपि शाहस्यैवातिदेशः । गावं चानपेक्ष्यैवमेव स्यादिति, एवंसति जननेऽप्येवमेव स्यादिति सपिण्डानां दशाहः । मातापित्रोश्च सूतकमित्यनेन मातापित्रोदेगाहः । सूतकं मातुरेव स्यादित्यनेन मातुरेव दशाहः । अत्र पक्षत्रितये व्यवस्था युक्तरूपा भवति । सपिण्डानां निर्गुणत्वेन दशाहः वृत्तवत्त्वे पुनः सति मातापित्रोरेव दशाहः । वृत्तवत्वं मातुरेव दशाहो भवति । अस्मिंच पक्षे वैजिकादभिसंबन्धादित्यनेन पितुस्व्यहनियम इति व्यवस्था न्याय्या । शावागौचेऽपि दशाहादीनां व्यवस्थैव न्याय्येति । यत्पुनरुक्तम्-उपस्पृश्य पिता शुधिरिति तटाचेतसो वचनादग्निहोत्रार्यमेव न संव्यवहारार्थम् । तेन सूतकाशौच पक्षत्रयश्रवणात्तत्र नैवं व्यवस्था युक्तेति । शावे पुनर्वृत्तापेक्षया प्रातिस्विकैत्र शुद्धिरिति । 'नित्या वर्जम्' नित्यानि कर्माणि निवर्तन्ते वैतानिकानि वर्जयित्वा । वैतानिकानि अग्निहोत्रादीनि । ' शालाग्नौ चैके । एके आचार्याः शालाग्निकानां निवृत्तिमिच्छन्ति । एके नेति । यदा चानिवृत्तिस्तदान्य एतानि कुर्युन स्वयमिति । 'प्रेत "नात् 'प्रेतस्पर्शिनः सपिण्डाः ग्रामं न प्रविशन्ति नक्षत्रदर्शनादर्वाच । 'रात्रौ' 'त्यस्य' रात्रौ चेत्येतः स्यात् आदित्यदर्शनादाक् न प्रविशेयुः । ' प्रवे'"मितरैः । सपिण्डैः प्रवेशनादि तुल्यं भवति । 'पर्ख 'चम्' प्रेतस्पर्शिनामिति केचित् । तत्पुनरनुपपन्नम् नहि प्रेतस्पर्शनमात्रेणेयन्तं कालमाशौचं युक्तम् । तस्माद्वर्णान्तरविषयमेवैतत् । पक्षं वैश्यस्य द्वौ शहस्य वाशब्दाद् द्वादशाहानि क्षत्रियस्य । तथाच स्मृत्यन्तरम्-शुध्येद्विप्रो दशाहेन द्वादशाहेन क्षत्रियः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति । 'आचार्ये चैवम् आचार्ये प्रेते एवमेवोदकदानादि कर्तव्यम् । 'मातामहयोश्च' चशब्दादेवमेवेति । द्विवचनं मातामापेक्षया । 'स्त्रीणां "नाम्' एपैवेतिकर्तव्यता कार्या। 'प्रत्ता''पामिति' इतरगन्देन येभ्यः प्रत्तास्ते उच्यन्ते ता अपि च तेषां कुर्वन्ति । 'प्रोपि "मिसीरन्' अथ यदि प्रोपितश्चेत्मेयात् अवणकालप्रभृति कृतोदकाः सन्तः आशौचकालोपमासीरन् । 'अती'त्रं वा' आशौचकालातिक्रमणे सति एकरात्रं त्रिरात्रं वा । तथाच स्मृत्यन्तरम्--अतिकान्ते दगाहे तु त्रिरात्रमशुचिर्भवेत् । संवत्सरे व्यतीते तुस्पृष्ट्वैवापो विशुध्यति । एकरात्रं तुस्मृत्यन्तरात् अन्यापिस्मृतिः-संवत्सरे व्यतीते तु स्पृष्दैवापो विशुध्यति । 'अथका "यानाम् एषामिच्छयोदकदानम् 'प्रत्तानां च ' स्त्रीणामिच्छयेति । एका नन्ति' एकादशेऽहनि अयुग्मान् ब्राह्मणान् भोजयिवेति श्राद्धमभिधीयते । तच्च मांसवत् कार्यम् । मांसं च प्रेतायोद्दिश्य । गामप्येके नन्ति । एके आचार्याः प्रेतोद्देशेन गां मारयन्ति । प्रेतोद्देशवचनात् शाखापशुरयम् । तमालभ्य तन्मांसेन आद्धं कुर्वन्ति । तचोपरिष्टाद्वक्ष्यति । नद्यन्तरे नावं कारयेन्नवेति । पिण्डः श्वेत् । एतदेव पिण्डकरणमापतितम् । अत्रच पितृणां प्रथमः प्रेतो भवति तत्प्रभृति तहानमित्यर्थः । स यदि पुत्रवान्भवति ततस्तत्प्रभृति दानमधिकृतविपयमिति । अधिकृतपुत्रेण च पुत्रवत्वं, एतदधिकारश्चाग्निमत्त्वे सति, तेनाग्निमतः पुत्रस्य पार्वणमेव भवति । तच्च सपिण्डीकरणानन्तरम् । एकोद्दिष्टं वनविकृतविषयमिति । सपिण्डीकरणे च पितृप्रभृतित्रिभ्यो दानम् । 'निव'''तुर्थः । चतुर्थस्य निवृत्तिः । त्रिपु पिण्डः प्रवर्तते इति श्रुतेः । 'संव "गेके' एके आचार्याः संवत्सरं पृथगेकस्यैव पिण्डदानमिच्छन्ति । किंकारणंम् ? येन संवत्सरे सपिण्डीकरणमिति स्मयते । नचासपिण्डीकृतस्येतरैः सह दानं युज्यते । अन्वर्थसंज्ञा पा सपिण्डीकरणमिति । सहपिण्डक्रिया सपिण्डीकरणम् । तेन संवत्सरं यावत्पितुः