________________
३६३
fusar ]
तृतीयकाण्डम् |
1
शुध्यन्ति तु सनाभय इति । तथा । अप्रौढायां तु कन्यायां सद्यः शौचं विधीयते । अप्रौढा चाकृतचूडोच्यते । तथा अहस्त्वदत्तकन्यास्विति वयोवस्थाविशेषेण च सर्ववर्णविषयमाशौचम् । नात्र वर्णविशेषोऽवस्थातुं शक्यते इति । ' शरीनन्ति ' ऊनद्विवार्षिकं प्रेतम् । गृह्णकारमतमेतत् । मानवे तु विकल्पेन दाहोऽपि भवतीत्युक्तमेव । 'अन्तः वत्' अन्तः सूतके चेदिति । अन्तः सूतके चेत्पुनः सूतकमापद्यते । आ उत्थानादशुद्धिः पूर्वस्यैव सूतकाशौचस्य उत्थानेनोत्तरस्य शुद्धिः । अन्तःशावाशौचं च सूतकवद् द्रष्टव्यम् । यदुक्तं भवति — अन्तःशावाशौचे चेत् शावाशौचान्तरमापतति तस्यापि पूर्वेणैव शुद्धिः । तथाच गौतमाचार्यः । तचेदन्तः पुनरापतेत शेषेण शुध्येरन्निति । तच्छन्देन च समानजातीयग्रहणात्सूतकोपनिपाते, नतु विजातीये । तच्छन्दोपादानसामर्थ्यात् । शङ्खोऽपि चाह अथ चेदन्तरा म्रियेत जायेत वा शिष्टैरेव दिवसैः शुद्धयेत । अहः शेषे सति द्वाभ्यां प्रभाते तिसृभिरिति वर्णयन्ति । मरणस्योपक्रान्तत्वात् अन्तः सूतके चेद्वालस्य मरणमापद्येत । आ उत्थानादाशौचं सूतकवद्भवति माभूद्वालत्वात्सद्यः शौचमिति । ' नात्रोदककर्म : अत्रशब्देन ऊनद्विवार्षिकस्य ग्रहणम् । तस्योदककर्म न भवति । उदकदानप्रतिषेधाच्च दाहोऽपि न भवति । संनियोगो ह्यनयोः स्मृत्यन्तरेऽपि । नास्य कार्योऽग्निसंस्कारो नापि कार्योदकक्रियेति । ' द्विवच्छेयुः सर्वशब्दः सपिण्डविषयः सर्वेऽनुगच्छेयुरिति । 'यम'' "त्येके ' गाथा छन्दोविशेषः । यमसूकं तु प्रसिद्धमेव । ' यद्यु नातू ' यद्युपनीतः प्रेतो भवति ततो भूमिजोपणाद्याहिताग्निविधानेन तुल्यमा न्तस्य गमनात् । ' शाला चेत् ' एनं प्रेतं शालाग्निनाऽऽवसथ्येन दहन्ति यद्यसावाहितः । 'तूष्णीं 'रम् ' इतरमकृतावसथ्यं ग्रामाग्निना तूष्णीं दहन्ति । तूष्णीमिति च मन्त्रनिवृत्त्यर्थम् । ' संयु.'मह इति ' संयुक्तः प्रसिद्ध एव । मैथुनस्यैकदेशे श्यालके प्रसिद्धः । तमुदकं याचन्ते उदकं करिष्यामह इत्यनेन मन्त्रेण । 'कुरु प्रेते ' पृष्टः प्रतिवचनं कुरुध्वं माचैवं पुनरित्यशतवर्षे प्रेते । कुरुध्वमेवेतरस्मिन् । शतवर्षप्रभृति कुरुध्वमिति प्रतिवचनम् । 'सर्वे 'माद्वा ' ज्ञातयः । सपिण्डाः " समानोदकाच सर्व एवापोऽभ्यवयन्ति । 'समारेयुः ' समानग्रामवासे तु यावदपि संबन्धः स्मर्यते अमुष्मिन्नन्वये संबध्यामह इति तावन्तोऽभ्यवेयुः । ' एक 'ज्जन्ति ' तूष्णीमेव, अपनोदने मन्त्रः । " प्रेता'' 'कमिति ' असावेतत्त इत्यनेन मन्त्रेण । 'उत्ती देयुः उदकादुत्तीर्णान्सतः शाङ्खवति प्रदेशे उपविष्टानपवदेयुरन्ये लोकयात्रिकाः । प्रेतगुणव्याख्यानेनापवादः । ' अन 'पूर्वाः ' पश्चादनवलो - कयन्तः पङ्क्तिव्यवस्थानेन कनिष्ठमग्रतः कृत्वा ग्राममागच्छन्ति । ' निवे 'शन्ति ' निवेशनस्य गृहफकिस्य द्वारे पिचुमन्दस्य निम्बस्य पत्राणि विदश्य दन्तैः खण्डयित्वा तत आचम्य उदकादीन्यालभ्याश्मानमाक्रम्य प्रविशन्ति । ' त्रिरा र्वन्ति ' न कारयन्तीत्यर्थः । ' क्रीत्वा ग्राहम् ' दिवाग्रहणं रात्रिप्रतिषेधार्थम्, त्रिरात्रमयं धर्मः, अवनेजनदानप्रत्यवनेजनेपु नामग्राहं गृहीत्वा नामेत्यर्थः
उढ़का
1
मांसं पिण्डं दत्त्वा ततो भोजनम् । 'मृन्म'' 'स्नाहीति' मृन्मये पात्रे तामेवैकां रात्रीं क्षीरोदके कृत्वा विहायसि आकाशे निदध्युः प्रेतात्र स्त्राहीत्यनेन मन्त्रेण । 'त्रिरात्री 'मेके' एके च दशरात्रमेक च 'त्रिरात्रमेके च एकरात्रं शावाशौचमिच्छन्ति । एवं हि स्मृत्यन्तरे । दशाहं शावमाशौचं सपिण्डेषु विधीयते । अर्वाक् संचयनादस्थां त्र्यहमेकाहमेव वा । एतच्चोपनयनप्रभृतिषु द्रष्टव्यम् । पूर्वं हि वयोवस्थाविशेषेणाभिहितम् । व्यवस्थया च विकल्पोऽयं वृत्तस्वाध्यायापेक्षया । वृत्तनिमित्तानि चाध्यापनतदर्थज्ञानानुष्ठानानि । तत्रैकगुणसंयोगेऽर्वाक् संचयनादाशौचम् । गुणद्वययोगात्र्यहः । गुणत्रययोगे एकाह इति । अपरे एकीयशब्दात्सद्यः शौचमिच्छन्ति, यदा गुणत्रययोगो भवति वृत्तिसंater त्र्यकाहिको वेति तदा सद्यः शौचं भवति स्मृत्यन्तरात् । 'न स्वारन् ' येषां यावादाशौचम् । प्रातिस्त्रिकाचैतेऽशौचकल्पाः न सूतकाशौचवत्सर्वेषां सहेति । तत्र हि जननेऽप्येवमेव