________________
३६२ पारस्करगृह्यसूत्रम् ।
[ दशमी अन्य एतानि कुर्युः ॥ ३४ ॥ प्रेतस्पर्शिनो ग्रामं न प्रविशेयुरानक्षत्रदर्शनात् ॥ ३५ ॥ रात्रौ चेदादित्यस्य ॥ ३६ ॥ प्रवेशनादि समानमितरैः ॥ ३७ ॥ पक्षं द्वौ वाऽऽशौचम् ॥ ३८ ॥ आचार्ये चैवम् ॥ ३९ ॥ मातामहयोश्च ॥ ४० ॥ स्त्रीणां चाप्रत्तानाम् ॥ ४१ ॥ प्रत्तानामितरे कुर्वीरन् ॥ ४२ ॥ ताश्च तेषाम् ॥ ४३ ॥ प्रोषितश्वेप्रेयाच्छ्रवणप्रभृति कृतोदकाः कालशेषमासीरन् ॥ ४४ ॥ अतीतश्चेदेकरात्रं त्रिरात्रं वा ॥ ४५ ॥ अथ कामोदकान्यविश्वशुरसखिसंबन्धिमातुलभागिनेयानाम् ॥ ४६॥ प्रत्तानां च ॥ ४७ ॥ एकादश्यामयुग्मान्ब्राह्मणान्भोजयित्वा मासवत् ॥ ४८ ॥ प्रेतायोद्दिश्य गामप्येके नन्ति ॥ ४९ ॥ पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात्पुत्रवांश्चेत् ॥ ५० ॥ निवर्तेत चतुर्थः ॥ ५१ ॥ संवत्सरं पृथगेके ॥ ५२ ॥ न्यायस्तु न चतुर्थः पिण्डो भवतीति श्रुतेः ॥ ५३ ॥ अहरहरन्नमस्मै ब्राह्मणायोदकुम्भं च दद्यात् ॥ ५४ ॥ पिण्डमप्येके निपुणन्ति ॥ ५५ ॥ ॥१०॥
(कर्कः)- अथोदककर्म ' व्याख्यास्यत इति सूत्रशेपः । उदककर्मग्रहणेन च आशौचादियमनियमयोरुपलक्षणम् । सर्वमेतत्र व्याख्यास्यत इति । अद्वि' 'रात्रं वा । नेतरेां सपिण्डानामिति गृह्यकारमतमेतत् । स्मृत्यन्तरे तु सर्वसपिण्डविषयत्वेनैव तदभिहितम् । ऊनद्विवार्षिक प्रेतं नियुर्वान्धवा वहिः । अलंकृत्य शुचौ भूमावस्थिसञ्चयनादृते । नास्य कार्योऽग्निसंस्कारो नापि कार्योदकक्रिया । अरण्ये काष्टवत्त्यक्त्वा क्षपेयुरुयहमेव तु । एतत्तु सर्वसपिण्डविषयत्वेनाभिहितम् । ते ह्याशौचाहा॑ इति । अस्थिसञ्चयनाभावानुवाद एव , नहि निखनने सति तत्संभवति, अपिच संचयनं वैतानिकस्यैव विहितम् , तेनेतरस्य उपदेशातिदेशयोरभावादप्राप्तिरेव । तत्रैकरात्रविधानमपि । नृणामकृतचूडानामशुद्धिनेंशिकी स्मृता । निर्वृत्तचूडकाना तु त्रिरात्राच्छुद्धिरिष्यते । वयोवस्थाविशेपेण चैतद् व्यवस्थानं द्रष्टव्यम् । तथाचाह-दन्तजातेऽनुजाते च कृतचूडे च संस्थिते । अशुद्धा वान्धवाः सर्वे सूतके च तथोच्यते । दन्तजननमवधित्वेन धर्म सूत्रकार आह । एवञ्च सति प्रार दन्तजातान्नैशिक्यशुद्धिः उर्वं तु त्रिरात्रमिति । अन्यदपि सद्यःशौचमानातम् । वाले प्रेते च संन्यासे सद्यःशौचं विधीयत इति । एतच्च प्राड्नामकरणाद् द्रष्टव्यम् । नामकरणं हवधित्वेन दर्शयति । नात्रिवर्षस्य कर्तव्या वान्धवैरुदकक्रिया। जातदन्तस्य वा कुर्युनानि वाऽपि कृते सतीति नामकरणमवधित्वेनाभिहितम् । अतस्ततः प्राक् सद्यः शौचम् । दन्तजननात्याक् नैशिक्यशुद्धिः ऊ तु त्रिरात्रमिति । कृतचूडस्यापि प्रागुपनयनात् त्रिरात्रम् । तत्किमथै द्वित्रिरात्रग्रहणं ? कृतचूडस्य ऊनद्विवापिकस्य च । यदूनद्विवार्पिकस्य त्रिरात्रग्रहणं तदग्निदाहोदकदानयोर्विकल्पेन । ऊर्ध्वं तु नियम इति । कुत एतदिति चेत् । येनैवमाह । द्विवर्पप्रभृतिप्रेतमाश्मशानात्सर्वेऽनुगच्छेयुरिति । एतच्च पुंविषयम् । येन स्त्रीविषयमन्यद्ववचनान्तरम् ।खीणामसंस्कृतानां तु व्यहाच्छुध्यन्ति वान्धवाः । यथोक्तेनैव कल्पेन