________________
फण्डिका] तृतीयकाण्डम् ।
३७९ यश्चितं न कारयति न वा करोति तदा उभावपि नरकं गच्छतः । एवमूर्ध्वाधरान्यतरोच्छिष्टोभयोच्छिष्टास्नातास्पृश्यास्पृष्टस्रस्तरखवादौ मरणे शक्तिदोपानुरूपप्रायश्चित्ताचरणम् । अकृतप्रायश्चित्तस्य कृतमप्यन्तरिक्षे नश्यति ॥ ॥ प्रयोगः । अमुकदुर्मरणजनितदोपनिवृत्त्यर्थ दाहालदेहिकयोग्यतालाभायामुकप्रायश्चित्ताचरणं करिष्ये इति । तत: आवसथ्यं स्थाल्यां कृत्वा प्रेतस्य शिरःप्रदेशनिकटे स्थापयेत् । तत: मरणस्थाने प्रेतायैकोद्दिष्टविधिना पिण्डदानम् । ब्राह्मणाभावे दर्भवटुं स्थाप्य पादौ प्रक्षाल्य तूष्णीं प्राणानायम्याऽपसव्यं कृत्वाऽद्यामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थ दाहादियोग्यताप्रात्यथै मरणस्थाने एकोद्दिष्टविधिना श्राद्धमहं करिष्य इति संकल्प्य, ततो नीवीवन्धनं द्वारदेशे च दिक्षु व कुशतिलप्रक्षेपः । दुष्पष्टिनिपातादिदूपितः श्राद्धोपहारः पूतो भवत्वित्युपहारप्रोक्षणं कुर्यात् । गोत्रप्रेतैतत्ते आसनमित्यासनदानम् आचमनम् । आमान्नं सघृतं गोत्रप्रेत ते उपतिष्ठतामित्यामान्नसंकल्पः । अद्येत्यादि अमुकप्रेतम्य प्रेतत्वनिवृत्त्यर्थस्याऽस्य श्राद्धस्यैकोद्दिष्टविधेर्यत्कृतमित्यादिपृच्छा । ततः पिण्डदानम् । समूलान्दक्षिणाग्रान्दर्भानास्तीर्यगोत्र प्रेतैतत्तइतिपिण्डदानम् सूत्रदानम्। ततस्तूष्णीमुदकं वटौ विप्रकरे वा दत्वाऽमुकसगोत्रामुकप्रेत दत्तं श्राद्धं ते उपतिष्ठतामित्यक्षय्योदकं दद्यात् । ततः सव्यं कृत्वा दक्षिणादानं मापानजलसंयुक्तकुंभदानं च । अयं कुम्भो मापान्नजलसहितः गोत्र प्रेत ते उपतिष्टतामिति । पिण्डचालनम् । अस्योत्क्रान्तिश्राद्धस्य यन्यूनं यदतिरिक्तं तत्सर्व विष्णोः प्रसादात्परिपूर्णम् । अनेन श्राद्धेन गोत्रस्य प्रेतस्य प्रेतत्वनिवृत्तिः । दाहादियोग्यताप्राप्तिः । वटुविसर्गः । श्राद्धानन्तरं शवनाम्ना मृतस्थाने पिण्डदानम् । अमुकगोत्रामुकशव एतत्त इतिप्रयोगः । मापानसहितकुम्भदानम् । ततः द्वारदेशे पूर्ववच्छ्राद्धमेकोहिष्टविधिना । आद्धानन्तरं पान्थनाना पिण्डदानम् । पान्थ एतत्त इति । समाप्य कुम्भदानं च । ततः शकटादिना नीयमानं प्रेत सर्वे सपिण्डाः अनुगच्छेयुर्यमगायां गायन्तो यमसूक्तं व चप्रसिद्ध जपन्तः श्मशानपर्यन्तम् । ततश्चत्वरे प्रेतनाम्ना पिण्डदानम् । समाषसजलकुम्भदानम् । ततः प्रामश्मशानयोरर्धमार्गे पूर्ववच्छ्राद्धम् । श्राद्धानन्तरं तत्रैव पुनर्भूतनाम्ना पिण्डदानम् । भूत एतत्त इति प्रयोगः । समाषकुम्भदानं च । धनिष्ठादि-, पञ्चकमरणे पञ्चरत्नानि मुखे मुक्त्वा वहवपामित्याहुतिद्वयं दत्त्वा दाहः । रत्नपञ्चकं-वत्रमौक्तिकवैडूर्यपुष्परागेन्द्रनीलकमिति । गरुडपुराणे तु-दर्भमयपुत्तलकचतुष्टयं कृत्वा तैः यातेधामानिपरमाणीत्यादिशिक्षामन्त्राभिमन्त्रितैः सह दग्ध्वा सूतकान्ते पुत्रादिः शान्तिकं कुर्यात् । तत्र च तिलघृतहिरण्यभाजनोपानच्छत्रगवादेः प्रेतोदेशेन दानम् । ततो निर्हरणानन्तरं श्मशानभूमौ दक्षिणाशिरसं शवं स्थापयेत् । ततश्चितास्थाने पूर्ववदेकोद्दिष्टं कुम्भदानं च । ततः साधकनाना प्रेतनाम्ना वा पिण्डदानम् । कुम्भदानं च । तीर्थाभावे तीर्थानि ध्यायेत् । ततः प्रेतस्य केशमश्रुलोमानि छित्वा खनेत् । ततः चितास्थाने सकृत्सकृत्पञ्चभूसंस्कारान्कृत्वा ततः काष्ठादिचितिं संपाद्य तत्र दक्षिणाग्रीवमुत्तरलोमं कृष्णाजिनमारतीय तस्मिन् दक्षिणाशिरसमुत्तानं प्रेतं निधाय प्रेतसंवन्धिवस्त्रं द्विधा कृत्वैकेन प्रेतशरीरमाच्छाद्य द्वितीयं भूमौ स्मशानवास्यथै क्षिपेत् । ततः प्रेतस्य करे प्रेतनाम्नैव पिण्डदानं कुम्भदानं च । ततः प्रेतमाज्येनाभ्यज्य मुखे दक्षिणोत्तरनासिकाचक्षःश्रोत्रेषु च क्रमेण सप्तहिरण्यशकलानि क्षिपेत् । ततः पात्रप्रतिपत्तिः-सुचं मुखे, दक्षिणनासिकायां सुवः शिरसि चमसं प्रणीताप्रणयनं पार्श्वयोः शूर्पे वृपणयोररणी। प्रोक्षणीपात्रादीनामन्तरोरु प्रक्षेपः । चात्रौविलीकयोश्च । लोहानां मृण्मयानां च ब्राह्मणाय दानमप्सु वा प्रक्षेपः । ततः, कृत्वा सुदुष्कर कर्म जानता वायजानता । मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् । धर्माधर्मसमायुक्तं लोभमोहसमावृतम् । दहेयं सर्वगात्राणि दिव्याँल्लोकान्स गच्छतु । ततश्चन्दनपुष्पाक्षतैरग्नेः पूजनम् । तत्र मन्त्रः। त्वं भूतकृजगद्योने त्वं लोकपरिपालकः । उक्तसंस्कारकस्तस्मादेनं स्वर्गे मृतं नय । तत आवसथ्येन