________________
३८० पारस्करगृह्यसूत्रम्।
[दशमी चितेर्दक्षिणप्रदेशे आदीपनम् । ततो मृतस्य पुत्रो भ्राता वाऽन्यो वा ब्राह्मणः कृतावसथ्यः आवसथ्ये आज्यसंस्कारं कृत्वा सुवेणाऽस्मात्त्वमित्याहुतिं समिद्वजै जुहोति । सुवं दक्षिणनासिकायां निधाय स्पयं दक्षिणहस्ते स्थापयेत् । तत उदकपूर्ण कुम्भं स्कन्धे कृत्वा तेन प्रेतपादादारभ्याऽप्रदक्षिणां धारां दत्त्वा रोदनं कुर्यात् । सूतिका वा रजस्वला वा यदि प्रेतस्पर्श करोति तदोदकपूर्णे कुम्मे पञ्चगव्यं प्रक्षिप्यापोहिष्टा इत्यादिभिरभिमन्व्य ब्राह्मणानुज्ञया पञ्चदश प्राजापत्यान्कृत्वा तेनोदकुम्भेन शतकृत्वः नापयित्वा नव्येन वस्त्रेण संवेष्टय दहेत् । सूतिकामरणे रजस्वलामरणेऽप्येष एव विधिः । स्त्री चेत्सहगमनं कुर्यात्तदा संनिकृष्टमरणं स्वामिनं प्रति वदति । देवैः संपादितो मां पतिस्त्वं सर्वदैवतम् । त्वया सह गमिष्यामि भर्ता त्वं चामजन्मनि ॥ इति संकल्पः । स्नात्वा शक्त्या तिलधेन्वादिदानम् । कुश्माजनमुकुरायैरात्मानमलंकृत्य पायसमाचारतो मुजीत । वैधव्यता न कदापि भूयात्पत्या वियोगो न ममापि चास्तु । बन्ध्यात्वमेतन्न कदापि चास्तु दौर्भाग्यमेतन्न कदापि चास्तु । एवमुक्त्वा समस्तबन्धून् विसृज्य भर्तृगतान्तःकरणा स्वगृहमक्षतर्वीप्य कुङ्कुमाक्तहस्ताङ्कितद्वारं कृत्वा स्मशानं प्रति नीयमानं स्वामिनमनुयाति प्रतिपदमश्वमेधफलं जानती । वडवामारुह्य वा गच्छेत् । ततः सहगमनाथै स्नास्य इति स्नात्वा नव्यं वस्त्रं परिधायात्मानमलंकृत्य प्रतिनिधिना स्वयं वा पिण्डदानं कृत्वाऽग्नये अव्य दद्यात् ॥ नानाफलानि हस्ते कृत्वा । चितिस्थो भगवानग्निर्विष्णुरूपी सनातनः । पतिसालोक्यलाभाय गृहाणाध्यै नमोस्तु ते । इति । ततस्तुतिः । त्वं ब्रह्मा त्वं च वै विष्णुस्त्वं रुद्रस्त्वं प्रजापतिः । त्वं सूर्यो वसवश्वाष्टौ परमात्मा त्वमेव हि । त्वमेव कारणं विष्णो शरणं तु पतिर्मम । स्वर्गों वा ह्यपवर्गों वा यत्र यत्र गमिष्यसि । तत्र तत्र ह्यहं पृष्ठे लग्नमेष्यामि मा शुचः । ब्रह्महत्यादिभिः पापस्त्वामाकृष्ये यमालयात् । अहं ब्रह्मा तथा विष्णू रुद्रश्चैव प्रजापतिः । आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । एते च सर्वे मम साहसेन तुष्यन्तु देवा ऋषयश्च सर्वे । ततः प्रदक्षिणासप्तकं कृत्वा चितां प्रविशेत् । तत्र मन्त्रः । इदं शरीरं त्वतिमङ्गलं प्रभो दग्ध्वा कृशानो कुरु भव्यमाशु । तथैव भर्तुः कुरु दिव्यदेहं भर्तुः समीपं भगवन्ब्रजामि । किमनया कृतं साधु भवेद्यदि तवानघ । इदं शरीरमालिङ्गय प्रविशामि हुताशनम् । इति संक्षेपतः सहगमनविधिः । निःशेषस्तु न दग्धव्य इतिवचनात्सशेषो दाहः । ततः सप्त सप्त प्रदक्षिणाः चिताग्नेः कुर्वन्ति प्रतिप्रदक्षिणमेकैकां समिधं क्षिपन्तः । ततः कुठारमादाय उल्मुकोपरि प्रहारसप्तकं दद्यात् । 'तूष्णीं"तरं प्रामाग्निना लौकिकेनाग्निना । अस्मात्वमिति मन्त्रं विना इतरमकृतावसथ्यम् । ततः क्रव्यादाय नम इत्यग्निमप्रदक्षिणं त्यक्त्वा कनिष्ठपूर्वाः पूर्ववद्यमगाथा गायन्तो नद्यादौ गच्छन्ति । 'संयु. "ह इति' संयुक्तः संवन्धी तं । संवन्धनिरूपकस्य नानात्वान्नियतं निरूपकमाह 'मैथुनमिति उत्तरदानाभिज्ञ तं श्यालकमन्यं वा पुरुषमुदकमुदकदानाज्ञाम् । कथमत आह 'उदकं करिष्यामहे' इतिमन्त्रेण । उत्तरमाह 'कुरु"प्रेते' अतिक्रान्तशतवर्षे तूत्तरमाह । 'कुरु "स्मिन् । 'सर्वे 'माद्वा ज्ञातयः सपिण्डाः समानोदकाश्च सर्वे। सापिण्ड्यमाह आसप्तमात्पुरुषात् । आङ् अभिव्यात्यर्थः । समानोदकत्वमाह, दशमादिति । ते सर्वे अपः जलमभ्यवयन्ति प्रविशन्ति । 'समा 'रेयुः। तथाच तव्यतिरेकेsपः प्रवेशादिव्यतिरेक इत्यर्थः । 'एकवस्त्राः प्राचीनावीतिनः सव्यस्यानामिकयाऽपनोद्याऽपनः शोशुचयमिति दक्षिणामुखं निमन्जन्ति । अनमन्तोऽसंघावमानाश्चेति शेषः । अपनोदनं तूष्णीं निमजनं मन्त्रेण । अशिषाः (१) सर्वमलापहं स्नानं वा कुर्वन्ति । अलोद्वर्तनस्य विकल्पः । 'प्रेता'तत्त इति । । ततस्तटे आगत्याचम्य शिखां बद्धा दक्षिणामानुजून युग्मान् दर्भान् हरतयोः कृत्वा सतिलपाणिभ्यामुदकमादाय दक्षिणामुखा वाग्यताः पितृतीर्थेन भूमौ पाषाणे वाऽमुकसगोत्राऽमुकतैतत्ते उदकमित्येकैकमजलिं प्रसिञ्चन्तीत्यर्थः। ततः गरुडपुराणाहन्तधावनं कृत्वा