________________
कण्डिका ] तृतीयकाण्डम् ।
३८१ तत्त्यागः । जलाञ्जली कृते पश्चात्कृत्वा वै दन्तधावनम् । त्यजन्ति गोत्रिणः सर्वे दिनानि नव काश्यपेति । ' उत्ती'"देयुः । - उदकादुत्तीर्णान्परिहितशुष्कवनान्सकृन्निष्पीडितोदग्दर्शप्रसारितस्नानवस्त्रापवित्रदेशे तृणवत्युपविष्टान्सुहृदः पुराणेतिहासकथाभिः संसारानित्यतां ख्यापयन्तः शोकापनोदं कुर्युरित्यर्थः । अन"ष्ठपूर्वाः' ततो ब्राह्मणानुज्ञया उत्थायाऽनपेक्षमाणाः पश्चादनवलोकयन्तः रीतीभूताः पङ्कीभूता अधोमुखाः कनिष्टाः पूर्वा अग्रे येषां ते तादृशाः ग्रामं प्रत्यायान्ति । 'निवे' 'शन्ति निवेशनं गृहं तस्य द्वारि पिचुमन्दस्य निम्बस्य त्रिप्रभृतीनि पत्राणि विदश्य दन्तैः खण्डयित्वा आचम्योदकाद्यालम्भः । तद्यथा । शमी पापं शमयविति शमीमालभन्ते । अश्मेव स्थिरो भूयासमित्यश्मानम् । अग्निनःशर्मयच्छत्वित्यग्निम् । तूष्णीमुदकं गोमयं गौरसर्पपांस्तैलं च दूर्वाप्रवाला नवा(?)न्वृषभं च यथाक्रममालभ्य ततः पादेन पापाणमाक्रम्य गृहं प्रविशन्तीत्यर्थः । इदानीं पुत्रादिकर्तृकान्नियमानाह 'निरा""रिन् । त्रिरात्रपदं सूतकोपलक्षणं यावत् सूतकमित्यर्थः । दानाध्ययनवर्जिताः मलिना दीनाऽयोमुखाः सर्वभोगविवर्जिताः अधःशयनोपवेशनकारिणः परस्परमसंस्पृष्टाः अङ्गसंवाहनं केशसंमार्जनं चाकुर्वन्तः शक्त्योपोषितनिरात्राः उपोषितैकरात्रा वा किंचन कर्म न कुर्युन वा कारयेयुः । उपोषणाऽशक्तिपक्षमाह 'क्रीत्वा''ग्राहं दिवा दिनशेषे । एवकारस्तु रात्रौ भोजनयोगव्यवच्छेदार्थः । अन्नमक्षारालवणं माषान्नापूपपायसवर्जितं व्रीहियवादिकं पत्रावल्यादिषु एकवारम् अल्पं कुतश्चित्क्रयेण प्राप्तं लब्धं वा । एतेन प्रत्यहं भोजनाय परिगृहीतस्य निषेधः । मांसनिषेधस्योपलक्षणत्वादक्षारादिलाभः । भोजनकाले च भोज्यान्नाद्रक्तमुष्टिमादायाऽमुकगोत्रामुकतिषतेभक्तमुप्टिरिति भूमौ भक्तमुष्टिं दद्यात् अस्थिसंचयनपर्यन्तम् । महागुरौ मृते द्वादशरात्रमेते नियमाः । अत्र प्रथमतृतीयपञ्चमनवमदिनेषु सर्वे सपिण्डाः प्रथमदिनवदुदकदानं स्नानपूर्वकं कुर्वन्ति । तैः सह भोजनं चेति केचित् । प्रेतोपकारायाखण्डदीपप्रज्वालनं पुत्रादिभिः कर्तव्यम् । एतत्सर्वं कथं कार्यमत आह 'प्रेता'"पाहं ? अवनेजनदानप्रत्यवनेजनेषु नाममाहं प्रेतनामप्राहं यथा स्यात्तथा प्रेताय पिण्डं दत्त्वा दिवैवाऽमा समन्नमनीयुरित्यन्वयः । तत्र विधिः । गरुडपुराणे-दशाहं वान्धवाः सर्वे सर्वे चैवावाससः । पिण्डं प्रतिदिनं दद्युरिति । देवतायतने तीर्थे गृहद्वारि अरण्ये श्मशाने वा पिण्डदानम् । तत्रादौ केशश्मश्रुवपनं नखलोम्नां निकृन्तनं च ज्येठेन पुत्रेण कर्त्तव्यं कनिष्ठाः सह यान्ति । तत्राद्यदिने स्नात्वा अहते वाससी परिधाय प्रेतस्य मूों निष्पत्त्यथै भुत्तृषानिवृत्तये प्रेतत्वनिवृत्तये च पिण्डदानं करिष्य इति संकल्प्य नीवीकरणं, रेखां कृत्वाऽमुकसगोत्रामुकप्रेतावनेनिक्ष्वेत्यवनेजनं समूलदक्षिणाप्रदर्भास्तरणम् । अमुकसगोत्रामुकप्रेतैतत्त इति पिण्डदानम् । प्रत्यवने "नीवीविप्रेसनम् । नीवीवन्धनं विप्रेसनं न भवति वा 'नीवी पितृणाम् । इति श्रुतिः । प्रेतस्य चापितृत्वात् । प्रतिपिण्ड सूत्रप्रक्षेपः । चन्दनपुष्पधूपदीपशीतोदकदानम् । ऊर्णातन्तुमयवस्त्रदानम् । नैवेद्यदानम् । गोत्र प्रेत इदं ते नैवेद्यं पिण्डार्चनमुपतिष्ठतामिति प्रतिदानं प्रयोगः । ततः प्रेतोद्देशेन समाषसजलकुम्भदानम् । प्रयोगस्तु----अयं कुम्भः माषान्नजलसहितः सोपवीतः गन्धाधर्चितः सघृतान्नसहितः कस्मैचिद्वामणाय दास्यमानः अमुकसगोत्रामुकप्रेत ते उपतिष्ठतामिति । ततः सलिलाञ्जलिमादायामुकसगोत्रामकप्रेतैष तोयाञ्जलिस्ते उपतिष्ठतामिति पिण्डसमीपे सतिलं तोयाञ्जलिं दद्यात् । एकतोयपात्रम् । इदं तोयपात्रं तिलपुष्पसहितं गोत्र प्रेत ते उपतिष्ठतामिति । अथवाजलिमात्रदानम् । अनेन पिण्डदानेन कुम्भदानेन तिलोदकदानेन वामुकगोत्रस्यामुकप्रेतस्य प्रेतत्वनिवृत्तिरस्तु । शीष्णों निष्पत्तिरस्तु।' क्षुत्तृषानिवृत्तिरस्तु । सद्गतिप्राप्तिरस्तु । ततः पिण्डमुद्के प्रक्षिप्य स्नात्वा गर्ने प्रतोद्देशेन तैलकल्कोदकानां दानम् । मासे पक्षे तिथौ गोत्रस्य प्रेतस्य प्रेतत्वनिवृत्तिपूर्वकश्रमापनयनाथै गर्तेषु तैलकल्कोदकैः स्नापनमहं करिष्ये । गोत्र प्रेत अन तैलेन नाहि । अन्न कल्केत नाहि । अत्रोदकेन नाहि । अनेन