________________
३८२
पारस्करगृह्यसूत्रम् ।
[ दशमी
तैलकल्कोदकदानेन गोत्रस्य प्रेतस्य प्रेतत्वनिवृत्तिरस्तु । श्रमापनयनमस्तु । एवं दशाहं कर्तव्यम् । एतच्च पिण्डदानं फलमूलपायसशाकस क्तुगुडौदनानामन्यतमेन तिलघृतमधुक्षीरमिश्रेण भूमिगत्ते पापाणे स्थ 'ण्डिले वा कर्तव्यम् । ततः सचैलं कनिष्ठपूर्वाः गृहमागत्य शस्त्रपापाणावुल्लङ्घय गृहप्रवेशः । ततः पूर्वोक्तं शक्त्यपेक्षमभोजनं भोजनं वा । ' मृन्मयेत्येके ' योग्यतया पक्के मृन्मये । निधानं च चत्वरादौ वलभ्यां त्रिकाट्यादौ वा एकस्मिन्क्षीरं पात्रान्तरे चोदकं स्थाप्याऽपसव्यं कृत्वा दक्षिणामुखः उपविश्य गोत्रस्य प्रेतस्य मार्गश्रमनिवृत्त्यर्थं मृन्मये क्षीरोदकयोर्निधानमहं करिष्य इति संकल्प्यामुकस - गोत्र प्रेतात्र शीतोदकेन स्नाहि । अमुकसगोत्र प्रेतात्र क्षीरं पिव | मार्गे श्रमनिवृत्तिरस्तु । शावमाशैौचं प्राप्य तां रात्रिमित्येके । त्रिरात्रमित्यन्ये । दशरात्रमित्यपरे ॥ केचित्तु त्रिरात्र - शावमाशैौचं दशरात्रमित्येक इत्येतत्सूत्रं पृथगेव वयोवस्थावृत्तस्वाध्यायाद्यपेक्षया सूतकनिर्णायकमित्याहुः । " न स्वान्' स्वाप्यायो वेद: । तस्याध्ययनं यावदाशौचं निपिष्यते । 'नित्या वर्ज नित्यानि संध्यावन्दनसायंप्रातर्होमादीनि । वैतानमग्निहोत्रम् ।' शालाग्नौ चैके एतानि कुर्युः ' विहित प्रतिपिद्धत्वाद्विकल्पः । अनुष्ठानपक्षे अन्ये कुर्युर्न स्वयमित्यर्थः । प्रेतस्पर्शिनो ग्रामं न प्रविशेयुरा नक्षत्र - दर्शनात् । एतच्च दिवामृतस्य ' रात्रौचेदादित्यस्य ' आदर्शनादित्यनुपङ्गः । एतच्च रात्रिमृतस्य । प्रवेशनादि समानमितरैः । इतरे असपिण्डाः तैः प्रेतस्पर्शिभिरिति शेषः । तैस्तुल्यं पिचुमन्दपत्रविदंशनादि पुत्रादेः । तथाच तेपामपि पुत्रादिभिः समानं गृहप्रवेशनादि भवतीत्यर्थः । प्रसंगाद्वितीयदिवसादिकृत्यं लिख्यते - द्वितीयेऽन्हि प्रेतस्य कर्णाक्षिनासिकानिष्पत्त्यर्थे प्रथमदिवसवत्पिण्डदानं कुम्भभो - नदानं च । द्वौ अञ्जली । द्वे तोयपात्रे । अथवाञ्जलित्रयं न पात्रे । तृतीयेहि ग्रीवा मुखभुजवक्षसां निष्पत्तये पिण्डदानं कुम्भभोजनदानं च । त्रयोञ्जलयः त्रीणि तोयपात्राणि । अथवा पञ्चाञ्जलय एव न पात्राणि । चतुर्थेन्हि संचयनम् । तत्र विधिः पूर्वं स्नात्वा दाहभूमावेकोद्दिष्टं श्राद्धं कृत्वा श्राद्धव्यतिरिक्तानयुग्मास्त्रिप्रभृतीन् ब्राह्मणान् भोजयित्वा पलाात्रटादिपर्णस्य वृन्तेन भस्मगुप्तान्यस्थीनि प्रगटानि कृत्वाऽङ्गुष्ठकनिष्ठिकाभ्यां तान्यस्थीनि गृहीत्वा गृहीत्वा पलाशपुटवटपुटकादौ वा प्रक्षिपति । अस्थिग्रहणक्रमः । शिरसो वक्षसः पाणिभ्यां पार्श्वाभ्यां चापि पादतः । अप्रदक्षिणमस्थीनि गृहाती - त्याह गोभिलः । शम्यवकाः कर्दमं च भस्मराशौ प्रक्षिपति । शमीशब्दः शाखापरः । अवकाः शैवाला: आर्द्रामृतिका कर्दमः । यक्षकर्दम इति केचित् । ततः पत्रपुटस्थान्यस्थीन्याज्येनात्वाऽवकाः कर्पूरागरुचन्दनकस्तूरिकाकेसरादिसुरभिद्रव्यैर्मिश्रयेत् । ततः दक्षिणपूर्वायतां कर्पू खात्वा कुशानास्तीर्य तत्र हरिद्रयारक्तं वखखण्डमास्तीर्य वागित्यनेन मंत्रेण तस्मिन्वम्न्नखण्डेऽस्थीनि प्रक्षिपेत् । ततः संचयनानन्तरं जीवतोऽस्य प्रेतस्य यदिष्टमन्नवस्त्रादि तद्विप्रेभ्यः प्रेतस्य प्रेतत्वनिवृत्तिमुद्दिश्य दद्यात् । ततः सचैलं स्नात्वा । चतुर्थ दिवससंवन्धिपिण्डदानं नाभिलिङ्गगुदनिष्पत्त्यर्थं कुम्भभोजनदानं च । चत्वारस्तोयाश्ञ्जलयः । चत्वारि तोयपात्राणि । अथवा सप्ताञ्जलय एव देयाः । न पात्राणि । पञ्चमे ह्यूरुजङ्घापादनिष्पत्त्यर्थं पिण्डदानं कुम्भभोजनदानं च पञ्चतोयाञ्जलयः पञ्चपात्राणि अथवा नवा - “जलय एव न पात्राणि । षष्ठे सर्वमर्मनिष्पत्त्यर्थ पिण्डदानं पडञ्जलयः पात्राणि च अर्थवैकादशाञ्जलय' एव न पात्राणि । सप्तमे शिरानिष्पत्त्यर्थं पिण्डदानं कुम्भभोजनदानं च । सप्ताञ्जलयः । तावन्ति पात्राणि च अथवा त्रयोदशाञ्जलय एव न पात्राणि । अष्टमे लोमदन्तनिष्पत्तये पिण्डदानं कुम्भभो - जनदानं च । अष्टावश्ञ्जलयः । तावन्ति पात्राणि च । अथवा पञ्चदशाञ्जलय एव न पात्राणि । नवमे पूर्णशरीरनिष्पत्त्यर्थं पिण्डदानं कुम्भभोजनदानं च । नवाञ्जलयः पात्राणि च । अथवा सप्तदशालय एव न पात्राणि । दशमे क्षुन्निवृत्त्यर्थं पिण्डदानं कुम्भभोजनदानं च । दशाश्ञ्जलयः पात्रा- ' णि च अथवैकोनविंशतिसंख्याकारतोयाञ्जलय एव । अथवा प्रत्यहं दशदशा जलय एव देया: ।