________________
fusar ]
तृतीयकाण्डम् |
૩૮૨
प्रत्यहं गर्ते तैलकल्कोदुकानां दानम् । अथवा दशमेह्नि दशगर्त्तेषु तैलकल्कोदकानां दानं न प्रत्यहम् | अत्र दशाहेष्वयुग्मदिनेषु पिण्डदानात्प्रागुत्तरं वा केचिन्नवश्राद्धमाहुः । तत्र पिण्डद्वयदानं प्रेतोद्देश्यकम् । अक्षय्योदकदानं दक्षिणादानं च । एतद्दशाहपिण्डदानमेकेन कर्त्रा एकेन द्रव्येणैकस्मिन्नेव देशे कर्त्तव्यम् । ततः सूतकनिवृत्त्यर्थं केशश्मश्रुवपनं नखलोमनिकृन्तनं च सर्वे सपिण्डाः कारयेयुः । ततः सचैलं स्नात्वा कर्मसमयपरिहितवस्त्राणि आश्रितेभ्योऽन्त्यजेभ्यो वा दद्यात् । ततस्तिलतैलसंयुक्तगौरसर्पपादिकल्केन स्नात्वा अहतवाससः प्रक्षालितशुक्लवाससो वा सुवर्णदूर्वादीनि मङ्गलानि स्पृष्ट्रा विष्णुस्मरणादिना शुद्धा भवन्ति । गृहेषु स्पृष्टानां मृन्मयादीनां पात्राणां परित्यागः । वत्रासनखद्वादीनां क्षालनं गृहस्य संमार्जनलेपनादि । आवालं सचैलस्नानम् । एवं शुद्धिं संपाद्य स्वस्तिवाचनं ब्राह्मणेभ्यः कारयित्वा दानं च तेभ्य एव दद्यात् । ततोऽभ्यङ्गस्नाताभिः सुवासिनीभिराहृतजलेन पार्क कृत्वा भोजनं कुर्युः । दशाहमध्ये त्रिरात्रादूर्ध्वं दर्शपाते दर्शदिन एव सर्वे दशाहसंबन्धिपिण्डोदकदानं समापयेत् । त्रिरात्रादर्वागपि दर्शपाते समापनं केचिदाहुः । एतञ्च मातृपितृव्यतिरिक्तविषयम् । इति दशाहकृत्यम् ॥ ॥ अथैकादशाहकृत्यम् -- तत्र साग्नेर्दाह दिनादेकादशाहे निरग्नेस्तु मरणदिनादेकादशाहे विधिवत्स्नात्वा षोडशभिरुपचारैर्विष्णुपूजनपूर्वकं विष्णुतर्पणम् । तद्यथा । प्राणानायम्य देशकालौ स्मृत्वामुकगोत्रस्यामुकप्रेतस्यप्रेतत्वनिवृत्त्यर्थं वृषोत्सर्गादियोग्यताप्राप्त्यर्थे विष्णुपूजनतर्पणे विधास्य इति संकल्प्य पूजां कृत्वा वैष्णवैर्मन्त्रैः पौराणैवैदिकैश्च तर्पणं कुर्यात् । कार्ये पुरुषसूक्तेन मंत्रैर्वा वैष्णवैरपि । दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन् । अनादिनिधनो देवः शङ्खचक्रगदाधरः । अव्ययः पुण्डरीकाक्ष प्रेतमोक्षप्रदो भवेति । अनेन प्रेतस्य प्रेतत्वनिवृत्तिरस्तु । वृषोत्सर्गयोग्यताप्रातिरस्तु ॥ इति विष्णुतर्पणं कृत्वा वृषोत्सर्गः । स च व्याख्यानाऽवसरे लिखितः ॥ ॥ अथैकादशाह - श्राद्धम् । तत्रैकादश ब्राह्मणाः यथाशक्त्ययुग्मा वा । एको वा । एकादशाहविहितप्रेतश्राद्धे ब्रा
कार्यमित्यादि । विशेषस्तु निमन्त्रणे । गतोसि दिव्यलोकं त्वं कृतान्तविहितान्पथः । मनसा वाभूतेन विप्रे त्वाहं नियोजये । पूजयिष्यामि भोगेन विप्रे त्वाहं नियोजये । इति निमन्त्रणम् । ततः ब्राह्मणानां श्मश्रुकर्मनखच्छेदौ कारयित्वाऽभ्यङ्गतानं कारयेत् । ततः सचैलं स्नात्वा तुष्टेन चेतसा आगतं वः इति पृष्ट्वा विप्रपादयोः पाद्यदानमर्घदानं, ब्राह्मणस्य पादप्रक्षालनमात्मनश्च । आचम्यासने ब्राह्मणमुपवेश्योपरि छत्रं प्रकल्पयेत् । सप्तव्याधाजपोऽवसीदथेत्यन्तः । गयागदाधरयो - र्थ्याननमस्कारौ । प्रणववर्जितं प्राणायामास्त्रयः । ब्रह्मभूर्भुवः स्वरित्यन्ताः । तत आचम्य देशकालौ स्मृत्वाऽमुकगोत्रस्याऽमुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थमाद्यमासिक श्राद्धमहं करिष्य इति संकल्प्य नीवीकरणम् । अपहता इति दिग्विदिक्षु तिलप्रक्षेपः । ततो यद्देवा इति तृचेनोदकमभिमन्त्रय दुष्टदृष्टिनिपातदूषितः श्राद्धोपहारः पूतो भवत्वित्युपहारप्रोक्षणम् । न भूरादिजपः । तूष्णीं तिलविकरणम् । गोत्र प्रेत इदं ते आसनम् अर्ध: । तिलोसि प्रेतदेवत्यो गोसवो० पृक्तः प्रेतांल्लोकान्प्रीणाहि न इति तिलावापः । स्मृत्यर्थसारकारमते पितृनमः स्वधाशब्दवतो मन्त्रस्य लोपः । अतस्तन्मते तूष्णीं तिलावापः । अर्धदानम् । पात्रन्युवजीकरणाभावः । अर्चनम् । गोत्र प्रेत इदं ते चन्दनमुपतिष्ठताम् । इमानि पुष्पाणि । एष धूपः । एष दीपः । इदं वार्हस्पत्यं वासः इमेवाससी इति वा । इदं वारुणं कमण्डलुम् । इमे अङ्गिरोदैवते उपानहौ । प्राजापत्ये उपवीते, छत्रं, प्रेतसंवन्धीनि वस्त्राणि, शय्यां, गाः, गृहम्, आसनं, दासीम्, आयुधानि, उपतिष्ठताम्, उपतिष्ठेताम्, उपतिष्ठन्तामिति यथायथं प्रयोगः । श्राद्धं समाप्य पङ्गिमूर्द्धन्याय दद्यात् । अर्चनविधेः परिपूर्णतेति प्रार्थयेत् । आचमनं निहन्मीत्यादि तिलविकरणम् । अद्येत्याद्यमुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थमेकादशाह विहितस्याद्यश्राद्धस्येकोद्दिष्टविधेर्यत्कृतमित्यादि । संपन्नं, पिण्डदानं, रेपा, अवनेजनं, कुशास्तरणम् । प्रेतैतत्त इति पिण्डदानं