________________
३८४
पारस्करगृह्यसूत्रम् ।
[ दशमी
प्रत्यवनेजनं नीवीविस्रंसनमर्घः । तूष्णीं सूत्राणां दानम् । इदं चन्दनं गोत्र प्रेत ते पिण्डार्चनमुपतिष्ठतामिति प्रतिद्रव्यं प्रयोगः । धूपः, दीपः फलं, ताम्बूलं, नैवेद्यम् । अर्घाच्छादनचन्दनपुष्पधूपदीपनैवेद्यैः पिण्डस्यार्चनं परिपूर्णम् । अनेन पिण्डदानेन गोत्रस्य प्रेतस्य प्रेतत्वनिवृत्तिः कुम्भदानयोग्यताप्राप्तिः । आचमनम् । विप्रहस्ते जलकुशपुष्पाक्षतान् तूष्णीमर्पयित्वाऽक्षय्योदकं दद्यात् । गोत्रस्य प्रेतस्य दत्तं श्राद्धमुपतिष्ठतामिति । यस्योद्दिष्टं तस्योपतिष्ठतामिति । ततः पवित्रं पिण्डस्यो - परि दत्त्वाऽवनेजनजलशेषं तस्योपरि निनयेत् तूष्णीम् । ततो दक्षिणादानम् । अस्य श्राद्धस्य समृध्यर्थं रजतं दक्षिणां प्रेतश्राद्धब्राह्मणाय तुभ्यं संप्रददे । ततो हिरण्यदास्युपानच्छत्रोदकुम्भवखाणां दक्षिणात्वेन दानं गुणवते । अन्येभ्यो रजतदानं ताम्बूलदानं गोत्र प्रेत ते उपतिष्ठतामिति । पिण्डोत्यापनं पानचालनं संचराभ्युक्षणम् । अस्यैकादशाहविहितस्याद्यमा सिकश्राद्धस्यैकोद्दिष्टविधेर्यत्कृतं यन कृतं तत्सर्वे विष्णोः प्रसादात्परिपूर्णम् । अनेन श्राद्धेन प्रेतस्य प्रेतत्वनिवृत्तिः । कुम्भदानयोग्यताप्राप्तिः । ततः स्नानम् । अस्य श्राद्धस्य पुराणभेदप्रयोज्यप्रकारभेदा हेमाद्रौ विलो - क्या: । ततः रुद्रोद्देशेनैकादशब्राह्मणेभ्यो भोजनदानम् । पुनः स्नात्वा कुम्भदानम् । विष्णोः पूजनम् । ततः प्रेतोद्देशेन सानत्रयोदशोदकुम्भदानम् | प्रयोगः । अपसव्यं कृत्वा । इमे त्रयोदशोदकुम्भाः सान्नोदकाः सयज्ञोपवीताः नानानामगोत्रेभ्यो ब्राह्मणेभ्यः दास्यमानाः गोत्र प्रेत ते उपतिष्ठतामिति । एभिः कुम्भदानैः गोत्रस्य प्रेतस्य प्रेतत्व निवृत्तिः । उत्तर कर्माऽधिकारप्राप्तिः । अष्टविध - पदानम् । इमानि पदानि नानादैवतानि गोत्रप्रेत उपतिष्ठन्तामिति । एवं सर्वत्र || अश्वरथमहि - पीशय्यादानम् । अश्वः यमदैवतः । रथः विष्णुदैवतः । यमदेवता महिषी । इयं शय्या तिलपात्रघृतपात्रे सहिरण्ये । गौः । भूमिः । तिलाः । हिरण्यम् । गन्धादिभिरश्चैनं देयस्य पात्रस्य च ॥ चतुर्दशोपदानानि । स्त्रीमरणे वंशपात्री । प्रयोगः । इयं वंशपात्री रुयुपभोगयोग्य वस्तुयुक्ता गन्धाद्यर्चिता कस्मैचिद्राह्मणाय विष्णुरूपाय तुभ्यं० सं० । संवत्सरपर्यन्तं प्रत्यहं सान्नजलकुम्भदानं दीपदानं देवालयादौ । ततः ऋणधेनुदानम् । तत्र प्रयोगः । देशकालौ स्मृत्वा प्रेतस्य ऋणत्रयापाकरणाय इमामृणधेनुसंज्ञकां गां रुद्रदैवतां कस्मैचिद्ब्राह्मणायेत्यादि । ततो विष्णुपूजनम् || गृहमागत्य वैश्वदेवः कार्यः ॥ शान्तिकरणम् ॥ इत्येकादशाहकर्म ॥ ॥ अथ द्वादशाहसंबन्धिकर्तव्यमुच्यते । आरब्धे वैश्वदेवे आदौ वैश्वदेवः । ततस्तीर्थे गत्वा विधिवत्नात्वा विष्णुं संपूज्याद्येत्यादि गोत्रस्य प्रेतस्य प्रेतत्वनिवृत्त्यर्थमूनमासिकश्राद्धं करिष्य इति संकल्प्य श्राद्धं कुर्यात् । अथवेदमूनमासिकं सप्तविशतिमे दिनेऽष्टा - विंशतिमेवैकोनत्रिंशत्तमेऽहनि कर्तव्यं नन्दादिवर्जिते । ततो मासपूत मृत्ता द्वित्तीयमासिकमेकादशाहवत् ॥ ततस्तृतीये पक्षे नन्दादिवर्जिते नैपक्षिकं श्राद्धं कर्तव्यम् । ततस्तृतीयमासस्यादि - मृता हे तृतीयमासिकम् । चतुर्थे मासे चतुर्थमासिकम् । पञ्चमे मासे पश्चममासिकम् । षष्ठे मासे पाण्मासिकम् । ततः षष्ठे मासे एकेन दिवसेनोने द्वाभ्यां वा दिवसाभ्यामूने त्रिभिर्वा दिवसैरूने ऊनपाण्मासिकम् । ततः सप्तममासादौ सप्तमासिकम् ॥ अष्टममासेऽष्टमासिकम् | नवमे नवममासि - कम् । दशमे दशमासिकम् । एकादशे एकादशमासिकम् । द्वादशे द्वादशमासिकम् । अत्राप्येकेन दिनेन द्वाभ्यां त्रिभिवने ऊनादिकम् । अत्रोनमासिकपक्षिकषाण्मासिकेपु प्रतिश्राद्धं द्वादशकुम्भदानम् । अन्येध्वेकैकः कुम्भः । संवत्सरपर्यन्तं प्रत्यहमपि सान्नोदकुम्भदानं प्रेतस्य प्रेतत्वनिवृत्तिमुद्दिश्य दीपदानं च संवत्सरावधि । ततः प्रथमसंवत्सरस्यान्तिमे दिने सपिण्डीकरणम् । एतच संवत्सरसपिण्डीकरणपक्षे । त्रिपक्षद्वादशाहवृद्धिश्राद्धादिनिमित्तापाते तथैकादोन्हि साग्नेर्दर्शपाते तद्दिन एव सपिण्डीकरणकर्तव्यताप्राप्तौ वृपोत्सर्गानन्तरमाद्यश्राद्धादि सर्वं कृत्वा सपिण्डीकरणं कृत्वा पिण्डपितृयज्ञः कार्यः । द्वादशाहादौ कर्तव्यताप्राप्तावूनमासिकादि कृत्वा सपिण्डीकरणम् । एवं