________________
कण्डिका ]
तृतीयकाण्डम् |
३८५
1
वृद्धिश्रद्धादिनिमित्तापाते त्वकृतानुष्ठानपूर्विका सपिण्डीकरणकर्तव्यता । एवं चैकादशाहादौ सपिण्डनकर्तव्यतायां पृथगनुष्ठानकालासंभवादाद्यश्राद्धादीन्यूनादिकान्तानि सपिण्डीकरणयोग्यतावाप्तये तत्रेणाहं करिष्य इति संकल्प्यैकार्यैकपिण्डकरणादपि सर्वेषां श्राद्धानां सिद्धिर्भवतीति विरुद्धविध्वंसे । अपरे तु प्रतिश्राद्धं ब्राह्मणार्धपिण्डानिच्छन्ति । उभयत्रापि मूलसद्भावाद्यथेच्छमनुष्टानम् । श्राद्धभेदाद्राह्मणार्घपिण्डभेदे त्वेवं प्रयोगः । ऊनमासिकनिमित्तं प्रेतश्राद्धे ब्राह्मणकार्ये ० १ द्वितीयमासिक० २ । त्रैपक्षिक० ३ | तृतीयमासिक० ४ । चतुर्थमास ० ५ । पश्चममास० ६ । षष्ठमास० ७। ऊनषाण्मासि० ८ । सप्तममास० ९ । अष्टममास० १० । नवममास० ११ । दशममास० १२ । एकादशमास० १३ । द्वादशमास० १४ । अधिमासश्चेत् त्रयोदशमास० १५ । तत ऊनादिक० १६ । तथाचाधिमासपक्षे एकादशाहिकमाद्यश्राद्धमादाय सप्तदश श्राद्धानि भवन्ति । अधिमासाभावे पोडशैव श्राद्धानि । अथवा एकादशाहिकाद्यूनादिकान्तेषु ( प्रेत ) श्राद्धेषु ब्राह्मणकार्यमिति वा प्रयोगः । अथवा सर्वाण्युल्लिख्यैतानि सपिण्डीकरणयोग्यताप्राप्त्यर्थमेकतंत्रेणाहं विधास्य इति वा प्रयोगः अमीषां श्राद्धानामेकोद्दिष्टविधेर्यत्कृतं यन्नकृतमित्यादि । अमीषां श्राद्धानामेकोद्दिष्ट विधिना कृतानां यन्न्यूनं यदतिरिक्तमित्यादि । एभिः श्रद्धैः प्रेतस्य प्रेतत्वनिवृत्तिः । क्षुत्तृषानिवृत्तिः । सपिण्डीकरणयोग्यताप्राप्तिः । ततः स्नात्वा ऐकादश । हिकोनमासिकनैपक्षिको नपाण्मासिकोनसांवत्सरिकेषु विहितकुम्भदानम् ॥ ततः संकल्पविधिना संवत्सरपर्यन्तमनुष्ठीयमानश्राद्धानां तन्त्रेणानुष्ठानम् । सर्वेषु सोदकुम्भान्नसंकल्पः प्रेतस्य प्रेतत्वनिवृत्तिं क्षुत्तृपानिवृत्तिं चोद्दिश्य । एवं देवालयाऽग्न्यगारादौ प्रत्यहं दास्यमानदीपसंकल्पः । मार्ग गच्छतः प्रेतस्यान्धकारनिवृत्तिमुद्दिश्य दीपदानमासंवत्सरम् ॥ ॥ अथ सपिण्डीकरणम् । तचैकोद्दिष्टपार्वणात्मकं तत्र पार्वणैकोद्दिष्टयोरिदमेव प्रथममिति नियमाभावः । प्रेतपितृपितामहप्रपितामहानां पार्वणम् । तच्चामावास्यासंवन्धिपार्वणवत् । एकोद्दिष्टं तु प्रेतैकोद्दिष्टवत् । तत्र द्वादशाहादौ गोत्रस्य प्रेतत्वनिवृत्त्यर्थं वसुरुद्रादित्यलोकप्राप्त्यर्थं च गोत्राणां प्रेतस्य पितृपितामहप्रपितामहानाममुकामुकमशर्मणां वैश्वदेवपूर्वकं सैोद्दिष्ट विधिना युष्मदनुज्ञया सपिण्डीकरणश्राद्धमहं करिष्य इति प्रयोगः । आसनम् । आवाहनम् । अर्ध: । वैश्वदेविके कृत्वा पित्र्ये कुर्यात् । प्रेतस्यैकमर्धपात्रं तत्पित्रादीनां त्रीणि । एवमर्धपात्राणि पूरयित्वाऽभ्यर्च्य प्रेतार्धगतचतुर्थांशेन प्रेताया दत्वा प्रेतपात्रं पितृपात्रे संयोजयिष्य इति पृष्ट्वा संयोजयेत्यनुज्ञाasaशिष्टमजलं विभज्य तृतीयांशं पित्रादिपात्रेषु निनयेत् । पवित्रं त्वखण्डमेव पित्रादिपात्रे प्रतिपात्रं संचारयेत् । तत्र येसमानाइतिमन्त्रद्वयं पठित्वाऽमुकगोत्रस्याऽमुकप्रेतस्यार्घः अमुकगोत्रस्यामुक - शर्मणः पितुरर्घपात्रेण सह संसृज्यतामित्युक्वा पितृपात्रे संयोज्य पितामहप्रपितामहयो: पात्रे संयोजनम् । प्रतिपात्रसंयोजनानन्तरं प्रेतस्य वसुरुद्रादित्यलोकप्राप्ति क्रमेण प्रार्थयेत् । साग्नेः पुत्रादेः . प्रेतपितृविप्रपाणावग्नौकरणहोमः । पितामहप्रपितामहयो: पात्रे शेषपरिवेषणम् । पिण्डदानेपि श्राद्धोपक्रमेण चतुरः पिण्डान्दत्वा । प्रेतपिण्डमर्घादिभिः संपूज्य प्रेतपिण्डं पितृपिण्डेषु संयोजयिष्य इति पृष्ट्वा संयोजयेत्यनुज्ञातः सुवर्णरजतशलाकादः प्रेतपिण्डं त्रेधा विभज्याद्यं भागमादाय येसमानाइति मन्त्रद्वयं पठित्वाऽमुकगोत्रस्यामुकप्रेतस्य पिण्डः अमुकगोत्रस्यामुकशर्मणः प्रेतपितुः पिण्डेन सह संयुज्यतामित्युक्त्वा संयोजनेन वर्त्तुलं पिण्डं निष्पाद्य प्रेतस्य वसुलोकप्राप्तिं पितृत्वप्राप्तिं च प्रार्थयेत् ॥ अवशिष्टं प्रेतपिण्डभागद्वयमेवमेव पितामह प्रपितामहपिण्डयोः संयोजनीयं प्रेतस्य रुद्रादित्यलोकप्राप्तिं प्रार्थयेत् । केचित्तु पिण्डस्य प्रथमांशो द्वितीयांशस्तृतीयांशः प्रयोग इच्छन्ति । ततो
पितर इति जपादि पूजनानन्तरं पिण्डानभिमृश्येदं पठेत्, एष वोऽनुगतः प्रेतः पितरस्तं दधामि वः । शिवमस्त्विह शेषाणां जायतां चिरजीवितम् । समानीय आकूतिः समाना हृदयानि वः । समा
४९