________________
पारस्करगृह्यसूत्रम् ।
[एकादशी नमस्तु वो मनो यथा कः सुसहासतीति । अत ऊर्च कदाचिदान्त्यापि प्रेतशब्दो न वाच्यः । अक्षय्योदकदानादौ गोत्रस्य पितुरमुकशर्मणः मोक्षप्राप्त्यर्थमिमां मोक्षधेनुसंज्ञकां गां रुद्रदेवतां कस्मैचिद्राह्मणायेत्यादि । ततः दक्षिणां दत्त्वा मोक्षं पितुः प्रार्थयेत् । ततो गृहे गत्वा पितृमातामहपार्वणाभ्यां श्राद्धं तत आभ्युदयिकम् । ततः स्वस्त्ययनं पुण्याहवाचनम् । नन्वमावास्याभ्युदयादौ यत्पार्वणमुक्त तत्सपिण्डनं यैः सह प्रेतस्य तेषां प्रेतस्यापि भवेदत आह 'पिण्डश्चेत् ।। नन्वेवं पिण्डचतुष्टयमापतितं चेत्तत्राह 'निवर्तेत चतुर्थः । प्रेतेन पित्रा सपिण्डतां प्रापितश्चतुर्थः प्रेतप्रपितामहः स निवर्ततेत्यर्थः । एकादशाहादौ सपिण्डीकरणपक्षे अपकृष्य कृतानामूनमासिकादीनां स्वकाले पुनरनुष्ठानं न वेत्याशकयाह 'संवत्सरं पृथगेके। एके आचार्याः अपकृष्यकृतानां संवत्सरं यावत्पृथगनुष्ठानं मन्यन्ते । तच्च क्षयाहवद्भवति एकोद्दिष्टविधिना पार्वणविधिना वा यथाकुलाचारम् । एकादशाहे त्वपकर्षे ऊनमासिकस्याप्यपकृष्टत्वेन पुनरनुष्ठानम् द्वादशाहादौ सपिण्डीकरणे तस्यानपकृष्टत्वेनानुष्ठानाभावः । त्रैपक्षिकादौ सपिण्डीकरणे भाविनामेव मासिकानां पुनः क्रिया न भूतानामिति । यत्तु निरग्नेरेकोद्दिष्टविधायकमेतत्सूत्रमित्याहुः । तन्न । उभयत्रापि शास्त्रसद्भावात् । नन्वेवमपि पार्वणविधौ प्रेतस्येतरेषामपि सपिण्डतां प्राप्तानां कुतो न निक्षेप इत्यत आह 'न्यायस्तु न चतुर्थः पिण्डो भवतीति श्रुतेः । तथाच पार्वणे त्रयाणामेव निक्षेपाचतुर्थपिण्डाभावः न्यायप्राप्त इत्यर्थः । ' अहरहरन्नमस्मै ब्राह्मणायोदकुम्भं च दद्यात् ।। एतदानावसरे लिखितम् । ' पिण्डमप्येके निपृणन्ति । अहरहरित्यनुषड्गः । सपिण्डनक्रियायाः ऊर्ध्व प्रेतशब्दो नोचार्यः । संकल्पविधिना प्रत्यहं पार्वणमिति निर्णयामृतकारः ॥ १०॥ ॥ * ॥ दशमीकण्डिका ।। * ॥
पशुश्वेदाप्लाव्यागामग्रेणाग्नीन्परीत्य पलाशशाखां निहन्ति ॥ १ ॥ परिव्ययणोपाकरणनियोजनप्रोक्षणान्यावृता कुर्याद्यच्चान्यत् ॥ २॥ परिपशव्ये हुत्वा तूष्णीमपराः पञ्च ॥३॥ वपोद्धरणं चाभिधारयेद्देवतां चादिशेत् ॥४॥ उपाकरणनियोजनप्रोक्षणेषु स्थालीपाके चैवम् ॥ ५ ॥ वपा हुत्वाऽवदानान्यवद्यति ॥ ६ ॥ सर्वाणि त्रीण पञ्च वा ॥ ७ ॥ स्थालीपाकमिश्राण्यवदानानि जुहोति ॥ ८ ॥ पश्वङ्ग दक्षिणा ॥९॥ यद्देवते तदैवतं यजेत्तस्मै च भागं कुर्यात्तं च ब्रूयादिममनुप्रापयेति ॥ १० ॥ नद्यन्तरे नावं कारयेनवा ॥ ११॥ ॥ ११ ॥
(कर्कः)-'पशु'''व्यागां' पशुश्चेत् क्रियेत गोपशुवर्जमाप्लान्य नापयित्वा नियुज्यते । 'अग्रे 'हन्ति' निखनन्ति । असौ यूपकायें निखन्यते । अतश्वाज्यासादनोत्तरकालं निखननम् । 'परि 'न्यत्' । किमन्यदिति, पशुसंस्कारक नियोजनप्रोक्षणपशुसमञ्जनपर्यग्निकरणादिकं तब कर्तव्यम् । आवृच्छब्दः क्रियामानवाची अतश्च तन्मन्त्री निवर्तते । 'परिपशव्ये हुवा तूष्णीमपराः पञ्च' जुहोतीति सूत्रशेषः । वपो. 'येत् । उद्धृत्य वपां ' देवतां चातिदिशेदुपाकरणनियोजनप्रोक्षणेपु' उपाकरणादिषु । 'स्थाली' 'वम् । देवतामादिशेत् । 'वपाई..श्च वा ' वपां हुत्वा अवदानमहणे उच्यमाने पशुपुरोडाशो निरस्तो भवति । अत आह-वां हुत्वाऽवदानान्यवद्यति । असर्वपक्षे तत एव स्विष्टकृत् । क्षताभ्यङ्गश्च देयः । स्थाली'""होति तस्य चाज्येनैव सहश्रपणम् । 'पश्व "क्षिणा'