________________
कण्डिका ] तृतीयकाण्डम् ।
३८७ पूर्णपात्रं वरो वेति निवर्तते । 'यद्दे' - 'जेत् । यद्देवत्य ऋत्विग्विशेपस्तदेवत्य एव पशुरालभ्यतेऽर्धपशुपु। 'तस्मै 'येति । तस्मै ऋत्विग्विशेषाय भागं कुर्यात् । 'नद्य"नवा' यदुक्तं प्रेतायोदिश्य गामप्येके नन्तीति तस्यैव तत्प्रदेशविधानम् । नवश्राद्धं नावमुच्यते । नद्यन्तरे नावं कारयेदित्यनेन नवश्राद्धार्थः पशुरुपक्रान्तः । नवश्राद्धशब्देन प्रथमैकादशाहिकं श्राद्धमुच्यते ॥ ११ ॥
(जयरामः)-प्रेतायोद्दिश्य गामप्येके नन्तीति शाखापश्वभिधानम् । तत्प्रसद्देन यावन्तोऽर्षपशवस्तत्कर्मव्याचिख्यासयेदमभिधीयते । स्मार्तः पशुश्चेस्क्रियते तदाऽगां गोपशुवर्जमाप्लाव्य स्नापयित्वा नियुज्यते । कुत्रेत्यपेक्षायामाह । परीत्य प्रादक्षिण्येन गत्वा अप्रेणाग्नीन् अग्निपूर्वभागे निहन्ति निखनन्ति । सा च यूपार्थे । अतश्चान्यासादनोत्तरकालं निखननम् । परिव्ययणं त्रिगुणरशनया शाखावेष्टनम् । उपाकरणं तृणेन पशोर्नियोजनं द्विगुणरशनया शृङ्गयोर्वद्धस्य पशोः शाखायां वन्धनम् । आवृता पशुप्रकरणोक्तेतिकर्तव्यतया विना मन्त्रम् । आवृद्ग्रहणाद्यञ्च पशुसंस्कारकं पशुसमजनपर्यग्निकरणादि तदप्यावृता कार्यम् । परिपशव्ये संज्ञपनस्याद्यन्तयोराहुती द्वे स्वाहा देवेभ्यः देवेभ्यः स्वाहेति हुत्वाऽपराः पञ्च जुहोतीति शेषः । उद्धृत्य वपाभिधारणम् । स्थालीपाकेप्येवं देवतादेशः । वपां हुत्वाऽवदानग्रहणे उच्यमाने पशुपुरोडाशो निरस्तो भवति अत आह 'वपां हुत्वेति' असर्वपक्षे तत एव स्विष्टकृत् । क्षताभ्यङ्गश्च देयः, स्थालीपाकमिश्राणीति ग्रहणात्तस्याज्येन सह अपणम् । पश्चत दक्षिणेत्यत्र पूर्णपात्रो वरो वेति निवर्तते । यहेवत्य ऋत्विग्विशेषस्तद्देवत्यः पशुरालभ्यतेऽर्घपशुपु । तस्यार्पस्य देवतैव देवता यस्य यागस्य स तहेवत्यस्तस्मिन् । तदैवतं तामेव देवतां यजेदित्यर्थः । तस्मै ऋत्विग्विशेषाय । 'नद्यन्तर इति' यदुक्तं प्रेतायोहिश्य गामप्येके नन्तीति तस्यैतत्प्रदेशविधानम् । नवश्राद्धार्थ नावमुच्यते । नद्यन्तरे नावं कारयेदित्यनेन नवश्राद्धार्थः पशुरुपक्रान्तः । नवश्राद्धशब्देन प्रथमैकादशाहिकश्राद्धमुच्यते ॥ ११ ॥
(हरिहरः) एवं तावत्प्रेतायोद्दिश्य गामप्येके नन्तीति सूत्रकृता एकादशेऽहनि प्रेतमुहिश्य गोपश्वालम्भोऽभिहितस्तव्यसनादन्येऽपि यावन्तोऽयंपशवस्तत्कर्माभियातुमिदमारभ्यते । पशु"हन्ति' चेद्यदि स्मातः पशुः क्रियते तदा तं पशुं गोपशुवर्जमाप्लाव्य स्नापयित्वा नियुंज्यान गोपशौ आप्लाव्याभावः पशुनियोजनं च यूपे श्रूयते, अस्य तु कुत्रेत्यपेक्षायामाह-अस्य अप्रेण पुरस्तात् अग्नीन् वितानपक्षे गार्हपत्यादीन् आवसथ्यपक्षे एकमग्निं परीत्य प्रादक्षिण्येन गत्वा पलाशस्य ब्रह्मवृक्षस्य शाखां निहन्ति निखनन्ति । आसादनानन्तरं यूपकार्यत्वाच्छाखायाः। 'परिचान्यत् । परिव्ययणं त्रिगुणरशनया शाखायाः, उपाकरणं तृणेन पशोः स्पर्शनं, नियोजनं द्विगुणरशनया अन्तराशृङ्गवद्धस्य पशोः पलाशशाखायां वन्धनं, प्रोक्षणं प्रोक्षणीभिरद्भिः पशोरासेचनम् । एतानि परिव्ययणोपाकरणनियोजनप्रोक्षणानि आवृता पशुप्रकरणविहितेतिकर्तव्यतया मन्ववर्जितया क्रियया कुर्यात् विधीत, न केवलमेतान्येव अन्यदपि यत्पशुसंस्कारक पशुसमञ्चनं पर्यग्निकरणादिकं तदपि तथैव कुर्यात् । 'परि 'पञ्च' पशुसंज्ञपनं परि उभयतः हूयेते ये द्वे आज्याहुती स्वाहादेवेभ्यः
देवेभ्यः स्वाहेति ते परिपशव्ये ते हुत्वा तूष्णीं मन्त्रवर्जमपरा अन्याः पञ्च आज्याहुतीर्जुहुयात् । • 'वो' 'येत् । पशोर्वपाया उद्धरणं यथोक्तं कृत्वा तां वपामभिधारयेत् उद्धृत्यैव । 'देव' णेपुर उपाकरणं च नियोजनं च प्रोक्षणं च उपाकरणनियोजनप्रोक्षणानि तेपु देवतां यहेवत्यः पशुर्भवति तां देवतामादिशेत् , अमुष्मै वा उपाकरोमि अमुष्मै वा नियुनजिम अमुष्मै त्वा जुष्टं मोक्षामीति । 'स्थाली. 'चैवम् ' स्यालीपाके चरौ च एवं देवतामादिशेन् । चरोरुपाकरणनियोजनाभावात्तण्डुलप्रोक्षणे अमुष्मै त्वा जुष्टं प्रोक्षामीति देवतोद्देशः । विपाउं.. पञ्च वा । वपां यथोक्तेन विधिना