________________
३८८
पारस्करगृह्यसूत्रम्
. [ एकादशी
हुत्वा अवदानानि पशो: हृदयादीनि अवद्यति छिनत्ति, कति सर्वाणि हृदयं जिह्वा क्रोडं सव्यबाहुं पार्श्वद्वयं यकृत् वृक्कौ गुदमध्यं दक्षिणां श्रोणिमित्येकादश प्रधानार्थानि, दक्षिणबाहुं गुदतीयाणिष्ठम् सव्यां श्रोणिमिति त्रीणि सौविष्टकृतानि । यद्वा त्रीणि हृदयम् जिह्वां क्रोडमिति, अथवा पञ्च हृदयजिह्वाक्रोडसव्यबाहुदक्षिणपार्श्वनि, अत्र पञ्चावदानपक्षे त्र्यवदानपक्षे वा तेभ्य एव स्विष्टकृद्यागः । वपा हुत्त्रावदानान्यवद्यतीति वदता सूत्रकृता पशुपुरोडाशो निरस्तः । 'स्थाली' ' 'होति' स्थालीपाकेन चरुणा मिश्राणि संयुक्तान्यवदानानि हृदयादीनि जुहोति स्थालीपाकस्य च मिश्रणवचनात्सहैव पाकः । ' पश्वद्धं दक्षिणा ' पशोः अङ्गं पश्वङ्गम् अस्य पशुबन्धस्य दक्षिणा । ‘यद्दे‘''येति ' एतदर्घ्यपशून्प्रकृत्य कर्माभिहितं, तत्र यस्यार्व्यस्य आचार्यादेर्या देवता तद्दैवतः स पशुयागस्तस्मिँस्तद्दैवते यागे तद्दैवतम् अर्घ्यदैवतं बृहस्पत्यादिकं च यजेत् । तत्रार्घ्यदेवता, आचार्यस्य बृहस्पतिः, ब्रह्मणश्चन्द्रमाः, उद्गातुः पर्जन्यः, अग्निर्होतु, अश्विनावन्त्रयः, विवाह्यस्य प्रजापतिः, राज्ञ इन्द्रः, प्रियस्य मित्रः स्नातस्य विश्वेदेवा इन्द्राग्नी वेति । तस्मै चार्घ्यायाचार्यादये भागं पशोः किञ्चिदद्धं कुर्यात् विभजेत् । तं चार्घ्यमाचार्यादिकभिममनुप्रापयेति ब्रूयात् । ' नद्य'' 'नवा ' इदानी प्रेतोद्देशेन गामप्येके नन्तीति यदुक्तं तत्प्रदेश विधानार्थमाह । नद्यन्तरे नद्या अन्तरे द्वीपे नावं नवम् एकादशाहश्राद्धं तदर्थमिमं नावं गोपशुं कारयेद्नुतिष्ठेत् । कोऽर्थः प्रेतोद्देशेन गोपशुमेकादशोऽह्नि नद्यन्तरे आलभेत न वा आलभेत इतिसूत्रार्थः ॥ ११ ॥
( विश्व० ) - प्रेतायोद्दिश्य गामप्येके नन्तीति शाखापश्वभिधानम् । तत्प्रसङ्गेन यावन्तोऽर्घपशवस्तत्कर्तव्यता कथनायेदमभिधीयते ' पशु व्याऽगां' गोवर्जे पशुमालाव्य शाखायां यूपस्थानापन्नायां नियोजनम् । चेच्छन्दो विकल्पार्थः । आप्लावनं नाम प्रक्षालनं बन्धनादिविधानं च शूलवे औपासनमरण्यं हृत्वेत्यादावुक्तं तथापि शाखानिखननमत्र वक्ष्यति । तदर्थं पदार्थक्रम उच्यते । भूसंस्कारपूर्वकं बहिरावसथ्याग्निस्थापनम् | स्मार्तपात्रासादने आज्यासादनोत्तरं वपापण्या शूलमुखा स्थाली तण्डुलाः प्रक्षशाखा पलाशशाखा त्रिगुणरशना उपाकरणतृणं द्विगुणरशना पशुः पान्ने - जनी: असिः हिरण्यशकलानि दधि बर्हिः संस्रवपात्रं पश्वङ्गं दक्षिणार्थे । ततः पवित्रकरणादि वहिस्तरणान्ते प्रक्षशाखास्तरणं पात्रासादने कृते चरुग्रहणम् । तत्राचायें अयें बृहस्पतिर्देवता । ऋत्विक्षु- अग्निर्होतुः । आदित्योऽश्विनौ वाध्वयोः । चन्द्रमा ब्रह्मणः । पर्जन्य उद्गातुः । आकाशः सदस्यस्य । ब्राह्मणाच्छंस्यादयो द्वादशाब्दैवता इन्द्रहोत्रादश्विनाध्वर्यू ( १ ) इत्यादयो वा । वैवाहास्य प्रजापतिः । राज्ञ इन्द्रः । प्रियस्य मित्रः । स्नातकस्येन्द्राग्नी विश्वेदेवा वा तत्तदर्थे च पश्वादौ देवता ज्ञेयाः । ग्रहणे जुष्टम् । त्वा प्रोक्षणे । अप्रेणाग्नीन्परीत्य पलाशशाखां निहन्ति । वेदावाज्यासादनान्ते अग्नीन्प्रादक्षिण्येन परीत्याग्नेः पूर्वभागे पलाशशाखां यूपकार्यार्थे निहन्ति गर्त खात्वा तस्मि न्स्थापयन्ति । औत्तरवेदिकपशौ अग्नीनिति पदं सार्थकं योज्यम् । अनौत्तरवेदिके अग्निं परीत्येत्यूहि - तव्यम् । परिव्ययणोयाकरणनियोजनप्रोक्षणान्यावृता कुर्यात् । परिव्ययणं त्रिगुणरशनया शाखा - वेष्टनम् । उपाकरणं तृणेन पशोः स्पर्शनं वृहस्पतये उपाकरोमीति । नियोजनं द्विगुणरशनयान्तरा शृङ्गे वा बृहस्पतये नियुनज्मीति शाखायां पशुबन्धनम् । प्रोक्षणं प्रोक्षणीभिः पशोर्वृहस्पतये ear जुष्टं प्रोक्षामीति । एतानि सर्वाणि आवृता कुर्यात् । आवृच्छन्दः क्रियामात्रपरः तेन पशुप्रकरणे मत्रा उक्तास्तद्रहित इत्यर्थः । ' यच्चान्यत्' न केवलमेते एव पदार्थाः, अन्यदपि पशुसंस्कारकं समंजनपर्यनिकरणादि यत्पदार्थजातं तदपि कुर्यात् । परिपशव्ये हुत्वा तूष्णीमपराः पश्च स्वाहादे॒वेभ्य इत्याद्दृतिर्मारणात्पूर्वं देवेभ्यः स्वाहेति संज्ञप्ते पशौ । एते द्वे आहुती हुत्वा तूष्णीं पञ्चान्याहुति - होमः प्रजापति ध्यात्वा । इदं प्रजापतय इति पञ्चानां त्यागाः । ' वपोयेत् ' पशोरुदरं विदार्य