________________
३८९
कण्डिका ]
तृतीयकाण्डम् |
I
वपोद्धरणं यथोक्तं कृत्वा यथापूर्वमभिघारयेत् । ततो देवतां त्वादिशेदुपाकरणनियोजनप्रोक्षणेषु । उपाकरणनियोजनप्रोक्षणान्युक्तानि । तेषु देवतां तु पुनः आदिशेत् । अमुष्मै त्वोपाकरोमि । त्वा नियुनज्मि । अमुष्मै त्वा प्रोक्षामीत्येवम् । पूर्वमावृता कुर्यादित्युक्तं तत्रावृच्छन्दोऽमन्नवाचकत्वेनाङ्गीकृतस्तेन तूष्णीमेते पदार्था इति प्राप्ते देवतां त्वादिशेदित्यनेन नियुनज्मि प्रोक्षामीत्यादेशः । न केवलं पशौ । ' स्थालीपाकेचैवं ' स्थालीपाके चरावप्येवम् । पशौ सहैव स्थालीपाकस्तदैवतः कर्तव्यः । तेन सहावदानहोमो वक्ष्यति । तत्राप्येवं ग्रहणप्रोक्षणादौ देवतादेशः अमुकाय जुष्टं गृह्णामि । अमुकाय त्वा जुष्टं प्रोक्षामि । अमुष्मै स्वाहेत्यादिषु । ततो विशसनम्रपणाश्ञ्जनशणदान (?)पूर्वकं पाशुकं कृत्वा तत उपयमनकुशादानादि आज्यभागान्तम् । ततो 'वपा५र्वाणि ' वृहस्प तये स्वाहेति वमां हुत्वा अवदानानि हृदयादीन्येकादश अवद्यति अङ्गेभ्यः । पृथकृत्वा स्वधि - तिना एकस्मिन्पात्रे गृह्णाति । अत्र वपाहोमोत्तरमवदानग्रहणेनान्तरा पशुपुरोडाशो निरस्तः स्मार्ते पशौ । एकदेवताकत्वात्तत्स्थानापन्नश्चरुः । ' त्रीणि पञ्च वा ' अथवा नैकादशानि न सौविष्टकृतानि । त्रीण्येवादितो ग्राह्याणि । हृदयजिह्वा क्रोडानि । अथवादितः पञ्च हृदयजिह्वा क्रोडसव्यबाहुदक्षिणपार्श्वानि । तत्र सर्वपक्षे एकादशभ्यः प्रधानानि । सोविष्टकृतेभ्यरुयङ्गेभ्यः स्विष्टकृत् । त्रिपञ्चग्रहणपक्षे तेभ्य एव पुनः स्विष्टकृत्तदा तेषां क्षताभ्यञ्जनम् । 'स्थाली होति' अवदानेन सह स्थालीपाकश्रपणम् । पशुपुरोडाशस्थानापन्नस्य चरोः पृथग्घोमे प्राप्ते वाचनिकस्थालीपाकस्य होम: सहैव । तमिश्राणि सह एकीकृत्य जुहोति स्रुवेण । बृहस्पतये स्वाहेति । ततो वनस्पतये इत्यादि पाशुकम् । एवं स्विष्टकृत् त्र्यङ्गेभ्यश्वरुणा सह । त्रिपञ्चपक्षे तेभ्य एव चरुणा सह स्विष्टकृद्धो इत्यादि । ' पश्वङ्गं दक्षिणा' अस्य पशोः अङ्गमस्य पशुवन्धस्य दक्षिणा । पश्वङ्गमिति विशेषात् [पशुर्द्धेनुः]वरादीनां प्रतिषेधः। वपा हुत्वा त्रीणि पञ्च सर्वाणि वावद्यति सर्वाभावे शेषात् स्वष्टकृत् स्थालीपाकेन सह प्रदानमिति स्मार्तपशुविषये कातीयसूत्रम् । ' तदैवतं च यजेत् ' व्यक्तिभेदेनार्घ - पशुदेवताः प्रोक्ताः । तेषां मध्ये यद्दैवतोर्भ्यः समागच्छति तदैवतं यजेत् बृहस्पतिपदस्थाने तत्तदैवतं पदं प्रयोज्यं देवतां त्वादिशेदित्यत्र देवतापदमात्रे विशेषः । ' तस्मै च भागं कुर्यात् ' तस्मै आचार्या - देरर्ध्याय किंचिदङ्गभागं कुर्यात् । 'तं च ब्रूयादिममनुप्रापयेति' भागदानसमयेऽर्थे प्रति ब्रूयादिममनुप्रापयेति प्रैषम् । 'नद्यन्तरे नावं कारयेत् ' एकादशाहप्रकरणे प्रेतायोद्दिश्य गामप्येके नन्तीत्युक्तं तत्कर्म कुत्र कर्त्तव्यमित्येतदर्थं नयन्तरे नदीमध्यस्थितद्वीपे नावं नवश्राद्धान्तःपातित्वेन एकादशाह - श्राद्धं नावमुच्यते । तत्रार्घ्यपशुविधिना प्रेतदैवत्यं पशुं कृत्वा तन्मांसेनावशिष्टेन तच्छ्राद्धं पिण्डदानं च कर्तव्यम् ॥ 'न वा ' अथवा पशोरालम्भने विकल्पः । तदा रोपि तच्छ्राद्धे निरस्तः ॥ एकादशी कण्डिका ॥ ११ ॥ 11 % 11
अथातोऽवकीर्णिप्रायश्चित्तम् || १ || अमावास्यायां चतुष्पथे गर्दभं पशुमालभते ॥ २॥ निर्ऋति पाकयज्ञेन यजेत ॥ ३ ॥ अप्स्ववदानहोमः ॥४॥ भूमौ पशुपुरोडाशश्रपणम् ॥ ५ ॥ तां छविं परिदधीत ॥ ६ ॥ ऊर्ध्वबालामित्येके ॥ ७ ॥ संवत्सरं भिक्षाचर्यं चरेत्स्वकर्म परिकीर्तयन् ॥ परमाज्याहुती जुहोति ॥ कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वा
॥ अथा